अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 530, कुल 2600 में से
संदर्भ में पढ़ेंभौतिकगुणानामसंबन्धार्थमेव ह्याद्यायारम्भः । अन्यथा सर्वस्यापि तत्कारणत्वेन तत्संबन्धस्य विद्यमानत्वादन्यनिराकरणेन तत्प्रतिपादकत्वनिर्धारकाधिकरणानां वैयर्थ्यमेव । अर्थसंदेहनिराकरणार्थं द्वितीयाद्यारम्भः । तत्रार्थो द्विविधो जीवजडात्मकः प्रत्येकसमुदायाभ्यां त्रिविधः । तत्र प्रथमं जीवपुरःसरेण संदेहा निवार्यन्ते ।
भाष्यप्रकाशः ।
तत्कारणत्वेन । तथाचातोऽवगम्यत इत्यर्थः । एवं प्रासङ्गिकं निराकृत्य प्रस्तुतमाहुः अर्थेत्यादि । कोऽर्थः संदेहजनकः, कथं च तन्निराकरणमित्यपेक्षायामाहुः तत्रार्थ इत्यादि । द्वितीय- पादार्थमाहुः । तत्र प्रथममित्यादि । जीवपुरःसरेणेति प्रथमाधिकरणे, अनुपपत्तेस्तु न शारीर इति पूर्वं जीवस्यैव निराकरणाज्जीवपुरःसरेण विचारेणेत्यर्थः । एवमग्रिमपादेऽपि, नानु- मानमतच्छब्दादिति सूत्रप्रणयनाजडपुरःसरत्वम् । एवं चतुर्थेऽप्युभयपुरःसरत्वमानुमानिकसूत्र- विवरणादवगन्तव्यम् । तथाच त्रिभिः पादैस्त्रिविधार्थसंदेहो निवार्यत इत्यर्थः । एवं च पादा- नामेककार्यकत्वेऽपि क्रमनियामिकाऽत्रावसररूपा संगतिरिति बोधितम् । अन्ये तु प्रथमपादे स्पष्टब्रह्मलिङ्गानि आकाशादिवाक्यानि निर्णीतानि । द्वितीयतृतीययो- स्त्वस्पष्टब्रह्मलिङ्गानि निर्णीयन्त इत्याहुः । तन्मते क्रमनियामकं न स्पष्टम् ।
रश्मिः ।
अतोऽवगम्यत इति कार्यस्य जगतः सगुणनिर्गुणत्वाद् गुणास्तु 'आत्ममायामृते' इति स्वमते अवस्थानादप्यवगम्यते । भाष्ये । तस्य प्रतिज्ञातस्य निर्गुणस्य कारणत्वेन तत्संबन्धः कार्यकारण- भावः । सृष्टिः षोढेति न भाष्ये विशिष्य संबन्धग्रहणम् । 'कार्यकारणवस्त्वैक्यमर्पणं पटतन्तुवत्' इत्यन्यायाभावेनान्यस्य आनन्दमयविभूत्यादेरभावेन तन्निराकरणेन ब्रह्मत्वप्रतिपादकत्वनिर्धारकाणामा- नन्दमयाद्यधिकरणानां विशेषणाभावप्रयुक्तनिर्धारकत्वाभावेन वैयर्थ्यम् । एवकारस्तु गुणानां तज्जन्यत्वेन तदात्मकत्वेऽवस्थितमते सदानन्दस्य जगत्कर्त्री शक्तिः चितो व्यामोहिकेति ग्रन्थासंगतिः । सांख्यवत्प्रतिज्ञा निर्गुणस्य जगत्कर्त्री शक्तिरन्या चेत्युपपद्यते । अतः सार्थकत्वे यथा कथंचिन्मतासंगतिं व्यवच्छिनत्ति । तेनावस्थितमते सांख्याद् भेदः मायावादिमतं सगुणं विद्वन्मण्डने विचारितम् । प्रकृते । इति पूर्वमिति जीवनिराकरणाल्लिङ्गाद्धेतोः पूर्वकालं पूर्वपादार्थनिरूपणकालम् 'कालाध्वनोरत्यन्तसं- योगे' इति द्वितीया । प्रसङ्गादन्ययोः पादयोरप्याहुः एवमग्रिमइति । जड इति प्रकृतिरित्यर्थः । एके- त्यादि एकस्य कारणस्य कार्यप्रतिपादकानां ब्रह्मसमन्वयस्य प्रथमपादार्थस्य हि जीवजडतदुभयसमन्वय- निराकरणानि कार्याणि तत्कत्वेप्यर्थः । स्वार्थे कः । चेतनत्वेन प्रतिबन्धकीभूतजीवनिराकरणजिज्ञासानि- वृत्तौ सत्यामवश्यवक्तव्यत्वं जडनिराकरणस्येत्यवसररूपा । तन्निरूपणानन्तरं तदुभयनिरूपणमित्यवसरः । अन्य इत्यादि शंकराचार्यादयः । तन्मत इत्यादि द्वितीयार्थस्यैव प्रथमनिरूपणं तृतीयस्य पश्चा- दित्यत्र क्रमनियामकाभावः । प्रतिबन्धकीभूतजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वस्योभयत्र तौल्यात् । प्रकृते तु जडापेक्षया जीवस्य चेतनत्वेन वैशिष्ट्यात् प्रथमं तत्पुरःसरेण संदेहवारणं पश्चात् जडपुरःसरे- णेत्यर्थः । यद्यप्युपास्यज्ञेयब्रह्मणोर्भेदमाश्रित्य पादयोरवान्तरभेद इति तद्भाष्ये उक्तं तथाप्युपासनाया- श्चित्तशुद्ध्यर्थत्वेन उपासापेक्षया ज्ञेयस्योत्कृष्टत्वात् पूर्वनिरूपणं प्राप्तं तदभावश्चेति ज्ञेयम् । अन्ये स्त्विति । रामानुजाचार्यास्तु ससंदिग्धलिङ्गानि वाक्यानि द्वितीये विचार्यन्ते । स्पष्टलिङ्ग- ५६ ब्र० सू० १० / ५३९