अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 535, कुल 2600 में से
संदर्भ में पढ़ें४४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १ तन्न पूर्ववाक्ये जडस्य जगतो ब्रह्मत्वेनोपासनस्योक्तत्वाज्जीवस्यापि ब्रह्म- त्वेनोपासनमेव युक्तं, न त्वाहत्यैव ब्रह्मवाक्यं भवितुमर्हति। विज्ञानं ब्रह्म चेद्वे- देति शाखान्तरे स्पष्टत्वाच्च । तस्मात् कार्यकारणयोरभेदाज्जीव एव ब्रह्मत्वेनो- पास्य इत्येवं प्राप्ते, उच्यते। भाष्यप्रकाशः। क्तधर्मवैशिष्ट्याद् ब्रह्म वा, यः पुराणेषु 'केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्' इत्यादौ सूक्ष्मो हृदयान्तर्वर्त्तित्वेनोक्त इति संदेह इत्यर्थः । इह, तत्र मनोमय इत्यादिनापासन- विषयबोधनेनाधिकरणसंगतिरपि बोध्यते। पूर्वपादे जन्मादिसूत्रे ब्रह्मणः कर्तृत्वमुक्त्वा तल्लिङ्गा- दधिकरणचतुष्टयेनातिव्याप्तिपरिहारे क्रियमाणेऽन्तिमेनानुगमाधिकरणेन जडविशिष्टे जीवेऽति- व्याप्तिनिवारणं कृतम् । तदस्मिन्नधिकरणे कर्तृत्वनिर्वाहकाणां मनोमयत्वादिसर्वकर्मान्तानां धर्माणां जीवे बोधनेन ब्रह्मणि तदभावात् कर्तृत्वासंभवं बोधयित्वा पूर्वपक्ष आक्षिप्यते । तेनाक्षेपः संगतिः । पूर्वपक्षमाहुः तन्न पूर्वेत्यादि । आहत्येति । अकस्मात् प्रबलहेतुं विनेति यावत् । तथाच द्वयोर्लिङ्गस्य सत्त्वेन तस्यानिर्णायकत्वादुपक्रमस्यार्थाज्जातविरोधत्वेन बलिष्ठत्वात् तत्र च जीवस्यैवोक्तत्वात् पूर्ववाक्यविचारणेऽपि प्रकरणस्यैव नियामकतया औचित्याच्च नास्य ब्रह्मवाक्यत्वम् । किंतु शाखान्तरोक्तविज्ञानमयस्यात्र भारूपत्वेन प्रत्यभिज्ञानात् कार्ये सशरीरे जीवे कारणभूतस्य ब्रह्मण उपचारं विधाय सत्यसंकल्पादिधर्मवत्तया वेदाभिमानिदेवता जीवो वा, स्वजीव एव वोपास्य इत्यर्थः । सिद्धान्तं वक्तुं सूत्रं पठन्ति । रश्मिः। इत्याकाङ्क्षायां य इति भाष्यं विवरामासुः यः पुराणेषु इति । तथा च शाब्दसंदेहो न तु चाक्षुष इति पूर्वोक्तत्वात् । पूर्वोक्तसादृश्यस्य दूरस्थोपाधिगृहीतस्य शाब्दसंदेहे प्रयोजकत्वात् । य अन्तर्यामी पूर्वपादत्रिसूत्र्याः संगृहीतस्य शास्त्रार्थस्यैवाग्रे प्रपञ्च इत्युक्तम् । तदस्य पादस्य कथमित्याकाङ्क्षायां संगतिमप्याहुः इहेति । उपासनेति इह तत्रेत्यादेः पूर्वपक्षग्रन्थत्वातदनुसारी ग्रन्थः सिद्धान्ते तु मननात्मक-क्रतुविशेषणानि मनोमय इत्यादीनि तेन पूर्वपक्ष एवाक्षेपसंगतिः । सिद्धान्ते तु तन्निवारणमिति । कर्तृत्वेति जगज्जन्मादिकर्तृत्वं पूर्वपादोक्तं निरङ्कुशजगत्कर्तृत्वेन शास्त्रप्रतिपाद्यत्वं तस्यासंभवमित्यर्थः । आक्षिप्यत इति जीवे मनोमयत्वादिसंनिवेशे निरङ्कुशजगज्जन्मादिकर्तृत्वेन शास्त्रप्रतिपाद्यत्वस्य कुलालवत् संभवात् न ब्रह्म पूर्वपादोक्तकर्तृत्वेन शास्त्रं प्रतिपाद्यमित्याक्षिप्यत इत्यर्थः । आक्षेपो भर्त्सनम् । पूर्वाधिकरणे सर्वात्मकब्रह्मण उपासनानिरूपणेन स्मृतस्यैतदधिकशङ्का- पूर्वपक्षभर्त्सनापेक्षानर्हत्वात् पूर्वपक्षेणाक्षेपः संगतिरित्यर्थः । नन्वधिकरणस्य संगतिर्घटितत्वेनांशतः संगतौ कुतः संगतिनिरूपणमितिचेन्न घटितसंगतेरेवाक्षेपरूपाया निरूपणात् । द्वयोरिति ब्रह्मजीवयोः । तस्य लिङ्गस्य । उपक्रमस्य सर्वं खल्विदमित्यस्य । जीवस्येति तज्जलानिति हेतौ सर्वे जीवा इति मुण्डके जीवव्युच्चरणश्रावणात् जीवस्य ब्रह्माव्युच्चारणादेवकारः । पूर्वेति सर्वं खल्विदमिति पूर्ववाक्यविचारणे । प्रकरणस्येति ब्रह्मत्वेन जीवोपासनाप्रकरणस्य । विज्ञानमिति भाष्यं विवृण्वन्त एव तस्मादित्यादि भाष्यं विवृण्वन्ति किं त्विति शाखान्तरं तैत्तिरीयम् । तदुक्तविज्ञान- मयस्य अन्यो अन्तरआत्मा विज्ञानमय इतिश्रुत्युक्तस्यात्र छान्दोग्ये भारूपत्वेनेत्यर्थः । ननु प्रत्यभि- ज्ञानस्य किं प्रयोजनमिति चेन्न भारूपपदेन जीवप्राप्तावपि शरीरत्राणाय सत्यसंकल्पादिसम्बन्धेनाज्ञानेन 444