अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 507, कुल 2600 में से
संदर्भ में पढ़ें४१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १
भाष्यप्रकाशः । समन्वय एकार्थप्रतिपादकत्वरूपो वक्तव्यः । परप्राप्तिरूपफलसाधनाय तत्साधनीभूतब्रह्मज्ञानो- पकाराय चावश्यं वाच्यः । न चानन्तेष्वनन्तशाखेषु वेदेषूपनिषद्भागरूपाणां वेदान्तानामप्यनन्त- त्वादुक्तरीतिकसमन्वयोक्तेरशक्यत्वमसंगतत्वं वा शङ्क्यम् । प्रकारविशेषेण सर्वोपपत्तेरित्याशयेनाहुः तन्नेत्यादि । वक्तव्ये सर्वसमन्वये, अन्तस्तद्धर्माधिकरणादिविषयवाक्यभूतानामुद्गीथाद्युपासना- रश्मिः । इत्यत्र मनोरमायाम् । एवं च धर्मित्वेन ज्ञानविचारः पूर्वपादे वृत्तः । अधुना तु धर्मत्वेन । 'वेदस्य विद्यमानत्वान् मर्यादापि व्यवस्थिता' इतिवाक्यात्, अथातो धर्मजिज्ञासेत्युक्तत्वात् । तत्र धर्मः महतः सृष्टिव्यतिरिक्ते विराजादिः । 'प्रथमो महतः स्रष्टा द्वितीयस्त्वण्डसंस्थितः । तृतीयः सर्वभूतस्थः यज्ज्ञात्वा मुच्यते बुधः' ॥ इति वाक्यम् । किंच मुण्डकत्रये अक्षराद्युक्तं तदनु प्रश्ने परब्रह्मान्वेषकरणं द्वितीयस्याम् । तृतीयस्यां ब्रह्मविद्योपनिषदि । 'ब्रह्मविद्यां प्रवक्ष्यामि सर्वज्ञानमनुत्तमाम् । यत्रोत्पत्तिं लयं चैव ब्रह्मविष्णुमहेश्वरात्' ॥ इति श्रुत्याम् 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै- र्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेतिसंज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः' ॥ इति वाक्योपबृंहितायां व्याहृति ब्रह्म प्रसिद्धं तस्य 'मननाद्धर्मज्ञानविचार इति वक्ष्यमाणेऽर्थे संदेहो धर्मिनिरूपणं धर्मनिरूपणं वेति । धर्मिनिरूपणोपक्रमात् । तर्हि अस्तु धर्मिनिरूपणम् । मैवं । ब्रह्मविद्यात्वेनाक्षरस्य गुणत्रयविशिष्टस्यापि निरूपणे बाधकाभावात् पदशक्तेः प्राधान्यात् । वेदो- पाङ्गत्वेन मीमांसायाः । वेदद्वारा मर्यादायां धर्मनिरूपणरूपायां पर्यवसानाच्च । न चैवं पूर्वपाद- मीमांसातिरिक्तममीमांसाया हेयत्वापत्तिः, प्रकाशाश्रमन्यायाद्धर्माणां धर्म्यभेदात् । अधिकारिणां मर्या- दायां स्थितेरावश्यकत्वाच्च । विद्वन्मण्डने तथैवोक्तेः । अतो ज्ञानधर्मविचारः । एवं च प्रथमपादा- ग्रेतनपादेषु धर्मविचारो वा धर्मिविचारो वा सर्वत्र प्रसिद्धपदादुपक्रमाच्च । परप्राप्तीति पर एकार्थः अत एव जीवप्राणमुख्यसूत्रमापत्या व्याख्यातमन्यथा त्रयोर्थाः स्युरिति । तत्साधनी- त्यादि परप्राप्तिरूपफलसाधनीभूतं यद्ब्रह्मज्ञानं तदुपकारः फलजननयोग्यता स च व्यापारेण स्यात् । तादृशभक्त्यर्थं तदङ्गद्वयं माहात्म्यज्ञानं ब्रह्मात्मैक्यज्ञानं च तत्र समन्वये पूर्वाह्नं सर्वत्र वाक्यान्वया- धिकरणादौ ब्रह्मात्मैक्यं च प्रतिपाद्यते तस्मा इत्यर्थः । 'ब्रह्मविदाप्नोति परम्' 'भक्त्या जानाति चाव्य- यम्' इति श्रुतिभ्याम् । 'नाहं वेदैः' 'भक्त्यात्वनन्यया शक्य' इति । 'भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन्यथो भवेत्' ॥ इति 'अनन्ता वै वेदाः' इति श्रुतेराह अनन्तेष्विति । प्रकारेत्यादि यत्रैषां न्यायानां १. ब्रह्म । २. ज्ञानव्यापारीभूतभक्त्यर्थम् । 416