भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 510, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 510

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४१९ भाष्यप्रकाशः । यानिरुक्तश्रुतिविरोधपरिहाराय च ब्रह्मणः श्रुत्यात्मकवागादिविषयत्वाङ्गीकार आवश्यकः । न चैवमपगमे उक्तश्रुतौ संकोचापत्तिः । विशेषेणेदमित्थतया निरूपयितुमशक्यस्यानुभवैकवेद्य- तया वागादिनिवृत्तिसम्भवेन संकोचाभावात् । न चैवमनुभवैकवेद्यत्वे मनोविषयत्वस्य संभ- वान्मनसा सहेत्यस्य विरोधः । लोके मनसा ज्ञायमानानामपि फलतण्डुलादिपाकानानावि- धान्नभोजनतज्जन्यतृप्तीनामिदमित्थतया अविषयत्वस्य सर्वजनीनत्वेनात्रापि तथात्वस्य युक्त- तया मनसो निवृत्तेर्विरोधलेशस्याप्यभावादित्यतस्तथोच्यत इत्यर्थः । भाष्ये तु वास्तवेन यत्किंचिद्रूपेण येनकेनचित् प्रकारेण निरूपणेऽपीदमित्थतया निरूपणस्य संभवात् तद्वारणाय विशेषेणेति पदं बोध्यम् । तथा पूर्वस्थितान्यङ्गानि ब्रह्मवाक्यस्थानि बोध्यानि । उद्वापस्तु रश्मिः । त्यसामननकर्तुरित्यर्थः । अनिरुक्तेत्यादि 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने अभयं प्रतिष्ठां विन्दते अथ सोऽभयंगतो भवति' इति श्रुतावदृश्यत्वादिगुणके स्थितिं प्राप्तस्य मुक्तिरुक्तेति विरोधपरिहारायेत्यर्थः । इदमित्थताया इति 'आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद् वदति तथैव चान्यः' इति स्मृतेर्जीवविषयत्वम् । एतेन पाकमोजनतृप्तीनां मनोमात्रवेद्यानां सर्वथा वागवेद्यत्व- मित्युकं तत्सङ्गेन स्मृतस्य यतो वाच इतिश्रुतिघटितस्य भाष्यस्य विशेषेणेतिपदस्य कृत्यं कुर्वन्तः श्लोकं समर्थयन्ते भाष्ये त्वित्यादिना । यत् किंचिद्रूपं सत्यविज्ञानानन्दरूपं सत्यज्ञानान- न्तरूपम् केनचित्प्रकारेण सत्यत्वादिना विशेषेणेति । 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति केनेषितोपनिषदि 'यस्यामतं तस्य मतं मतं यस्य न वेद सः' इति च श्रुतिभ्यामिदमित्थतया विशेषेण प्रकारेणेत्यर्थः । पूर्वस्थितानामित्यादिभाष्यर्थमाहुः तथेत्या- दिना । प्रतिपिपादयिषितानन्दमयहिरण्मयादिरूपाणि द्वादशाङ्गानि कमनीयानि तथा बृहद्वामन- पुराणे निर्गुणं पठितम् । तत्र जिज्ञासाधिकरणाद् ब्रह्मेत्यनुवर्तते न ब्रह्मत्वं तच्च जन्माद्यधिकरणे शास्त्रयोनिसमानाधिकरणं तदपि समन्वयाधिकरणेऽभिन्ननिमित्तोपादानरूपमीक्ष्यत्यधिकरणे वागव्या- पारविषयत्वं यद्यपि तथापि ब्रह्मोभयव्यपदेशाद्यधिकरणेषु विरुद्धसर्वधर्माश्रयत्वेन प्रतिपिपादयिषितमिति सर्वतः पाणिपादान्तत्वादयः प्राप्नुवन्ति । ते तृतीयाध्यायतुतीयपादे सर्ववेदान्तप्रत्ययाधिकरणेषु व्यवस्थितानि विरुद्धोपसंहारनिषेधादावापोद्वापाभ्यामङ्गानि तदेतदांहुः उद्वाप इत्यादिना । यद्यन- न्दमात्रकरपाद्मुखोदरादिरूपं 'ध्येयः सदा सवितृमण्डलमध्यवर्ती' इत्यत्र रूपं तत्तदुपासकोपास्यं तन्न प्रकृतपरत्वेन प्रतीयमानस्य व्यापकत्वादेस्तदन्योक्षरक्षरपरत्वेन कल्पनम् । यद्वा यद्येवं यथाश्रु- तमभिमतं स्यात् तदैवं परिच्छिन्नत्वेन दृश्यमानं न श्रुतं स्याद् यतः श्रुतमत एवमित्यापत्तिः । अन्यो व्यापकदृष्टसत्यत्वादिविशेषस्फुटक्षरपरत्वेन प्रतीयमानस्य पूर्वोक्ताङ्गस्य प्रकृतानन्दमयादि- परत्वापादनम् । यद्येवं यथाश्रुतमभिमतं स्यात् तदैवं 'ब्रह्मविदाप्नोति परम्' इत्याद्युक्तपरप्राप्तिरूपं फलं न श्रुतं स्यात् न वा 'आनन्दमानन्दमयोवसाने' इति फलं स्मृतं स्याद्, यतः श्रुतमत एवा- स्फुटव्यापकदृष्टसत्यत्वादिविशिष्टमित्यापत्तिः । 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः पर- स्तात्' इति श्रुतेः । न चैवं सर्वतः पाणिपादान्तत्वविशिष्टमञ्च किमिति वाच्यम् । साकारब्रह्मवादे मुक्तिरूपाणि यथा तथा तदप्यक्षराधिकरणोदौ ब्रह्मत्वेन प्रत्यपादि । विद्वन्मण्डने निर्गुणसगुणयो- 419

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 510, कुल 2600 में से · BharatKosha