अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 548, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५७ अध्यासेन तथात्वे त्वनुपास्यत्वमेव । इदानीमेवोपासकस्यापि तथात्वात् । नच प्राणादेलौकिकत्वम् । उपदेशानर्थक्यप्रसङ्गात् । अत आनन्दरूपप्राणशरीररूप- त्वाभावान्न वाक्यार्थो जीवः । पूर्वपक्षस्यात्रैव निवृत्तत्वात् तुशब्दः । विज्ञानमये तु प्राप्ताप्राप्तविवेकेन धर्मस्यैवोपासना ॥ ३ ॥ भाष्यप्रकाशः । तस्य शरीरताया आध्यासिकत्वेनेदानीमुपासकस्यापि प्राणशरीरत्वात् तथोपासनोपदेश आन- र्थक्यप्रसङ्गस्यैव मानत्वादिति । अनस्तद्भावान्न वाक्यार्थो जीव इत्यर्थः । तुशब्दं व्याकुर्वन्ति पूर्वेत्यादि । ननु कथं पूर्वपक्षस्यात्र निवृत्तिः । 'विज्ञानमानन्दं ब्रह्म' इति श्रुत्युक्तस्य विज्ञानस्य, 'विज्ञानं यज्ञं तनुत' इति विज्ञानमयनिगमनश्लोकेऽपि प्रत्यभिज्ञायमानत्वेनात्र पूर्ववाक्ये विराट्- त्वेन ब्रह्मोपासनवद्विज्ञानमयेऽपि विज्ञानत्वेन ब्रह्मोपासनस्य शक्यवचनतया आनन्दपूर्वभाव- मात्रस्य जीवोपासनागमकतया अप्रयोजकत्वेन तत्रापि तदुपासनानवकाशात् तत्र तदङ्गी- कारस्यासंगततया पूर्वपक्षस्यानुपशमादित्यत आहुः विज्ञानमय इत्यादि । तत्र गौणान्तर्येण रश्मिः । सिक्तवेनेति शरीरगतवायुरूपप्राणस्य स्पर्शरूपस्य सूक्ष्मदेहस्य च । तथोपदेश इति आध्यासिकोपासनोपदेशे । तदभावात् लौकिकप्राणोपदेशाभावात् । प्राणशब्दस्यौपचारिकत्वापत्त्या नायमर्थः साधीयानिति चेत्तर्हि ब्रह्माहमस्मीतिवन् मनोमयत्वादिविशिष्टोहमित्यध्यासेन गृह्यत इत्याध्यासिकत्वेन । तथात्वे मनोमयत्वादिविशिष्टत्वे । अपीति अनिदानींतनोपासकस्य वामदेवादेरपिपदेन ग्रहः इत्यध्यासेनेत्यादिभाष्यार्थः । व्याकुर्वन्तीति शंकराचार्यैरवधारणार्थकत्वेन व्याकृतं रामानुजाचार्यैरव्याकृतं तुशब्दमतीतार्थत्वेन व्याकुर्वन्तीत्यर्थः । अतः पूर्वपक्षोतीतोतिक्रमं प्राप्त इत्यर्थः । तुः प्रश्न इत्युपक्रम्यातीतपुनरर्थयोरिति विश्वात् । ननु किमनेन प्राणोद्वापेन प्राणशरीरत्वस्य जीवे स्फुटत्वेन तस्यैवोपासनास्तु शाखान्तर इत्यादिभाष्यात् न जीवोपासनमात्राभाव इत्याशङ्क्य शाखान्तर इत्यादिभाष्ये किंचिद्वदन्तो विज्ञानमय इत्यादिभाष्यं विवरीतुमाशङ्कामाहुः नन्वित्यादि । श्रुतौ विज्ञानं कर्तृ तनु विस्तारे धातुः । अत्रेति विषयवाक्ये । पूर्वं सर्वं खल्विदमिति वाक्यं तस्मिन् । विराट्त्वेनेति । नन्वयं ब्रह्मत्वेनोपासनमुक्तमिति भाष्यं विरुणद्धीतिचेन्न इदमेवेत्यादिभाष्यानुगुणत्वात् । ननु सर्वं खल्विदमिति . विराट् तस्य ब्रह्मेतिपदात् ब्रह्मत्वेनोपासनवत् स्वराट्त्वेनेत्युपन्यासः कुतो न इति चेन्न । पुराणादौ 'पुरुषो धारणाश्रयः' इतिवाक्यात् विराट्त्वेनेति युक्तत्वात् । ब्रह्मोपासनवदिति षष्ठ्यन्ताद्वतिः । ब्रह्मणः ब्रह्मत्वेन जगदुपासनस्येवेत्यर्थः । शक्येति प्रत्यभिज्ञानेन शक्यवचनतया श्रुत्यपेक्षया भाष्यस्य निर्बलत्वे- नानन्दपूर्वभावावधारणस्य । अप्रयोजकत्वेनेति आनन्दात्फलादुपासनस्य पूर्वत्वावधारणस्य ब्रह्मो- पासनसाधारणात् । किं च यद्यप्रयोजकत्वं न भवेत् तदा पूर्ववाक्ये अंशतोपि जीवत्वेन जीवोपासना नश्येत् यदि नश्येत् सर्वं खल्विदं ब्रह्मेति श्रुतिं विरुन्ध्यात् । तत्रापि विज्ञानमयेपि जीवोपासना- नन्दपूर्वभावित्वेनानवकाशात् । तत्र छान्दोग्ये जीवोपासोच्छेदभिया तदङ्गीकारस्य ब्रह्मण्यनङ्गीकारस्य सिद्धान्तेऽसंगततया विज्ञानत्वेनोपासनं विज्ञानजीवस्योक्तम् । तन्न । प्रत्यभिज्ञानप्राप्तविज्ञानत्वे बाधक- सद्भावात् । किं तद् बाधकं तत्राहुः तत्रेति विज्ञानमये । तस्माद्वा एतस्माद्विज्ञानमयादन्यो अन्तर आत्मानन्दमय इतिश्रुतेर्गौणान्तर्यम् । तस्माद्वा एतस्मान्मनोमयादन्योन्तर आत्मा विज्ञानमयः 457