भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 509, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 509

४१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १ तदर्थं चैतद्विचारितम् । ब्रह्मणि कव्यवहारोऽस्ति कश्चिन्न वेति । तत्र प्रथमसूत्र एव व्यवहारः स्थापितः । 'यतो वाचो निवर्तन्ते' इत्यादीनां विशेषेणेदमित्थतया निरूपणनिषेधनपरत्वम् । एवमेव कार्यसिद्धेः । अधीतानां ब्रह्मवाक्यानां चतु- र्लक्षण्य ब्रह्मपरत्वे सिद्धे श्रवणं सिध्यति । श्रुतस्य कालान्तरेऽप्यसंभावनाविप- रीतभावनानिवृत्त्यर्थं पूर्वस्थितानामङ्गानामनपेक्षितानामुद्वापेनान्येषामपेक्षिताना- मावापेन तस्यैवार्थस्य निर्धारणे मननं भवति । भाष्यप्रकाशः । संदिग्वत्वमाहुः संदिग्धानीत्यादि । तथाचैवं वाक्यविचारेणानुक्तानामपि समन्वयसिद्धि- रित्यर्थः । एवमध्यायार्थस्य सर्वोपयोगित्वमुक्त्वा पादार्थस्य वक्तुं तत्रत्याधिकरणानां प्रयोजनमर्थं च वदन्तः पूर्वं प्रथमस्या