भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 508, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 508

ङ्गीथाद्युपासनावाक्यानां मुख्यवाक्येषु फलोपकार्यङ्गत्वम् । ब्रह्मवाक्यानां पुन- र्निःसंदिग्धानां समन्वयः स्वतः सिद्धः । संदिग्धानि द्विविधानि शब्दतोऽर्थतश्च ।

भाष्यप्रकाशः । वाक्यानां मुख्यवाक्येषु फलसंबन्धबोधकेषु सर्वविधकारणताप्रतिपादकवाक्येषु फलोपकार्यङ्ग- त्वम् । तत्तदुपासनया तेन तेन रूपेण तत्तत्फलप्राप्तौ महामाहात्म्यज्ञानस्यात्मत्वस्फूर्त्या निरुप- धिप्रेम्णश्च सिद्ध्या तस्य साधनस्य भक्तिरूपत्वसिद्धौ विवक्षितपरप्राप्तिरूपं फलं भवतीति तेषां तदङ्गत्वम् । तथा चानया रीत्याऽन्येषामनुक्तानामप्युपासनावाक्यानां प्रयोजनैक्यात् समन्वयः सिध्यतीति न पूर्वोक्तो दोष इत्यर्थः । एवमन्येष्वपि बोध्य इत्याशयेनाहुः ब्रह्मवाक्याना- मित्यादि । पूर्वं प्रतिपाद्यविषयभेदेन संदिग्धानि चतुर्विधान्युक्तान्यत्र तु तेष्वेव शब्दार्थभेदेन

रश्मिः । एकघटितमाधिकशतनामप्रसक्तिस्तत्र स्थले प्रकारविशेष (एवमारोपापवादसंगतिस्थले लक्ष्यलक्षणभाव- एककार्यत्वं वा संगतिप्रकारविशेषः) इत्यर्थः । स चाग्रे वाच्यः । मुख्यवाक्येषु लक्ष्यत्वं यत्तन्निरूपित- लक्षणत्वावच्छिन्नं विशेषणमाहुः फलेत्यादि । मुख्यत्वं फलसंबन्धित्वं पूर्वतन्त्रे । 'ब्रह्मविदाप्नोति परम्' इत्यादिषु वेदान्तत्वेन वेदेभ्यः पश्चादुपयुक्तेष्वर्थतः संदेहमग्रं वारयन्ति स्म सर्वेत्यादिना । सर्वा विधाः समवायित्वादयः । तेन कारणैः फलसंबंधो न त्वधिकारिभिः 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादाविति बोधितम् । ब्रह्मविदित्पत्र विशब्दे संदेहो ज्ञानप्रतिपादको वा भक्तिद्वार कज्ञानप्रतिपा- दको वेति । आकाशस्तल्लिङ्गादित्यधिकरणे आकाशशब्दो ब्रह्मणि प्रयुक्तो भौतिकाकाशे वेति । अत्र फलं माहात्म्यप्रतिपादनस्याधिदैविकचित्तशुद्धिद्वारा प्रेमा तस्य संबन्धान्मुख्यवाक्यत्वमवान्तरं फलं ब्रह्मविदेत्युक्तम् । एतत्स्फुटीकुर्वन्ति स्म तत्तदित्यादि । तेनतेनेत्यादि तं परमात्मानं यथा यथोपासते तद्वैतान् भूत्वावती¹तिश्रुतेः । 'भगवान्नेव हि फलं स ययाविर्भवेद् भुवि' इति तत्तत्फलप्राप्तौ ।

'देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ' ॥

इति महामाहात्म्यज्ञानस्य निरुपध्यंशे कारणत्वसिद्ध्यात्मत्वस्फूर्तिस्तत्त्वमस्यादिवाक्येन तत्क- रणको निरुपधिभित्तिशुद्धानन्यार्थ एकात्मविषयः प्रेमा तस्य सिद्ध्या च तस्य परायणस्य फलस्य भक्तिरूपस्य साधनस्य तात्पर्यवृत्त्या ज्ञानविषयस्य सिद्धौ व्यापारस्योल्लेखोऽयम् । न पूर्वोक्त इति समन्वयोक्तेरशक्यत्वरूपोऽसंगतत्वरूपश्च दोषो न । प्रेमरूपस्य फलोपकार्यङ्गत्वं महामाहात्म्य- ज्ञानसेत्यनया रीत्येत्यर्थः । फलोपकार्यङ्गत्वात् अनुक्तानामप्युपासनावाक्यानां प्रयोजनैक्याच्च । तेषामुपासनावाक्योक्तानां क्रमप्राप्तसाधनानां ब्रह्मविदेत्युक्तफलोपकार्यङ्गत्वमित्यर्थः । आत्मनैक्य- ज्ञानस्य भक्तिसाधनत्वाविशेषेपि हि 'आवृत्तिरसकृदुपदेशात्', इति न्यायेनावृत्यर्थ महात्म्यज्ञानं स्मरणात्मकं तस्य सिद्धिमात्रमुक्तम् । पूर्वोक्त इत्यादि आभासोक्तदोषः । भाष्ये । निःसंदिग्धानां 'सत्यं ज्ञानमनन्तं ब्रह्म' 'सत्यं विज्ञानमानन्दं ब्रह्म' इत्यादीनाम् । प्रकृते । पूर्वमित्यादि ऐश्वर्य-


१. तथैव भवतीतिं ।