अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 524, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४३३ रश्मिः । प्रभोरेव फलत्वं तन्निर्दोषत्वं च वर्ण्यते लीलानित्यत्वतः पूर्णगुणत्वं च ततोऽखिलमिति । ननु तथापि धर्मार्थ- मोक्षकामा इत्यन्तं सत्यं कामार्थधर्ममोक्षा इति क्रमस्य प्रथमसुबोधिन्यां धर्मस्य ह्यापवर्गसेतुत्वेनोक्तत्वात् । अतो जगद्व्यापारवर्जन्यदेतत् । अतो ब्रह्मणि स्वरूपतः कार्यतश्च व्यवहारस्थापनं प्रथमाधिकरणार्थः । ननु कर्मादिभ्यो ज्ञानमेव पुरुषार्थसाधनमतः कारणात् ब्रह्मजिज्ञासाकर्मबोधाधिकारः प्रथमाधिकरणार्थः कुतो नेति चेन्न ब्रह्मसम्बन्धिनां जिज्ञासेति शेषषष्ठ्या त्रयोदशोक्तयावदर्थसंग्रहात्कर्मशरीरप्रविष्टतदर्थे विशेषणीभूतानुवृत्तिरिति विचारो मुख्यो न तु अधिकारांशेऽनुवृत्तिविशेषणतयाभिप्रेतत्वात् । यद्वा भाष्ये 'यतो वाचो निवर्तन्ते' इति वाङ्मात्रनिवृत्तिरुक्तस्य ब्रह्मण अथातो ब्रह्मजिज्ञासेति पदैर्व्यवहारः ज्ञापित इति निष्कर्षः । अत्र तु तन्न्यूनतादोषं निग्रहस्थानमभ्युपगच्छद्भिर्ग्रन्थकारैः संपूर्णाधिकरणार्थ उक्तः स समर्थनीयो व्यवहारस्थापनमधिकारहेतुरूपपदार्थयोश्चोपलक्षकमिति । तथा च अधिकारहेतु- ब्रह्मजिज्ञासापदार्थसमूहो वाक्यार्थः । भाष्यार्थस्तु ज्ञापितपदव्याख्याने समर्थित एव । न च जिज्ञासामुखेन कार्यलक्षणं प्रथमतो वक्तुं शक्यम् । सगुणब्रह्मजिज्ञासेत्यापत्तेः । न च लक्षणबलात् सगुणस्यैव जिज्ञासेति वक्तुं शक्यम् । निर्गुणे तात्पर्यवृत्तिमात्रप्रतिपाद्ये प्रतिज्ञाया अनुपयोगादिति वाच्यम् । तुरीये चतुर्थचरणे नित्यलीलानिरूपणावसरे निर्गुणस्योपपादनादस्त्युपयोगः । किं च । 'निर्गुणो वा सगुणो वा श्रवणे क्रियते यदा । तच्छ्रवणं तु व्यर्थं स्यादित्येवं लक्षणं परे' ॥ इति । अत्रापीत्यादि एतेन श्रवणाङ्गत्वं मीमांसायां समर्थितम् । तेन पूर्वं वेदान्तान् श्रुत्वा पश्चादन्वयरूपमीमांसेति श्रवणमङ्गमस्याः सा श्रवणाङ्गमीमांसेति प्रोक्तम् । शब्दव्यापाररूपव्यवहारा- ज्ञापने सत्यत्र श्रवणं न स्यात् 'यतो वाच' इत्यादिश्रुतेर्ब्रह्मणोऽव्यवहार्यत्वात् । अत्र षष्ठीतत्पुरुषपक्षे 'श्रोतव्यो मन्तव्यः' इत्यत्र इदमित्थंतयाऽविषयो ब्रह्मविचारः । भाष्ये । माहात्म्येत्यादि । 'भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत्' ॥ इतिवाक्यात् यत इत्यस्य माहात्म्यज्ञानादैक्यज्ञानाच्चेत्यर्थात् । 'यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा' ॥ इति वेदव्यासैर्भागवतसंहितायाः पुष्टिफलं भवद्रतिर्भक्तिरुक्तेत्यपि इतिशब्दितं माहात्म्यज्ञान- फलम् । ननु श्रवणं च फलमित्युभयं च फलं कथमपरं च तृतीयाध्यायोक्तवर्णधर्माचारसेवोपप- त्त्या संतमसो न श्रुतः फलमिति चेन्न । पूर्वमीमांसानिर्णयफलमुक्तं संदेहवारणं दार्ढ्यं च । अत्र तु श्रवणाङ्गमीमांसोच्यते न तु मीमांसानिर्णयः तस्यां तु तत्संबन्धिज्ञानं फलं मीमांसा जन्माद्यधिकरणे विशुद्धजगज्जन्मादिकर्तृत्वेन शास्त्रप्रतिपाद्यत्वेन कृते ब्रह्मलक्षणसंबन्धित्वे ब्रह्मणोऽसंदिग्धत्वात् तन्माहात्म्ये विशुद्ध इत्यादि उक्ते देवस्वरूपे संदिग्धे सति तज्ज्ञानं माहात्म्यज्ञानमिति तस्य फलस्य उक्तत्वात् यथा पूर्वमीमांसायां मीमांसासंबन्धि धर्मस्य ज्ञानं फलम् । तथा युक्तत्वात् । १. 'इत्यादिर्ग्रन्थो नास्ति क्वचित्' । 433