अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 525, कुल 2600 में से
संदर्भ में पढ़ें४१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १ रश्मिः । [ 'त्वमात्मनाऽऽत्मानमवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन्- महानुभावाभ्युदयोधिगण्यताम्' ॥ इति 'इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम्' ॥ इति 'त्वमप्यदभ्रश्रुतविश्रुतं विभो समाप्यते येन विदां बुभुत्सितम् । प्रख्याहि दुःखैर्मुहुरर्दितात्मनां संक्लेशनिर्वाणमुशन्ति नान्यथा' ॥ इति भगवतो नारदस्य गुरुचरण श्रीद्वैपायनान् प्रति वचनात् । ] 'माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा' ॥ इतिपञ्चरात्रे माहात्म्यज्ञानस्य भक्तेः पूर्वत्वात् दैवीसंपत्संपन्नानुशास्यानुभवाच्च माहात्म्यज्ञानं फलं श्रुतायाः । नित्यलीलाप्रतिपादनादेवो भगवानिति प्रतीतिः । तत्त्वमस्याद्युक्तभेदो नात्र भक्तिफलक उपात्तः माहात्म्यज्ञानं तत्त्वमस्यादिमहावाक्योक्तभेदस्योपलक्षकं तेन तस्य किंचिन्न्यूनसाधनत्वं व्यज्यते श्रद्धादीनां तस्य साध्यत्वात् माहात्म्यज्ञानानन्तरं स्वयं भवनादनुक्तिः ग्रन्थगौरवभयात् । मीमांसाविचारे श्रीभागवतफलविचारस्तुमयोः श्रवणघटितत्वेन तत्र श्रवणे दशविधलीलानां श्रवण- विषयतावच्छेदकत्वात् । उभयफलकत्वं मीमांसायां संयोगपृथक्त्वन्यायेन । अपरं च वर्णाश्रमाचार- जन्या भक्तिर्निबन्धटीकायामेतादृशभक्तादर्शनान्नास्तीत्युक्तेर्नात्र निरूळखिता । सेवोभयं तु यदा फलदित्सा भगवतस्तदा श्रीमदाचार्यमार्गश्रद्धया शरणागतौ भवति इति न सकलाधिकारकम् । सर्वात्मभावस्तु 'प्रदानवदेव तदुक्तम्' इत्यधिकरणे दानसाध्यः इत्यन्यदेतत् । एवं च मीमांसयार- म्भोक्तासंभावनाविपरीतभावनानिवृत्त्या श्रवणं तेन माहात्म्यं देवत्वज्ञानं फलमिति निष्पन्नम् । एवं च ब्रह्मत्वं ब्रह्मेति निर्विकल्पकं ज्ञानम् । अत्राध्यारोपापवादलक्षणसंगत्या जगज्जन्मादिकर्तृत्वादि तत्रारोप्याग्रे ब्रह्मनिरूपणे 'अरूपवदेव हि तत्प्रधानत्वात्' इत्येनेनापवादादिति कश्चित् ब्रूयात् तं प्रतिब्रूयात् परमतभाषैषा समाधिभाषापोषिका न प्रमाणम् । प्रमाणं तु समाधिभाषा तत्र 'अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे' इति भक्तियोगे दृष्टे भक्तिमार्गविरुद्धः कथमारोपापवादः । भगवन्माहा- त्म्यनाशकत्वात् । अत एवोक्तम् अरूपवत्सूत्रे एकदेशिमतेन समाधानमाहेतिभाष्ये । अतो भक्तिमार्गे विद्वन्मण्डनोक्तदिशा सगुणनिर्गुणयोरभेदः । अतो निर्वाहक लक्षणसंगत्या नह्मनिरूपणम् । एकस्य ब्रह्मज्ञानस्य निर्गुणस्य गुणश्रुतिनिरूपणयोरविर्भावकत्वेन श्रुतितात्पर्यविषयस्य च सगुणनिर्गुणश्रुति- निरूपणयोराविर्भावकत्वेन च निर्गुणब्रह्मनिरूपणानन्तरं किं ब्रह्मज्ञाननिर्वाहप्रयोजकमिति जिज्ञासाया सगुणब्रह्मनिरूपणमिति । तथा 'आत्मेवेदमग्र आसीत्' 'ब्रह्मविदाप्नोति परम्' 'संपद्याविर्भाव- ५३४