अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
४४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १ तन्न पूर्ववाक्ये जडस्य जगतो ब्रह्मत्वेनोपासनस्योक्तत्वाज्जीवस्यापि ब्रह्म- त्वेनोपासनमेव युक्तं, न त्वाहत्यैव ब्रह्मवाक्यं भवितुमर्हति। विज्ञानं ब्रह्म चेद्वे- देति शाखान्तरे स्पष्टत्वाच्च । तस्मात् कार्यकारणयोरभेदाज्जीव एव ब्रह्मत्वेनो- पास्य इत्येवं प्राप्ते, उच्यते। भाष्यप्रकाशः। क्तधर्मवैशिष्ट्याद् ब्रह्म वा, यः पुराणेषु 'केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्' इत्यादौ सूक्ष्मो हृदयान्तर्वर्त्तित्वेनोक्त इति संदेह इत्यर्थः । इह, तत्र मनोमय इत्यादिनापासन- विषयबोधनेनाधिकरणसंगतिरपि बोध्यते। पूर्वपादे जन्मादिसूत्रे ब्रह्मणः कर्तृत्वमुक्त्वा तल्लिङ्गा- दधिकरणचतुष्टयेनातिव्याप्तिपरिहारे क्रियमाणेऽन्तिमेनानुगमाधिकरणेन जडविशिष्टे जीवेऽति- व्याप्तिनिवारणं कृतम् । तदस्मिन्नधिकरणे कर्तृत्वनिर्वाहकाणां मनोमयत्वादिसर्वकर्मान्तानां धर्माणां जीवे बोधनेन ब्रह्मणि तदभावात् कर्तृत्वासंभवं बोधयित्वा पूर्वपक्ष आक्षिप्यते । तेनाक्षेपः संगतिः । पूर्वपक्षमाहुः तन्न पूर्वेत्यादि । आहत्येति । अकस्मात् प्रबलहेतुं विनेति यावत् । तथाच द्वयोर्लिङ्गस्य सत्त्वेन तस्यानिर्णायकत्वादुपक्रमस्यार्थाज्जातविरोधत्वेन बलिष्ठत्वात् तत्र च जीवस्यैवोक्तत्वात् पूर्ववाक्यविचारणेऽपि प्रकरणस्यैव नियामकतया औचित्याच्च नास्य ब्रह्मवाक्यत्वम् । किंतु शाखान्तरोक्तविज्ञानमयस्यात्र भारूपत्वेन प्रत्यभिज्ञानात् कार्ये सशरीरे जीवे कारणभूतस्य ब्रह्मण उपचारं विधाय सत्यसंकल्पादिधर्मवत्तया वेदाभिमानिदेवता जीवो वा, स्वजीव एव वोपास्य इत्यर्थः । सिद्धान्तं वक्तुं सूत्रं पठन्ति । रश्मिः। इत्याकाङ्क्षायां य इति भाष्यं विवरामासुः यः पुराणेषु इति । तथा च शाब्दसंदेहो न तु चाक्षुष इति पूर्वोक्तत्वात् । पूर्वोक्तसादृश्यस्य दूरस्थोपाधिगृहीतस्य शाब्दसंदेहे प्रयोजकत्वात् । य अन्तर्यामी पूर्वपादत्रिसूत्र्याः संगृहीतस्य शास्त्रार्थस्यैवाग्रे प्रपञ्च इत्युक्तम् । तदस्य पादस्य कथमित्याकाङ्क्षायां संगतिमप्याहुः इहेति । उपासनेति इह तत्रेत्यादेः पूर्वपक्षग्रन्थत्वातदनुसारी ग्रन्थः सिद्धान्ते तु मननात्मक-क्रतुविशेषणानि मनोमय इत्यादीनि तेन पूर्वपक्ष एवाक्षेपसंगतिः । सिद्धान्ते तु तन्निवारणमिति । कर्तृत्वेति जगज्जन्मादिकर्तृत्वं पूर्वपादोक्तं निरङ्कुशजगत्कर्तृत्वेन शास्त्रप्रतिपाद्यत्वं तस्यासंभवमित्यर्थः । आक्षिप्यत इति जीवे मनोमयत्वादिसंनिवेशे निरङ्कुशजगज्जन्मादिकर्तृत्वेन शास्त्रप्रतिपाद्यत्वस्य कुलालवत् संभवात् न ब्रह्म पूर्वपादोक्तकर्तृत्वेन शास्त्रं प्रतिपाद्यमित्याक्षिप्यत इत्यर्थः । आक्षेपो भर्त्सनम् । पूर्वाधिकरणे सर्वात्मकब्रह्मण उपासनानिरूपणेन स्मृतस्यैतदधिकशङ्का- पूर्वपक्षभर्त्सनापेक्षानर्हत्वात् पूर्वपक्षेणाक्षेपः संगतिरित्यर्थः । नन्वधिकरणस्य संगतिर्घटितत्वेनांशतः संगतौ कुतः संगतिनिरूपणमितिचेन्न घटितसंगतेरेवाक्षेपरूपाया निरूपणात् । द्वयोरिति ब्रह्मजीवयोः । तस्य लिङ्गस्य । उपक्रमस्य सर्वं खल्विदमित्यस्य । जीवस्येति तज्जलानिति हेतौ सर्वे जीवा इति मुण्डके जीवव्युच्चरणश्रावणात् जीवस्य ब्रह्माव्युच्चारणादेवकारः । पूर्वेति सर्वं खल्विदमिति पूर्ववाक्यविचारणे । प्रकरणस्येति ब्रह्मत्वेन जीवोपासनाप्रकरणस्य । विज्ञानमिति भाष्यं विवृण्वन्त एव तस्मादित्यादि भाष्यं विवृण्वन्ति किं त्विति शाखान्तरं तैत्तिरीयम् । तदुक्तविज्ञान- मयस्य अन्यो अन्तरआत्मा विज्ञानमय इतिश्रुत्युक्तस्यात्र छान्दोग्ये भारूपत्वेनेत्यर्थः । ननु प्रत्यभि- ज्ञानस्य किं प्रयोजनमिति चेन्न भारूपपदेन जीवप्राप्तावपि शरीरत्राणाय सत्यसंकल्पादिसम्बन्धेनाज्ञानेन 444
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४४५
सर्वत्र प्रसिद्धोपदेशात् ॥ अथ खल्वित्यादि ब्रह्मवाक्यमेव । कुतः । सर्वत्र प्रसिद्धोपदेशात् । कुर्वीतेत्युपदेशो, न तूपासना । तत्र परमशान्तस्य सर्वस्य जगतो ब्रह्मत्वेनोपासनया शुद्धान्तःकरणस्य सर्ववेदान्तप्रसिद्धब्रह्मोपदेश एव युक्तो मननरूपो न तु क्वचित् सिद्धस्य जीवस्योपासना ।
भाष्यप्रकाशः ।
सर्वत्र प्रसिद्धोपदेशात् ॥ कथमयमुपदेश इत्याकाङ्क्षायामाहुः तत्रेत्यादि । तथाच सर्वं खल्विति पूर्ववाक्ये यज्जगतो ब्रह्मत्वेनोपासनं तद्भगवत एव विराट्त्वेनोपासनम् । तस्य काल्पनिकत्वाभावबोधनायैवात्र तज्जलानिति हेतूक्तिः । तत्फलं चान्तःकरणशुद्धिः । 'स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितेकैः । तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेत यत आत्मपातः' ॥ इति तद्विधायकवाक्ये तथा सिद्धत्वात् । एवं सति पूर्वो
, by the will of the Lord...) Wait, "भगवदिच्छाया" or "भगवदिच्छायां"? There is an anusvara: भगवदिच्छायां!
L27: "'ये चातुस्सन्दा यत्रार्थे' इत्याः पत्रावलम्बनकारिकाया वेदराशिमात्रविषयत्वेन मनने समुदायश-" Wait: "ये चातुस्सन्दा" -> Look at the quote: "'ये चातुःसन्दा'" or "'ये चातुश्छन्दा'" or "'ये चातुःस्वन्दा'"? Wait, Vallabhacharya's Patravalambana: "ये चातुश्छन्दा यत्रार्थे..." (those who belong to the four Vedas / chhandas)? Look at the characters: य - े च - ा - त - ु - स् - स - न्दा -> wait, is it 'चातुश्छन्दा'? च with आ = चा त with ु = तु स् with स = स्स? Or श् with छ = श्छ? In Grantha/Devanagari, 'च्छ' or 'श्छ': here it looks like: स्स or श्छ? Look at the loop: it has 'स' + 'स' or 'स' + 'न्द'? "चातुस्सन्दा" or "चातुश्छन्दा"? Wait, look at 'इत्याः' -> is it 'इत्याः' or 'इत्यादि'? It has: इ -
तत्पूर्ववाक्यविचारे, एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानित्यादिश्रुतिभिर्जग- जनकत्वस्य वेदे सत्त्वेऽप्यस्य महतो भूतस्य निःश्वसितं यदृग्वेदो यजुर्वेद इत्यादिश्रुत्या वेदस्य ब्रह्मजन्यत्वावधारणे निरङ्कुशस्य जगज्जनकत्वस्य वेदे अभावात्, 'यो ब्रह्माणं विदधाति पूर्वं, हिरण्यगर्भं पश्यति जायमानम्' इत्यादिभिर्हिरण्यगर्भेऽप्यभावात्तादृशजनकत्वस्योद्भावेन, निरङ्कु- शस्य, यतो वेत्यादिश्रुत्युक्तस्य तस्यावापेन च ब्रह्मपदस्य परवाचकत्वे निर्धारिते तस्य वाक्यस्य परब्रह्मरूपो वाक्यार्थो मतो भवति । तथैतद्वाक्यमननेऽपि सत्यसंकल्पेत्यारभ्य यावन्ति विशे- पणानि तेषां मनोविकारभूते वेदे हिरण्यगर्भे जीवान्तरे चासंभवात् तद्विशिष्टे मनोमये मन्तव्ये, मनसैवानुद्रष्टव्यः, स मानसीन आत्मा जनानां, मनसा तु विशुद्धेनेत्यादिश्रुतिभि
४४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० १ सू० १ भाष्यप्रकाशः । मनोग्रााद्यत्वेन मनःप्राचुर्याद्विकारोद्वापेन प्राचुर्यावापेन चानन्दमयरूपो मनोमयः, को ह्येवान्यात् कः प्राण्यादिति प्राणितृत्वश्रावणात् प्राणस्वरूपविग्रह इति मननादानन्दमयरूपो यः प्राण- शरीररूपोऽन्तर्यामी सोऽत्र वाक्यार्थ इत्यर्थः । अत्र विषयवाक्ये, भारूप इति प्रकाशरूपो ज्ञानात्मा । सत्यसंकल्प इति, सत्या अवितथा विषयाऽव्यभिचारिणः संकल्पा विचारा यस्य तादृशः । आकाशात्मेति, व्यापको दुर्ज्ञेयो नीरूपो नीलः सर्वाधारो नामरूपनिर्वाहकः । सर्वे रश्मिः । द्वापेनेत्यर्थः । अत्र हेतुः मनःप्राचुर्यादिति । तथा च प्रकृतमनःपरत्वेन प्रतीयमानस्य विकारे मयटो मनः संकल्पविकल्पात्मकमनोविकारत्वापादनेनान्योन्यपरत्वेन आनन्दमयवाचकमनोमयप्रतीयमानस्य
भाष्यप्रकाशः। कामा निर्दोषा यस्येति सर्वकामः । एवमग्रेऽपि सर्वमिदं जगत् अभ्यात्तः, अभि अन्तर्बहिरु- भयत्र गृहीतो ज्ञातः । अवाकी । उच्यतेऽनयेति वाक् । वागेव वाकः । करणे घञ् । स यस्य वर्ततेऽसौ वाकी । तद्भिन्नोऽवाकी । उपलक्षणमिदम् । कार्यं कुर्वन्नपि करणशून्यः । अपाणि- पादो जवनो ग्रहीतेति श्रुत्यन्तरात् । अनादरः । न विद्यत आदरः संभ्रमो यस्य । आप्तकाम- त्वात् । सर्वानपेक्षः । अभिसंभवितास्मीति प्राप्तास्मि । अद्धेति निश्चयः । एतादृशस्तं प्राप्नोतीति शेषः । स्फुटमन्यत् । ननु भवत्वयं विषयवाक्यार्थस्तथापि सूत्रे पक्षानुल्लेखात् कथं व्याख्या- रश्मिः। भावात् । न चाकाशो रूपवान् वायुभिन्नत्वे सति महत्त्वात् पृथिवीवत् इत्यनुमानं मानमिति शङ्क्यम् । द्रव्यत्वस्य तत्रोपाधित्वात् । नापि क्रियारहितत्वे सति भूतत्वात् यन्नैवं तन्नैवं कालवदिति द्रव्यारम्भकत्वस्योपाधित्वात् आद्यक्षणीयघटादौ व्यभिचाराच्च । बहिरिन्द्रियग्राह्यविशेषगुणवद्वृत्ति- द्रव्यत्वसाक्षाद्व्याप्यधर्मवत्त्वस्य कालादीतरद्रव्यत्वस्य वा भूतत्वस्य वा तत्रापि सत्त्वात् । किं च यदि आकाशो रूपवान् स्यात् परममहान् स्यात् बहिरिन्द्रियग्राह्यो वा स्यात् स्पर्शवान् वा स्यात् पृथिव्यादित्रयं वा स्यादिति बाधकतर्कपराहतं रूपवत्त्वमाकाशस्येत्याहुः तदिदं साहित्यसर्वस्वकारो नानुमन्यते तथाहि नेदमुचितं नीलं नभः पश्यामीति निःशङ्कं सार्वजनीनप्रत्ययात् न चासौ भ्रमः किमसौ विषयदोषः सादृश्यनिबन्धनस्तत्कारणीभूत इदं रजतमितिवदुत करणदोषः पित्तादिनिबन्धनः शङ्खः पीत इतिवत् नाद्यः असंभवात् । विषयगतदोषजन्यभ्रमत्वावच्छिन्नं प्रति धर्मप्रमोषसहकृता- रोपस्य तन्त्रत्वात् प्रकृते तदभावात् । नभस्त्वस्यावच्छेदकतया व्यवस्थापयिष्यमाणत्वात् । न द्वितीयः अस्य प्रत्यक्षस्य सार्वजनीनत्वात् युगपत्सर्वजनकरणदोषस्य वक्तुमशक्यत्वात् । न चेन्द्रजालिकमायायां यथा वस्तुग्रहणप्रतिबन्धकरूपः करणगतो विषयगतो वा दोषः सार्वजनीनः । अत्र शोधपत्रं मत्कृतटिप्पण- भाष्यप्रकाशेऽस्ति । नामरूपेति 'आकाशो ह वै नामरूपयोर्निर्वहिता' इतिश्रुतेरित्यर्थः । आकाश इवाकाशोऽव्याकृताख्यः नामरूपयोर्जगद्बीजभूतयोर्निर्वहिता निर्वोढा व्याकर्तेति यावदिति श्रुत्यर्थः । अग्र इति सर्वकर्मा सर्वगन्धः सर्वरस इत्यत्र सर्वे गन्धाः सर्वे रसाः सर्वकर्मा पूर्वं पठितः सर्वकामात् सर्वाणि कर्माणि यस्य । ज्ञात इति ग्रह उपादाने चक्षुषा रूपं गृह्णाति बुद्ध्या पदार्थो गृहीत इत्यादी रूपादिर्गृहीतो ज्ञातो वेति पर्यायात् । वागिति वाक् वागेवेत्येतत् संपातायातम् । एवं चोच्यतेऽनयेति वाकः करणाधिकरणयोश्चेति घञ् । एतेनोच्यतेऽनया सा वाक् वागेव वाक इति प्रत्युक्तम् । प्राप्तास्मि तत्र 'एष मे आत्मान्तर्हृदयमेतद् ब्रह्मैतमितः प्रेत्याभिसंभवितास्मि यस्य स्यादद्धा न विचिकित्सास्तीत्याह शाण्डिल्यः शाण्डिल्यः' इत्यत्र श्रुतौ । प्रेत्य मृत्वा प्राप्तास्मीत्यर्थः । अभिगुप्त इति केचित् । स्फुटमिति विचिकित्सापदस्य संशयार्थकत्वम् । इत्याह शाण्डिल्यः शाण्डिल्य इत्यस्योपासनायाः सदाचाररूपत्वं च । आगतेर्र्थं रूप्यम्, स्फुटमित्यर्थः । आदरे वीप्सा । अस्या एवात्र विषयवाक्यत्वा- पद्धतौ बीजं वक्तुमाशङ्कते कश्चित् ननु भवत्विति । पक्षेति । ननु सूत्रेषु साध्योल्लेखोपि संभवति उक्तं च भाष्ये केचिदत्र जन्मादिसूत्रं लक्षणत्वादनुमानमिति वर्णयन्तीतिचेन्न तदुक्तज्ञानं नोपनिषत्फलं समर्पयेत् प्रकृते 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुतेरुपनिषज्ज्ञानस्य विवक्षितत्वात् । ननु तथापि पक्षपदोपादानात्सम्बन्ध्येकत्वाधिकरणयोरपि पक्षोपादानसूचनात् पर्वतो धूमादितिवदप- प्रयोग इतिचेन्न । अनुमानसाधकप्रवचनस्य 'रचनानुपपत्तेश्च नानुमानम्' इतिसूत्रे सूत्रेणेव पक्ष इत्य
Here is the line-by-line transcription of the text in Unicode Devanagari:
४५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १ भाष्यप्रकाशः । तोऽर्थः सौत्रत्वेन निर्णेतुं शक्यः । तदनिर्णये वाक्यार्थोऽपि संदिग्धप्राय एवेति चेन्मैवम् । द्वितीयादिपादानां पूर्वपादोक्तार्थविमर्शरूपत्वात् कारणत्वस्य तत्र विमृष्टत्वेऽप्यन्येषामविमृष्ट- त्वादत्रान्तस्तद्धर्मोपदेशाधिकरणसाधितस्यानन्दमयान्तरत्वस्य विमर्श इत्यविवादम् । आन्तं पादेऽन्तर्वर्तिन एव विचारदर्शनात् । सूत्रेऽप्युपदेशपदेन तदर्थविचारस्य प्रत्यभिज्ञानात् । विषय- वाक्येऽप्येष म आत्माऽन्तर्हृदय इति पदात् । अतः सूत्रे पक्षानुक्तावपि प्रकरणबलेन तन्निर्णयस्य सुसाध्यत्वादिति । यः पुनरत्ता चराचरग्रहणादित्यादौ पक्षोल्लेखः, स तु तस्यैवात्तृत्वादि- धर्मविचारार्थ इत्य
" or "...समर्पितन्तम्"? Wait, look at line 22: "साधारण्यवारणाय समर्पितन्तम् ।" Wait, 'समर्पितम्' or 'समर्पितत्वम्'? Look at the characters in line 22: 'स' 'म' 'र्पि' 'त' 'न्त' 'म्' -> न्त has the loop of न joined to त, and anusvara above! It is definitely "समर्पितन्तम्"! Wait, could it be "समर्पितत्वम्"? In "त्व", the 'व' is underneath 'त'. Here, it is definitely 'न्त' (like in 'अन्तम्')! Yes, "समर्पितन्तम्" (समर्पित-अन्तम्, i.e., the term ending with 'समर्पित')!
परेषामैक्यात् । इन्द्रप्रतर्दनसंवादे वा गताधिकरणोक्तानि जीववाक्यानि । प्रकरणसमर्पितत्वं दर्शपूर्णमासयागाङ्गत्वे समिद्यागनिष्ठेऽस्ति तत्र ब्रह्मवाक्यरूपसाध्याभावात् साधारण्यं तद्वारणाय सर्ववाक्येत्यादि । प्रकरणसमर्पितत्वे सति सर्ववाक्यसमर्पितत्वमपि लिङ्गं तत्रैव साधारणमतः सर्ववेदान्तेत्यादि तत्र सर्ववेदान्तेत्यभावात् . न
ननु क्रतुमयः पुरुष इति यथासंकल्पमग्रिमदेहकथनाल्लोकान्तरभाविफलार्थ- मन्योपासनैव युक्ता, न तु ब्रह्मज्ञानस्य तादृशं फलं युक्तमित्याशङ्क्य परिहरति । विवक्षितगुणोपपत्तेश्च ॥ २ ॥ विवक्षिता लोकान्तरे तादृशरूपप्राप्तिः, सा प्रकृतेऽप्युपपद्यते । भगवत्स्व- भाष्यप्रकाशः । किं च, सूत्रे प्रसिद्धपदेन, तदेजति तन्नैजतीत्यादिवाक्यप्रसिद्धत्वस्यापि स्मारणादेत- द्वाक्यगताणीयस्त्वज्यायस्त्वयोराधारत्वेन प्रसिद्धत्वमपि संगृह्यते । अतो वाक्यस्य स्पष्टलिङ्गत्वमपि बोध्यते । तेनात्र पादे अस्पष्टलिङ्गवाक्यचिन्ताङ्गीकारं प्रतिज्ञायैतस्यात्र विषयत्वेनोपन्या- सोऽप्युक्त इत्यादि सूचितम् ॥ १ ॥ विवक्षितगुणोपपत्तेश्च ॥ २ ॥ इतिसूत्रमवतारयन्ति नन्वित्यादि । अयमर्थः—अत्र हि पूर्ववाक्ये ब्रह्मोपासनकथनेऽप्यथेतिप्रकृतच्छ
रूपलाभात् सारूप्यलाभाद्वा। नच व्याप्तिरुक्तेत्यधर्मप्राप्त्युपायो युक्तः। सत्यसं- कल्पादिवचनं च ब्रह्मवाक्यत्वपोषकमिति चकारार्थः ॥ २ ॥ भाष्यप्रकाशः। तथेतः प्रेत्य भवतीत्यन्तेन लोकान्तरे संकल्पानुरूपदेहप्राप्तिरूपं फलमुच्यते। फलं च तात्पर्यनिर्णये लिङ्गम्। अतस्तद्विचारेऽत्रोक्तोपासनाया ब्रह्मविषयत्वं न घटते। फलस्य प्राकृततया जाघन्यात्। अतोऽत्र यथासंकल्पमग्रिमदेहकथनाल्लोकान्तरभावितादृशदेहप्राप्त्यर्थं वेदाभिमानिदेवताया वा, क्रतुमय इत्यादिना साधकस्योक्तप्रक्रान्तत्वात् स्वजीवस्यैव वोपासना युक्ता। इहापि भावनया पेशस्कृतो रूपान्तरस्य प्रत्यक्षसिद्धत्वेन श्रुत्युक्तपारलौकिकरूपान्तरस्य भावनाप्रचयजन्यतार्या वाधानवतारात्। न चैवं सति ब्रह्मोपासनायामपि तथा वक्तुं शक्यत्वात् कुतस्तत्त्याग इति शङ्क्यम्। देहत्वस्य प्राकृतत्वव्याप्तत्वेन ब्रह्मज्ञानस्य च, 'तमेव विदित्वा अतिमृत्युमेति', 'ब्रह्मविदामोति परम्' इत्यादिषु ब्रह्माप्तिरूपस्यैव फलस्य श्रावणेन ब्रह्मज्ञाने तादृशफलकथनस्यायुक्तत्वादिति। तस्मादत्र मननोपदेशाङ्गीकारो न युक्त इत्याशङ्क्य परिहरतीति। सूत्रं पठित्वा तत् समाधातुं व्याकुर्वन्ति। विवक्षितेत्यादि। विवक्षिता वक्तुमिष्टा उपादेयत्वेनाभिप्रेता वा या गुणरूपा लोकान्तरे तादृशी संकल्पानुरूपदेहप्राप्तिः सा ब्रह्मज्ञानपक्षेऽप्युपपद्यते। ज्ञानफलबोधिकासु श्रुतिषु मृत्युमतिक्रान्तस्य भगवत्स्वरूपस्य ब्राह्मदेहस्य परप्राप्तिरूपस्य वा, ब्रह्म वेद ब्रह्मैव भव- तीति श्रुत्या ब्रह्मस्वरूपस्य वा लाभोऽभिप्रेत इति तस्य संकल्पानुरूपताया युक्तत्वादिति। नच यथा क्रतुरित्यादिना लोकान्तरप्राप्यत्वेन संकल्पानुरूपत्वेन व्याप्तिरुक्तेत्यतः, कुर्वीतेत्युपदेश- बोधितः क्रतुधर्मस्य प्राकृतदेहस्य प्राप्त्युपायो युक्तः। परमशान्तस्य पूर्वोपासनया शुद्धान्तः- करणस्यानुद्वसंकल्पायोगात् तदभावे प्राकृतदेहस्याप्ययोगादित्यर्थः। हेत्वन्तरमाहुः सत्येत्यादि। तथाचैवं हेतुद्वयबाधितत्वादस्य जीववाक्यत्वं न शङ्कितुं शक्यमित्यर्थः। रश्मिः। संकल्प्येत्यादि। फलमिति तथेतः प्रेत्येत्युक्तदेहफलम्। उपासनाविषयकतात्पर्येणोपासनानिर्णये लिङ्गं हेतुः। कार्येण कारणानुमानादित्यतःशब्दार्थः। तद्विचारे फलविचारे। ननु स्वोपासनायां कथं तादृशं फलमित्याकाङ्क्षायामाह इहापीति। भावनाप्रचयेति तेन पूर्वदृष्टान्तेपि भावनाप्रचय इति बोधितम्। अप्रचितभावनाया लोके रूपान्तरासंपादकत्वात्। न त्वित्याद्याभासभाष्यमत्रावतारया- मासुः न चैवं सतीति। तथावक्तुमिति सारूप्यादि तेन प्रकारेण वक्तुम्। गुणरूपेति यथा प्राकृत- देहो गुणमयो 'जहुर्गुणमयं देहम्' इत्यादौ तथायामपि ब्राह्मदेहो ह्यात्मगुणमय इति देहप्राप्तिर्गुणपदेनोप- चर्यते। सेत्यादिभाष्यं विवरामासुः सा ब्रह्मेत्यादि। भगवदित्यादिभाष्यं विवृण्वन्ति स्म ज्ञानफलेति। श्रुतिष्विति 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेयनाय' 'ब्रह्मविदाप्नोति परम्' 'ऋते ज्ञानान्न मुक्तिः' 'तरति शोकमात्मवित्' इत्येवंरूपासु। मृत्युमिति मृत्युमतिक्रान्तोतिमृत्युस्त्यित्ति- मृत्युपदविग्रहात्। नन्वतिमृत्यव इत वायुदिगग्नयो बृहदारण्यके सन्ति ते कुतो न व्याकृता इति चेत्तत्राहुः ब्राह्मेति। जगद्व्यापारवर्जं ब्राह्मदेहस्यौचित्यात्। अन्या वा श्रुतिर्भगवत्स्वरूपस्य ब्राह्मदेहस्य बोधिका तामर्थद्वारेणाहुः परप्राप्तीति। ब्रह्मविदाप्नोतीत्यत्र कर्तृकर्मव्यपदेशादितिभावः। नचेतिभाष्यं वि- वरांबभूवुः न च यथेत्यादि। उक्तेति यथा क्रतुरस्मिन् लोक इतिश्रुतौ तात्पर्यवृत्त्योक्ता सत्यसंकल्पानुरूप- लोकान्तरप्राप्यत्वादित्यथ। तथा चेति परामिध्यानात्तत्सत्यसंकल्पादीनां जीवेषु तिरोहितत्वेन ब्रह्मसम्प-
४५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० २ भाष्यप्रकाशः । यत्तु केचिदपौरुषेयवेदे वक्तुरभावानेच्छाद्यर्थः संभवतीत्यत उपादेयत्वेन फलेन तत्र विवक्षितत्वमुपचर्यते । लोके तथादर्शनात् । वेदेऽपि वाक्यतात्पर्यातात्पर्याभ्यामुपादेयत्वानुपा- देयत्वयोरवगन्तुं शक्यत्वात् सूत्रे विवक्षितपदमौपचारिकमङ्गीकुर्वन्ति तन्न रोचिष्णु । निःश्वसितश्रुत्यनुरोधेन वेदे जीवाजन्यत्वरूपस्यापौरुषेयत्वस्यास्थेयत्वेन सर्वथा वक्त्रभावस्या- संगतत्वात् । शास्त्रयोनित्वसूत्रे स्वयमेव वेदकर्तृत्वाङ्गीकारेण वदतो व्याघाताच्च । नच निःश्वसितस्य सार्वदिकत्वादबुद्धिपूर्वकत्वेन वक्तुरुपगमेऽपीच्छाद्यर्थासंभवाददोष इति वाच्यम् । 'आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किंचनास' इति श्रुतिविरोधेन तत्सार्वदिकत्वा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५५ भाष्यप्रकाशः । कारस्यैवासंगतत्वात् । एवं सिद्धे निःश्वसितस्यासार्वदिकत्वे तदुद्गमे इच्छापूर्वकत्वस्याप्यपर्यवस्थेय- त्वात् । प्रपञ्चमात्रं प्रति, बहु स्यामितीच्छाया एव कारणत्वेन वेदात्मकनामप्रपञ्चं प्रत्यपि तस्या अदण्डवारितत्वात् । नच शब्दस्वरूपमात्रोद्गम एवेच्छासंबन्धो, न तु तस्यार्थसाहित्येऽपी- त्यदोष इति वाच्यम् । ईदृशविभागे मानाभावात् । नचैवं पौरुषेयत्वाङ्गीकारे काणादादितौ- ल्यमापातः । ईश्वरवाक्यत्वेनैव तन्निरासात् । नचैवं शब्दार्थसंबन्धानित्यत्वप्रसङ्गः । शब्द इति चेदित्यास्मिन् सूत्रे तन्निरासप्रकारस्यापि वक्ष्यमाणत्वात् । अतो वेदे वक्तुरिच्छासंबन्धस्य सत्त्वेन विवक्षितत्वादेः सत्त्वादुपचाराङ्गीकारो न युक्त इति दिक् । यत् पुनर्मनोमयः प्राणशरीर इत्यस्य सगुणेविषय
४५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० ३ नन्वेतावतापि नैकान्ततो ब्रह्मवाक्यत्वमुपपत्तेरुभयत्रापि तुल्यत्वादित्या- शङ्क्य परिहरति । अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ नच प्राणशरीररूपो जीवो भवति । निरोहितानन्दत्वेन निराकारत्वात् । भाष्यप्रकाशः । अग्रिमसूत्रमवतारयन्ति । नन्वेतावतेत्यादि । एतावतेति सूत्रद्वयोक्तयोपपत्त्या । तुल्यत्वादित्यादि । 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य वा हेतोः शरीरमनुसंज्वरेत्' ॥ इत्यादौ ज्ञेयतया प्रसिद्धत्वेन जीवस्य मन्तव्यत्वोपदेशो, लोकान्तरे विवक्षितदेहप्राप्तिः । 'न वै क्वचिन्मे मनसो मृषा गतिः' इतिवाक्यात् सत्यसंकल्पत्वं, व्यापकत्वादाकाशात्मत्वं, पर्यायेण सर्वाहंमानितया वा सर्वकर्मत्वादिकं हिरण्यगर्भे जीवे च संगच्छत इति तस्य बाधाभावेन तुल्यत्वादित्याशङ्क्य परिहरतीत्यर्थः । अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ सूत्रं व्याकुर्वन्ति नचेत्यादि । सत्यमस्त्वेवमु- पपत्तितौल्यं, तथापि शरीरसंबन्धी जीवो वाक्यार्थो न संभवति । कुतः । अनुपपत्तेः । प्राणशरीरत्वस्यानुपपद्यमानत्वात् । तत्र हेतुः निरोहितेत्यादि । प्राणशरीर इत्यत्र शरीर- पदमाकारपरम् । तथाचात्र हि, मनोमय इत्यत्र यथा विकारार्थोद्वापेन प्राचुर्येणन्मनोमयत्व- मुपदेशगोचरस्तथा प्राणशरीर इत्यत्रानन्दरूपप्राणशरीरूपत्वम् । लौकिकप्राणस्योद्वापात् । प्राणस्यानन्दरूपता त्वनुगमाधिकरण एव सिद्धा । प्राणमुपक्रम्य, 'एष प्रज्ञात्मानन्दोऽजरोऽमृतः' इति तद्विषयवाक्ये श्रावणात् । नच लौकिकप्राणस्योद्वापे किं मानमिति शङ्क्यम् । लौकिकस्य रश्मिः । आत्मानमिति । आत्मानं जीवम् । अयमहं ब्रह्मास्मि पूर्णकामः आप्तकाम इदंपदार्थः । आप्तकामत्वात् किमिच्छन् पूर्णकामत्वात् कस्य हेतोः । पञ्चम्यन्तं पदम् । अन्विति आत्मज्ञानानन्तरम् । ज्ञेयतयेति ज्ञानकर्मतया सर्वत्र प्रसिद्धत्वेन मननोपदेशः । एतेन सर्वत्र प्रसिद्धोपदेशादिति सूत्रार्थो जीवपरो व्याकृतस्तौल्याय । द्वितीयसूत्रार्थमाहुः लोकेति । विवक्षितगुणरूपदेहस्योपपत्तिः प्राप्तिः । सूत्रं व्याख्याय 'मनोमयः प्राणशरीरो भारूप' इत्येषां स्पष्टतया सत्यसंकल्प इत्यादीनामर्थानाहुः न वा इति । इदं वाक्यं द्वितीयस्कन्धे षष्ठाध्याये ब्रह्मणः । पर्यायेणेति क्रमेण 'पर्यायस्तु प्रकारे स्यान्निर्मागेऽवसरे क्रमे' इतिविश्वात् । 'कस्त्वमित्यहमिति होवाचैवमेवेदं सर्व तस्मादहमिति सर्वाभिधानम्' इति नृसिंहोत्तर- तापनीयश्रुतेः सर्वाहंमानिता । अत्र कस्त्वमिति देवकर्तृकः प्रश्नः । अहमित्यारभ्याहमित्यन्तं प्रजापति- वाक्यम् । शेषं विधायकमिति ज्ञेयम् । एवं पूर्वोक्तपरामर्शे तथा चैवमेवाहमेवेत्यर्थः । अभिधानं नाम । सर्वकर्मत्वेति आदिपदेन सर्वगन्धत्वम् । जीवन्मुक्तजीवस्य सर्वगन्धत्वात् । न च पूर्वपक्षकर्तुर्मते जीवश्रुतिर्नास्तीति वाच्यम् । तन्मते जीवस्यैव ब्रह्मत्वात् । तस्य जीवस्य पदार्थान्वये बाधाभावेन ॥२॥ अनुपपत्तेस्तु न शारीरः ॥ ३॥ शरीरं कस्मात्साक्षादमयो ह्यत्र श्रियन्त इतिगर्भोपनि- षच्छ्रुतौ निर्वचनाच्छरीरपदमाकारपरम् । आनन्दरूपः प्राणशरीर इतिभाष्यं पूर्वं व्याकृतं सूत्रसमाप्तिस्थम् । अधुना आनन्दरूपः प्राणः शरीरं यस्येतिभाष्यं विवृण्वन् प्राणस्य साकारत्वाय तस्यानन्दरूपतामाहुः प्राणस्येति । अध्यासेनेत्यारभ्यानर्थक्यप्रसङ्गात् इत्यन्तं भाष्यं विवरामासुः नचेति । आध्या- 456
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५७ अध्यासेन तथात्वे त्वनुपास्यत्वमेव । इदानीमेवोपासकस्यापि तथात्वात् । नच प्राणादेलौकिकत्वम् । उपदेशानर्थक्यप्रसङ्गात् । अत आनन्दरूपप्राणशरीररूप- त्वाभावान्न वाक्यार्थो जीवः । पूर्वपक्षस्यात्रैव निवृत्तत्वात् तुशब्दः । विज्ञानमये तु प्राप्ताप्राप्तविवेकेन धर्मस्यैवोपासना ॥ ३ ॥ भाष्यप्रकाशः । तस्य शरीरताया आध्यासिकत्वेनेदानीमुपासकस्यापि प्राणशरीरत्वात् तथोपासनोपदेश आन- र्थक्यप्रसङ्गस्यैव मानत्वादिति । अनस्तद्भावान्न वाक्यार्थो जीव इत्यर्थः । तुशब्दं व्याकुर्वन्ति पूर्वेत्यादि । ननु कथं पूर्वपक्षस्यात्र निवृत्तिः । 'विज्ञानमानन्दं ब्रह्म' इति श्रुत्युक्तस्य विज्ञानस्य, 'विज्ञानं यज्ञं तनुत' इति विज्ञानमयनिगमनश्लोकेऽपि प्रत्यभिज्ञायमानत्वेनात्र पूर्ववाक्ये विराट्- त्वेन ब्रह्मोपासनवद्विज्ञानमयेऽपि विज्ञानत्वेन ब्रह्मोपासनस्य शक्यवचनतया आनन्दपूर्वभाव- मात्रस्य जीवोपासनागमकतया अप्रयोजकत्वेन तत्रापि तदुपासनानवकाशात् तत्र तदङ्गी- कारस्यासंगततया पूर्वपक्षस्यानुपशमादित्यत आहुः विज्ञानमय इत्यादि । तत्र गौणान्तर्येण रश्मिः । सिक्तवेनेति शरीरगतवायुरूपप्राणस्य स्पर्शरूपस्य सूक्ष्मदेहस्य च । तथोपदेश इति आध्यासिकोपासनोपदेशे । तदभावात् लौकिकप्राणोपदेशाभावात् । प्राणशब्दस्यौपचारिकत्वापत्त्या नायमर्थः साधीयानिति चेत्तर्हि ब्रह्माहमस्मीतिवन् मनोमयत्वादिविशिष्टोहमित्यध्यासेन गृह्यत इत्याध्यासिकत्वेन । तथात्वे मनोमयत्वादिविशिष्टत्वे । अपीति अनिदानींतनोपासकस्य वामदेवादेरपिपदेन ग्रहः इत्यध्यासेनेत्यादिभाष्यार्थः । व्याकुर्वन्तीति शंकराचार्यैरवधारणार्थकत्वेन व्याकृतं रामानुजाचार्यैरव्याकृतं तुशब्दमतीतार्थत्वेन व्याकुर्वन्तीत्यर्थः । अतः पूर्वपक्षोतीतोतिक्रमं प्राप्त इत्यर्थः । तुः प्रश्न इत्युपक्रम्यातीतपुनरर्थयोरिति विश्वात् । ननु किमनेन प्राणोद्वापेन प्राणशरीरत्वस्य जीवे स्फुटत्वेन तस्यैवोपासनास्तु शाखान्तर इत्यादिभाष्यात् न जीवोपासनमात्राभाव इत्याशङ्क्य शाखान्तर इत्यादिभाष्ये किंचिद्वदन्तो विज्ञानमय इत्यादिभाष्यं विवरीतुमाशङ्कामाहुः नन्वित्यादि । श्रुतौ विज्ञानं कर्तृ तनु विस्तारे धातुः । अत्रेति विषयवाक्ये । पूर्वं सर्वं खल्विदमिति वाक्यं तस्मिन् । विराट्त्वेनेति । नन्वयं ब्रह्मत्वेनोपासनमुक्तमिति भाष्यं विरुणद्धीतिचेन्न इदमेवेत्यादिभाष्यानुगुणत्वात् । ननु सर्वं खल्विदमिति . विराट् तस्य ब्रह्मेतिपदात् ब्रह्मत्वेनोपासनवत् स्वराट्त्वेनेत्युपन्यासः कुतो न इति चेन्न । पुराणादौ 'पुरुषो धारणाश्रयः' इतिवाक्यात् विराट्त्वेनेति युक्तत्वात् । ब्रह्मोपासनवदिति षष्ठ्यन्ताद्वतिः । ब्रह्मणः ब्रह्मत्वेन जगदुपासनस्येवेत्यर्थः । शक्येति प्रत्यभिज्ञानेन शक्यवचनतया श्रुत्यपेक्षया भाष्यस्य निर्बलत्वे- नानन्दपूर्वभावावधारणस्य । अप्रयोजकत्वेनेति आनन्दात्फलादुपासनस्य पूर्वत्वावधारणस्य ब्रह्मो- पासनसाधारणात् । किं च यद्यप्रयोजकत्वं न भवेत् तदा पूर्ववाक्ये अंशतोपि जीवत्वेन जीवोपासना नश्येत् यदि नश्येत् सर्वं खल्विदं ब्रह्मेति श्रुतिं विरुन्ध्यात् । तत्रापि विज्ञानमयेपि जीवोपासना- नन्दपूर्वभावित्वेनानवकाशात् । तत्र छान्दोग्ये जीवोपासोच्छेदभिया तदङ्गीकारस्य ब्रह्मण्यनङ्गीकारस्य सिद्धान्तेऽसंगततया विज्ञानत्वेनोपासनं विज्ञानजीवस्योक्तम् । तन्न । प्रत्यभिज्ञानप्राप्तविज्ञानत्वे बाधक- सद्भावात् । किं तद् बाधकं तत्राहुः तत्रेति विज्ञानमये । तस्माद्वा एतस्माद्विज्ञानमयादन्यो अन्तर आत्मानन्दमय इतिश्रुतेर्गौणान्तर्यम् । तस्माद्वा एतस्मान्मनोमयादन्योन्तर आत्मा विज्ञानमयः 457
४५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० ३ ननु प्राप्तव्यतादृशरूपफलाभिप्रायं भविष्यतीति परिहरति । भाष्यप्रकाशः । श्रद्धादिधर्मत्वेन च जीवत्वस्य प्राप्तत्वेन मुख्यान्तर्यस्यानन्दरूपत्वस्य चाप्राप्तत्वेन किं ग्राह्यमिति विचारे प्राप्ताप्राप्तविवेकेनाप्राप्तापेक्षया प्राप्तस्यैव बलवत्त्वाद्धर्मस्य भगवति वृत्तिमतो जीवस्यैवो- पासना युक्तेति सुखेन पूर्वपक्षोपशमात् तन्निवृत्तिरित्यर्थः ॥ ३ ॥ अग्रिमसूत्रमवतारयन्ति नन्वित्यादि । यदि तत्र प्राप्ताप्राप्तविवेकेन जीवोपासना, तर्ह्यत्राप्यथ खलु क्रतुमयः पुरुष इत्यादिना जीवत्वस्यैव प्राप्तत्वाद् ब्रह्मत्वस्य चाप्राप्तत्वात्त- द्विवेकेन जीवोपासनैव युक्ता । युक्तेस्तुल्यत्वात् । नचानन्दरूपप्राणशरीरतोक्तिविरोधः । तद्वचनं जीवप्राप्तव्यतादृशरूपफलाभिप्रायं भविष्यतीत्यविरोधादित्याशङ्क्य परिहरतीत्यर्थः । रश्मिः । इतिश्रुत्युक्तम् । तेन प्रत्यभिज्ञाप्राप्तानन्दपूर्वभावमात्रस्य ब्रह्मोपासनस्य बाधकेन । किं च तस्य श्रद्धैव शिरः इत्यादिश्रुत्युक्तं श्रद्धादिधर्मवत्त्वं प्रत्यभिज्ञाप्राप्तानन्दपूर्वभावमात्रस्य ब्रह्मोपासनस्य बाधकं तेन च । मुख्यान्तर्यं अन्योऽन्तरात्मानन्दमय इति श्रुत्युक्तं प्रत्यभिज्ञाने सति प्राप्तव्यं तस्य । तस्य प्रियमैव शिर इत्यादिश्रुत्युक्तमानन्दरूपत्वं च प्रत्यभिज्ञाने प्राप्तव्यं तस्य च प्रत्यभिज्ञानमन्तराऽ- प्राप्तत्वेनेत्यर्थः । वृत्तीति पूर्वाधिकरण आश्रितत्वेनोक्तेर्विशेषणम् । उपेति श्रद्धादिधर्मवत्त्वेन विभूतित्वेनानन्दमयाधिकरणोक्तेनोपासना युक्ता न तु प्रत्यभिज्ञातविज्ञानमयत्वेन बाधकसद्भावात् । ननु सुबोधिन्यां जीवोपासनानिषेधात् कथमुच्यत उपबृंहितजीवोपासनमिति चेन्न निषेधस्य जीवपरत्वेन विभूतिपरत्वाभावात् । एतेनैव प्राणशरीरत्वस्य प्रत्याख्यानम् । तथाहि प्राणशरीरत्वस्य जीवे स्फुटत्वेप्युपासनानिषेधात् अग्रे निरासाच्चायुक्तत्वं विज्ञानमयविभूतेस्तु श्रद्धादिधर्मवत्त्वेनोपासना न प्राणशरीरत्वेनेति । ननु शाखान्तर इत्यादिभाष्यादुपासनाया जीवे निषेधो मास्त्विति चेन्न विज्ञानमय- विभूतेरुपासनाविधानात् अत एव न सिद्धान्तविरोधः । तथा चोपासनादिसहकृतान्येषां गौणानन्तर्य- श्रद्धादिधर्मवत्त्वप्रत्यभिज्ञानानामपि गमकत्वमानन्दपूर्वभाववदितिशाखान्तर इत्यादिभाष्ये ज्ञातव्यम् । 'ब्रह्म ज्येष्ठमुपासते' इतितैत्तिरीयेप्युपासनादिसहकृतानन्दपूर्वभावोस्त्येव 'विज्ञानं यज्ञं तनुते कर्माणि तनुतेपि च विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासत' इतिश्रुतिः । पूर्वपक्षेति तथा च प्रकृतउपासनादि- सहकृतानन्दपूर्वभाववद्गौणानन्तर्यस्यापि जीवोपासनागमकत्वेनात्राथ खल्वित्यादौ गौणानन्तर्यादिच्छे- कस्याप्यभावाज् जीववाक्यत्वमिति पूर्वपक्षोपशमात् । मनोमयत्वादीनां श्रद्धादिधर्मवत्त्ववज्जीवोपासना- गमकत्वं यद्यपि तथापि निरूपितव्याख्यानसूत्रैः सर्वत्र प्रसिद्धोपदेशादित्यादिभिस्तदपहतमिति न पूर्वपक्षानुपशमः । प्राणशरीरत्वस्यानन्दरूपप्राणशरीरत्वरूपत्वं पूर्वमुपपादितं तदपि प्राप्तव्यं तादृशं रूपं फलं तदभिप्रायं प्राणशरीरपदं भविष्यतीति नन्वित्यादिभाष्यार्थः । तत्रेति विज्ञानमये । अत्रेति विषयवाक्ये । पुरुषः पुरि शेत इति पुरुषः । पुरा आस पुरुष इति वा । जीवासाधारणलिङ्गं तु इतः प्रेत्येति मरणकथनं ज्ञेयम् । तद्विवेकेन प्राप्ताप्राप्तविवेकेन । युक्तेरिति एष म आत्मा अन्तर्हृदय इत्यस्य ब्रह्मपरत्ववद् द्वा सुपर्णेति श्रुत्या जीवपरत्वस्यापि संभवात् । न च पूर्वपक्षस्योपशान्तत्वात् जीवविचारः कुत इति शङ्क्यम् । पूर्वपक्षे निराकरणीयजीवरूपार्थस्य विवक्षणेनानिराकरणीयजीव- रूपार्थस्य विचारे बाधाभावात् ॥ ३ ॥ 458
Anubhashya continues: Wait, Anubhashya in L4 doesn't end there! Wait, Bhashyaprakasha starts at L6: "कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥ इदं सूत्रं व्याकुर्वन्ति एतमित्यादि ।" And Bhashyaprakasha quotes the rest of Anubhashya! What was the rest of Anubhashya? In L9-L10: "प्राणशरीररूपतयोक्तं ध्येयमेव परामृश्य, अभिसंभवितासीति वचनेन तमेव प्राप्यत्वेन व्यपदिशति, ध्यानादिकर्तृत्वेन च शारीरम् ।" Wait, in L22: "एवं व्यपदिशतीत्यन्तं भाष्यं व्याकृत्य कर्तृत्वेनेति भाष्यं व्याचक्रुः ध्यानादीति" AHA! "व्यपदिशतीत्यन्तं भाष्यं व्याकृत्य"! So the Anubhashya itself is: "एतं प्राणशरीररूपं कर्मत्वेन ध्येयत्वेन अभिसंभवितासीति (or अभिसंभवितास्मीति) वचनेन तमेव प्राप्यत्वेन व्यपदिशति, कर्तृत्वेन च शारीरम्" !! And Bhashyaprakasha is explaining this Anubhashya! And then Rashmi is explaining Bhashyaprakasha! Now look at L22-L23:
४६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० ४ प्राप्यत्वेन च व्यपदिशति । कर्तृत्वेन च शारीरं व्यपदिशति । नच भजनीय- भाष्यप्रकाशः । तद्वैषम्येनाप्रवृत्तेः । अत इदं ब्रह्मवाक्यमेवेत्यर्थः । सौत्रस्य चकारस्यार्थमाहुः नचेत्यादि । यथा क्रतुरित्यादिना भजनीयप्राप्तव्ययोरैकरूप्योक्तत्वात् तादृशरूपस्याप्राप्तत्वे फलवाक्यस्याबोध- रश्मिः । इतिवाक्यात् तद्वैषम्यं न्यायवैषम्यमुक्तमेव । अत इति ध्यात्रापेक्षया प्राधान्येन ब्रह्मण एव प्रक्रान्तत्वादित्यर्थः । अर्थमिति समुच्चयम् । भजनीयेति क्रतुर्यज्ञो मननात्मेत्युक्तम्, यज्ञश्च यजेर्नङि रूपं यजिश्च द्वितीयस्कन्धे 'ब्रह्मवर्चस' इत्यत्र भजत्यर्थः भजसेवायां भज्यत इज्यते यज्ञः क्रतुरिति फलितम् । 'यज्ञो वै विष्णुः' इतिश्रुतौ कर्मणि नङ् रूढो वा सेवावाची यज्ञशब्दः यथा क्रतुरितिपदद्वयम् सेवात्वमनुवृत्तिचित्त्वम् । यद्वा येन प्रकारेण क्रतुरस स यथा क्रतुर्भक्तविशेषणम् । क्रतुमय इत्यत्र 'द्व्यचश्छन्दसि' इतिविकारे मयटोऽबाधादप्यत्र प्रकरणे प्राचुर्ये मयट् पुरुषस्य क्रतुविकारत्वाभावात् यज्ञप्रचुरः पुरुषः पुरि शेते इति व्युत्पत्तेः । तत्र प्रचुरेषु क्रतुषु प्रकारभेदेन यत्प्रकारकः क्रतुस्तद्वांस्तेन प्रकारेण तं प्रेत्य भवतीति योजना । ननु.......न ज्ञानत्वेन क्रतुस्तद्वान् प्रेत्य ज्ञानत्वेन प्रकारेण ज्ञानं तदात्मको भवतु नामसेवा द्वितीयप्रकारेण क्रतुस्तद्वान् कथं सेवात्वेन प्रकारेण भवत्विति चेन्न भगवत्सेवोपयोगिदेहो वैकुण्ठादिष्विति सेवाफलान्वयोक्तेः भृशं सेवावानपि सेवारूप इति तत्कारोपपत्तेः । कर्ममार्गे त्वावृत्तिः । ननु द्वितीयपुरुषो भक्त इत्येवं व्याकृतमन्यैः उपासक इत्येवमुभयोः किं प्रमाणपदवीमधिरोढुमर्हतीति चेन्न । 'मार्गास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया । ज्ञानं कर्म च भक्तिश्च नान्योपायोऽस्ति कर्हिचित्' ॥ इति त्रिषु मार्गेषूक्तेषु पूर्ववाक्येनोपासनाप्राप्त्या चित्तशोधकत्वेनोपयोगो भाष्ये कृतः कर्ममार्गस्य कथमथपदव्यवच्छिन्नद्वितीयवाक्ये उपासनानुवृत्तिः । ननु 'ब्रह्मविदाप्नोति परम्' 'आत्मेत्येवोपासीत' इत्येवंविधेषु वाक्येषु वेदनोपासनपदानां सामानाधिकरण्यं शंकराचार्यमते, रामानुजाचार्यमते च वेदनं स्मृत्यात्मकभक्तिरूपं भवन्मते माहात्म्यज्ञानमात्रजीवैक्यज्ञानं च भक्तिव्यापारकम् । हीति कथ- मत्रोपासनाव्यवच्छेदः । इत्थम् षडङ्गेषु व्याकरणस्याप्यभिनिवेशादुपासनोपसमीपे स्थित्वा यथायोग्य- करणं करणे ल्युट् । मनोव्यापारविशेषो वा मनसो ब्रह्मसमीपे स्थाप्यत्वात् । तत्रोपासना मनस उपदेशो यदा तदा मानसी माहात्म्यज्ञानाद्यनु तनुवित्तजसेवे अनुभवति च । भाष्यप्रकाशे तु यथायोग्यकरणार्थं उप समीपे स्थितिरुपासनेति भावे ल्युटमङ्गीकृत्य प्रपञ्चिता भक्तिः फलाध्याय- समाप्तौ । भाष्ये त्वन्तःकरणशोधकत्वेनोररीकृतोपासना ते इमे उपासने भिन्ने श्रौतवाक्येषु शुशुभेते । तासु प्रथमलक्षणलक्ष्या भाष्येन्तःकरणशोधकत्वोक्त्याहृता । 'भक्तियोगं स लभते एवं यः पूजयेत माम्' इत्येकादशस्कन्धात् । अत्र कर्मकाण्डसंक्षेपादन्तःकरणशोधकत्वं पूजायाः । पूजनोपासनाकर्मपदानां पर्यायत्वात् । सुबोधिन्यामुपासनाकाण्डं मन्त्रशास्त्रं पञ्चरात्रं चेतिकथनात् कर्मकाण्डज्ञाने पञ्चरात्रोप- योगस्य शास्त्रप्रसिद्धत्वात् । एवं चोपासनाया एतादृश्या व्यवच्छेदोथशब्देन सुकरः । अत एव 'मन्त्रोपासनवैदिकतान्त्रिकदीक्षार्चनादिविधिभिर्यः । अस्पृष्टो रमते निजभक्तेषु स मेस्तु सर्वस्वम्' ॥ 460
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६१ रश्मिः । इत्यत्र मन्त्रोपासनमेकपद्व्याकृतम् । ननु गीताभक्तियोगाध्याये द्वादशे उपासनोक्तेर्वेति चेदित्थम् । श्रीभगवानुवाच । 'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः' ॥ इत्यत्र मनःपूर्विका उपासना उपसमीपे स्थित्वा यथायोग्यकरणरूपा मानसी तृतीयस्कन्ध- सुबोधिन्युक्तराद्धान्तोक्ता सिद्धयति । उपासत इत्यस्य मनो व्यापारं कुरुते इत्यर्थे पुनरुक्तिः । यद्वा मन्मन आवेशं कृत्वा साधनानामसिद्धेवदावृत्तिः कर्तव्येति सुबोधिन्या मन्मन आवेशसाधनतनु- वित्तजसेवे उपासनपदेनोच्येते । चित्तशोधकोपासना तु पूजापदेनोच्यते अत एव मन्त्रोपासनेत्यत्र उपासनं पुरश्चरणपूर्वकसाधनरूपं गृह्यते । यद्वा उपासनया शुद्धचित्ता नित्ययुक्ता भगवदर्थं यतयो
व्यापारः कर्म तु चित्तशुद्ध्यनुकूलो व्यापार इति भक्तित्वेन ब्रह्मसम्बन्धत्वेन कार्यकारणभावात् 'भक्त्याह- मेकया ग्राह्यः' इतिवाक्यात् । ननु ज्ञानमपि पूर्वोक्तलक्षणद्वयकमेवातो न ज्ञानोपासनयोर्भेद इति चेत्सत्यम् । क्षेत्रक्षेत्रज्ञनिर्देशयोगे त्रयोदशेऽध्याये । 'अमानित्वमदम्भित्वमहिंसाक्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा' ॥ इत्यत्राचार्योपासनत्वात् । कामः संकल्प इत्यत्र धियो मनोवृत्तित्वात् लक्षणद्वयकत्वम् । एवं च मार्गत्रय इत्यत्र त्रित्वसंख्याविरोधः । अतो ज्ञानत्वरूपसामान्येनैक्येपि ह्युपासात्वेन माहात्म्यज्ञानत्वे- नात्मजीवैक्यज्ञानत्वेनानैक्यमेव । ननु गीतोक्तार्थो हि तज्ज्ञो साधनाध्याये वक्तव्यः 'ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः' इत्यनेन ब्रह्मसूत्रपदैः गीतं प्रकाण्डं भवतीति तत्रोक्तं ज्ञानं न प्राप्नोतीति चेन्न 'तत् समासेन मे शृणु' इति समासाङ्गीकारात् । यद्वा अध्यात्मज्ञानं माहात्म्यज्ञानं तत्त्वज्ञानमात्मजीवैक्य- ज्ञानम् । तत्त्वमनारोपितरूपमिति माहात्म्यज्ञानमपि तज्ज्ञाने भवत्येव । अध्यात्मज्ञानं प्राणो व्यानोऽपान उदानः समानः चक्षुः श्रोत्रं मनो वाक् त्वक् चर्म मांसं स्नावास्थि मज्जा एतदधिविधाय ऋषिरवोचदिति शिक्षाश्रुतेरेतज्ज्ञानम् । अतो भक्तः पुरुषो नोपासक इति सिद्धम् । 'द्वयोः सारूप्यात्तद् भ्रमहत्तिकृते' भक्तिहंसे स्फुटमन्यत् । एवं च भक्तो यत्प्रकारकक्रतुमान् तेन प्रकारेण सायुज्यालौकिकसामर्थ्यभगव- त्सेवोपयोगिदेहपशुपुत्रसालोक्यादिमानितः प्रेत्य भवति । ननु क्रतुरग्रे ब्रह्ममननात्मा वक्ष्यते कथं सेवायां मननमिति चेदत्रोच्यते सिद्धान्तमुक्तावल्यां ब्रह्मबोधनमिति निष्प्रकारकज्ञानरूपब्रह्मबोधात् शोधनपदं विहाय मननपदं सिद्धान्तमुक्तावल्याम् । 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत्' ॥ इतिभावनाविधानात् भावितं च भावनायां भावुकैः श्रीहरिरायचरणैः । ननु स्मरणं भवतु मीमांसया परब्रह्मणो विषयत्वादानन्दरूपप्राणशरीरभजनस्य किं प्रयोजनम् । मैवम् । 'यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया । मदर्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः' ॥ इत्येकादशस्कन्धे विंशेऽध्याये मीमांसाप्येवमेव स्मरणमन्यनिषेधात् । यद्यपि 'अथातो ब्रह्मजिज्ञासा' इत्यधिकरणे 'यदेव विद्यया करोति श्रद्धयोपनिषदा' इति छान्दोग्येन कर्मरूपोपासना- शेषत्वमुपनिषज्ज्ञानस्य तदपि सुबोधिन्यां व्यवस्थापितम् । भगवत्सेवां कुर्वाणस्य कामनायां जातायां
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६३ रश्मिः । कर्मकरणे फलं भवत्येवेत्येवम् । स फलोपकारी शेषशेषिभावः । मदर्थोपासनापि मनस उपासनं मानसी- सेवारूपम् । व्याख्यानात् । तथा च श्रुतिरीशावास्योपनिषदि । 'अन्धंतमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्याया१रताः' ॥ इति ह्युपासामक्तिभेदमाह 'श्रद्धा रतिर्भक्तिरनुक्रमिष्यति' इति द्वितीया कक्षा रतिः । सेवाप्रकारस्तु संप्रदायप्रदीपे पञ्चमे प्रकरणे पूर्णताराधने श्रीकृष्णोक्त एव भक्तिमार्ग इत्यादिना भक्तिमार्गमुक्त्वा भजनप्रकार उक्तः । भजनप्रकारमाह । 'मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च' ॥ मच्चित्ता इति पञ्चज्ञानेन्द्रियव्यापारो भगवद्युक्तः । मद्गतप्राणा इति कर्मेन्द्रियव्यापारो भगवत्येव युक्तः । मद्गतत्वेन निर्दोषत्वम् । पायोर्मलांशत्यागेनेति प्राणस्य हि क्रियाशक्तिरिति वाक्यात् । एवं च निरोधलक्षणोक्तो निरोधो मर्यादामार्गीयसर्वात्मभावरूपः प्रकारः । 'बोधयन्तः परस्परम्' इति समानशीलैरेव सङ्गोप्युक्तः 'कथयन्तश्च मां नित्यम्' इति श्रीभागवतश्रवणं कीर्तनमप्युक्तम् । एवं सेवाकथालक्षणा भक्तिः सिद्धा । सैव फलरूपा जातेति 'तुष्यन्ति च रमन्ति च' इत्युक्तमिति । सेवाप्रकरणे तु 'यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः तत्तन्निवेदयेन्मह्यम्' इति दास्यमुक्तम् । टिप्पण्यां दास्यमुक्तम् । पुरुषोत्तमप्रतिष्ठायां तु श्रीभागवतभक्तिवर्द्धिनीनवरत्नाद्युक्तप्रकारेणेत्युक्तम् । पुरुषोत्तमसहस्रनामस्तोत्रे तु 'लघुखमार्गवक्ता च' इत्येकादशस्कन्धनामसु पठितम् । भक्तिरत्ने तदेवोक्तं टीकायाम् । सिद्धान्तमुक्तावल्याम् । 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत्' ॥ इति भावनोक्ता श्रीहरिधनैः सैव प्रपञ्चिता । शृङ्खला तु संप्रदायप्रदीपे श्रीकृष्णोक्त एवेत्यादिनोक्ता । प्रथमस्कन्धे द्वितीयेऽध्याये शृङ्खलोक्ता । सेवाप्रकरणे उक्ता एकादशे योगेश्वर- वाक्यैरुक्ता अप्रतीकालम्बनसूत्रे वक्ष्यामः सप्रपञ्चप्रकारम् । एवं प्रकारेण ब्रह्म सेवमानस्य यथाक्रतोर्ब्रह्म भजनीयं यदा तदा श्रीमदाचार्य्योक्तपूर्वोक्तरीत्या सङ्गरूवाक्यात् आत्मसमर्पणं कृत्वा सेवाकथाभ्यामेव भजनं कुर्वतः । एतमितिपेदेनोक्तेयं प्राणशरीरो हि प्राप्तव्यः तस्य भजनीयस्य चैक्यरूप्यमस्त्येव । अत्र मनोमय इति वेद आत्मोक्तस्तस्याभिसन्धिवेशः स च सत्यं ज्ञानमनन्तं ब्रह्म इत्यत्रानन्तपदार्थः अनन्ता वै वेदा इति श्रुतेः । अतो वेदं शब्दात्मकं विहाय प्राणशरीररूपार्थस्य प्राप्तव्यत्वम् । न च शब्दार्थयोरौत्पत्तिकसंबन्धान्मनोमयस्यापि प्राप्तव्यत्वमस्त्विति शङ्क्यम् । प्राण- शरीररूपवेदस्यास्तु प्राप्तव्यत्वं सर्वस्य वेदस्य नेति मनोमयस्य प्राप्तव्यत्वाभावात् । अक्षरे त्वेवम् । गणितानन्दापेक्षयाधिकानन्दाविर्भावान उत्तमः पुरुषः । विशिष्यादृश्यकत्वाधिकरणे वाच्यम् ॥ ३ ॥ फलवाक्यस्येति एतमितः प्रेत्याभिसंभवितास्मि इतिवाक्यस्येत्यर्थः । खपुष्पमितिवद् बोधकता । ३७ तृचा । १४ म० ११० ६० 463