अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 523, कुल 2600 में से
संदर्भ में पढ़ेंरश्मिः । लोके स्वयमुपलम्भनिजसुखानुभवो भवानिति' । निजसुखं जीवियमपि आनन्दांशस्तु पूर्वमेव तिरोहितो येन जीवभाव इत्युक्तम् । नन्वेतस्यैव मुख्यश्रुत्युपष्टम्भकत्वे किं मानमिति चेन्न सिद्धवाक्यत्वात् । तथा च निबन्धः षष्ठस्कन्धस्य । 'भक्तिर्मूर्तिमती तत्र देवरूपा सुसंस्थिता । तद्व्यव्यतिरेकेण न सा निर्गन्तुमर्हति ॥ अतो हरिः सर्वदेवैः स्तूयते सिद्धभावितः' । इति । ध्यानादिसमाध्यन्तरूपमनसीत्यादिविसर्गरहितभाष्यपाठे तु ध्यानादीनां मनसो वृत्तीनां मन- स्त्वान्मनस्यानन्दमयत्वेन मनसीत्यादिः । तथा च श्रुतिः 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्ये- तत्सर्वं मन एव' इति बृहदारण्यके । तस्य प्रमाणबलस्य । 'यमेवैष वृणुते तेन लभ्यः' इतिश्रुतावेवकारेण [L1