भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 506, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 506

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । द्वितीयः पादः । सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ (१।२।१) समन्वये प्रथमेऽध्याये सर्वेषां वेदान्तानां ब्रह्मणि समन्वयो वक्तव्यः । तत्रो- भाष्यप्रकाशः । सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ अथ द्वितीयपादं व्याचिख्यासवः पादानामेककार्य- स्वरूपां परस्परसंगतिं क्रमनियामिकामवसररूपां च संगतिं प्रतिपादयितुं व्याख्येयाध्यायार्थ- कथनपूर्वकं पूर्वपादसिद्धः सर्व एवार्थः संक्षेपेण वक्तव्योऽन्यथा मन्दमतीनां पूर्वोक्तानवधारणेन वक्ष्यमाणार्थे संदेहः स्यादित्यतस्तमाहुः समन्वयेत्यारभ्य, संदेहो निवारित इत्यन्तेन । समन्वये सर्ववेदान्तसमन्वयप्रतिपादकत्वेन समन्वयाख्यया प्रसिद्धे प्रथमेऽध्याये उक्तविधः रश्मिः । सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ इदानीं द्वितीयपादभाष्यं व्याचिख्यासवः सूत्रं मङ्ग- लत्वेन स्फुटं व्याख्यातुमाहुः सर्वत्रेत्यादि । अथ इति अयमानन्तर्ये । एककार्येत्यादि अत्रैकस्य कारणस्य प्रथमचरणरूपस्य कार्यत्वमन्तर्यामिप्रतिपादकेऽस्मिन् पादेऽन्यत्र चेति प्रथमस्य द्वितीयादिभिरेककार्यत्वमेवं चतुर्णामपि पादानां परस्परमेककार्यत्वमुन्नेयम् । तथा हि । शब्दसं- देहनिवारणस्य प्रथमपादकृतस्य द्वितीयपादादिकरिष्यमाणार्थसंदेहनिवारणां कार्यत्वमिति । अवसरेत्यादि प्रतिबन्धकीभूतजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वमवसरः । स च कार्यप्रति- पादकानां 'यतो वा इमानि' इत्यादीनां लक्षणार्थं भगवतो व्यासादेरन्तर्यामिप्रतिपादकापेक्षया प्राथमिकजिज्ञासाविषयत्वकथनेन तेषां ब्रह्मसमन्वयप्रतिपादनानन्तरं प्रतिबन्धकीभूतजिज्ञासानिवृत्तौ सत्यां जीवपुरस्कारेण कः समन्वय आधेयप्रतिपादकानामवश्यं वक्तव्य इति जिज्ञासया जीवपुरस्कारेण प्रतिपादकानां निरूपणादवसररूपामित्यर्थः । संक्षेपेण पूर्वपादार्थकथने प्रयोजनमाहुः अन्यथेत्या- दिना । वक्ष्यमाणार्थ इति । अयमर्थः । पूर्वपादे इदमित्थतया प्रतिपाद्यतायाव ईक्षत्यधिकरण उक्तः । अग्रे इदमित्थतया प्रतिपाद्यत्वाभाववदन्येषु बुद्धिनिवेशस्तौकर्याभावात् सर्वत्र प्रसिद्धसोपदेश उक्तः, वेदान्तानां शब्दत्वात् । प्रकर्षपदार्थ इदमित्थतया प्रतिपाद्यत्वं तेन सिद्धस्य न तु केनाप्यंशेन ज्ञाप्यस्य । उपदेशो मननं उपदिश्यतेनेन मननेनेत्युपदेशः । करणे घञ् । 'उपदेश आयोच्चारणम्' १. आधेय, कार्य, । २. आधेय । ५१ ब्र० सू० र०

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 506, कुल 2600 में से · BharatKosha