अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 512, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४२१ रश्मिः । सर्गोपादानेनावगमेपि पुनः पूर्वोक्ताः साधनवैजात्येन फलरूपा ज्ञेयाः । स्वाम्यर्थो भक्तिमार्गे । याचनं निर्गुणे गुणमिश्रणम् । ततः श्रवणम् । अन्यथा 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्' इत्यादि स्यात् । अन्यमार्गे मार्गल्पहिंसा । इच्छा स्वोत्कृष्टत्वेच्छा । बुद्ध्याकारसेव- दचानामलौकिकदेहानाम् । 'अलौकिकस्य दाने हि चाद्यः सिद्धयेन् मनोरथः' इति सेवाफलोक्त- वाक्यात् । आलिङ्गनं सर्वमार्गेषु । अवाप्तिः संयोगे ब्रह्माप्राधान्येनापि प्राप्तिः । विरहे दहभावः । 'अस्यैव चोपपत्तेरूष्मा' इतिसूत्रात् । तथा च श्रुतिः । 'तं भजेत्' इति गोपालतापनीये । 'भजनं श्रवणादिसरणिः' इति भक्तिहंस इति वैधत्वम् । तेन निर्धारण इति निमित्ते सप्तमी व्याख्याता । निमित्तमिह फलम् । निर्धारणं दार्ढ्याप्युपलक्षकं 'दुर्बुद्धेस्तु ततो द्वयम्' इति भाष्यात् । प्राज्ञस्य दार्ढ्यमात्रं तदाहुः तद्दार्थे चेति । एवमावापोद्वापाभ्यां ध्यानादीत्यर्थः । 'गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्' इति न्यायात् । यदेकमव्यक्तमितिश्रुतेश्च ततोप्येवं ध्यानादीत्यन्वयः । 'आवृत्तिरस- कृदुपदेशात्' इति सूत्रात् । समाध्यन्तरूपेत्यत्र समाध्यन्तरूपमिति पारस्करःपाठ इति ज्ञापितम् । अत्रादिपदेन भाष्ये धारणा । संप्रज्ञातासंप्रज्ञातसमाध्योस्त्वत्र संप्रज्ञातः सिद्धिहेतुत्वान् न मोक्षफलक इति न स संगृह्यते । अतोत्र द्वितीयो ग्राह्यः । अभ्यासवैराग्ये अपि ग्राह्ये । हेतुत्वात् । ननु यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधिरूपाष्टाङ्गो हि योगः स कथं पञ्चाङ्गरहितो भवेदिति चेन्न । अत्र भक्तियोगस्य विवक्षितत्वाद् भाष्यस्य भक्तिमार्गीयत्वाद् स च गीतायां भक्तियोगाख्ये द्वादशेध्याये । 'ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते' ॥ इत्यनन्ययोग उक्तस्तत्र । 'मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः' ॥ इति 'परो हि योगो मनसः समाधिः' इतिवाक्योक्त उक्तः, ध्यानं एकैकाङ्गे मन आधानं, धारणायां सर्वाङ्गे मनआधानं बुद्धिनिवेशनानन्तरं ध्यानादिविषयज्ञाने सति । ततो ब्रह्मणि निवासस्तत्र मनएकीभावे सायुज्य इव समाधिरिति । न च पञ्चाङ्गानन्तरमेतद् भावि । 'एतेन योगः प्रत्युक्तः' इत्यत्र योगस्य प्रत्याख्यानात् । गीतामूर्धन्यविश्वरूपदर्शनाध्याये । 'नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप' ॥ इति भक्तिमात्रग्राह्यत्वात् तस्य । 'भक्त्या प्रसङ्गे तु हरौ तं योगेनेव योजयेत्' इति निबन्धाद् भक्त्यनन्तरं योगः, स मनसः समाधिः । ननु श्रीभागवत एकादशे चतुर्दशे भक्तिसाधन- ध्यानयोगनिरूपणाध्याये 'मुमुक्षोरेतन् मे ध्यानं त्वं वक्तुमर्हसि' इत्युद्धवप्रश्ने श्रीभगवानुवाच 'सम आसन आसीनः' इत्यादि । तत्रासनप्राणायामध्यानादिप्रत्याहाराणां निरुक्तत्वेन योगसद्भावाच्च । 'आसनं पञ्चकं बध्वा यथान्याह्वपि रोषते । 421