अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 549, कुल 2600 में से
संदर्भ में पढ़ें४५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० ३ ननु प्राप्तव्यतादृशरूपफलाभिप्रायं भविष्यतीति परिहरति । भाष्यप्रकाशः । श्रद्धादिधर्मत्वेन च जीवत्वस्य प्राप्तत्वेन मुख्यान्तर्यस्यानन्दरूपत्वस्य चाप्राप्तत्वेन किं ग्राह्यमिति विचारे प्राप्ताप्राप्तविवेकेनाप्राप्तापेक्षया प्राप्तस्यैव बलवत्त्वाद्धर्मस्य भगवति वृत्तिमतो जीवस्यैवो- पासना युक्तेति सुखेन पूर्वपक्षोपशमात् तन्निवृत्तिरित्यर्थः ॥ ३ ॥ अग्रिमसूत्रमवतारयन्ति नन्वित्यादि । यदि तत्र प्राप्ताप्राप्तविवेकेन जीवोपासना, तर्ह्यत्राप्यथ खलु क्रतुमयः पुरुष इत्यादिना जीवत्वस्यैव प्राप्तत्वाद् ब्रह्मत्वस्य चाप्राप्तत्वात्त- द्विवेकेन जीवोपासनैव युक्ता । युक्तेस्तुल्यत्वात् । नचानन्दरूपप्राणशरीरतोक्तिविरोधः । तद्वचनं जीवप्राप्तव्यतादृशरूपफलाभिप्रायं भविष्यतीत्यविरोधादित्याशङ्क्य परिहरतीत्यर्थः । रश्मिः । इतिश्रुत्युक्तम् । तेन प्रत्यभिज्ञाप्राप्तानन्दपूर्वभावमात्रस्य ब्रह्मोपासनस्य बाधकेन । किं च तस्य श्रद्धैव शिरः इत्यादिश्रुत्युक्तं श्रद्धादिधर्मवत्त्वं प्रत्यभिज्ञाप्राप्तानन्दपूर्वभावमात्रस्य ब्रह्मोपासनस्य बाधकं तेन च । मुख्यान्तर्यं अन्योऽन्तरात्मानन्दमय इति श्रुत्युक्तं प्रत्यभिज्ञाने सति प्राप्तव्यं तस्य । तस्य प्रियमैव शिर इत्यादिश्रुत्युक्तमानन्दरूपत्वं च प्रत्यभिज्ञाने प्राप्तव्यं तस्य च प्रत्यभिज्ञानमन्तराऽ- प्राप्तत्वेनेत्यर्थः । वृत्तीति पूर्वाधिकरण आश्रितत्वेनोक्तेर्विशेषणम् । उपेति श्रद्धादिधर्मवत्त्वेन विभूतित्वेनानन्दमयाधिकरणोक्तेनोपासना युक्ता न तु प्रत्यभिज्ञातविज्ञानमयत्वेन बाधकसद्भावात् । ननु सुबोधिन्यां जीवोपासनानिषेधात् कथमुच्यत उपबृंहितजीवोपासनमिति चेन्न निषेधस्य जीवपरत्वेन विभूतिपरत्वाभावात् । एतेनैव प्राणशरीरत्वस्य प्रत्याख्यानम् । तथाहि प्राणशरीरत्वस्य जीवे स्फुटत्वेप्युपासनानिषेधात् अग्रे निरासाच्चायुक्तत्वं विज्ञानमयविभूतेस्तु श्रद्धादिधर्मवत्त्वेनोपासना न प्राणशरीरत्वेनेति । ननु शाखान्तर इत्यादिभाष्यादुपासनाया जीवे निषेधो मास्त्विति चेन्न विज्ञानमय- विभूतेरुपासनाविधानात् अत एव न सिद्धान्तविरोधः । तथा चोपासनादिसहकृतान्येषां गौणानन्तर्य- श्रद्धादिधर्मवत्त्वप्रत्यभिज्ञानानामपि गमकत्वमानन्दपूर्वभाववदितिशाखान्तर इत्यादिभाष्ये ज्ञातव्यम् । 'ब्रह्म ज्येष्ठमुपासते' इतितैत्तिरीयेप्युपासनादिसहकृतानन्दपूर्वभावोस्त्येव 'विज्ञानं यज्ञं तनुते कर्माणि तनुतेपि च विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासत' इतिश्रुतिः । पूर्वपक्षेति तथा च प्रकृतउपासनादि- सहकृतानन्दपूर्वभाववद्गौणानन्तर्यस्यापि जीवोपासनागमकत्वेनात्राथ खल्वित्यादौ गौणानन्तर्यादिच्छे- कस्याप्यभावाज् जीववाक्यत्वमिति पूर्वपक्षोपशमात् । मनोमयत्वादीनां श्रद्धादिधर्मवत्त्ववज्जीवोपासना- गमकत्वं यद्यपि तथापि निरूपितव्याख्यानसूत्रैः सर्वत्र प्रसिद्धोपदेशादित्यादिभिस्तदपहतमिति न पूर्वपक्षानुपशमः । प्राणशरीरत्वस्यानन्दरूपप्राणशरीरत्वरूपत्वं पूर्वमुपपादितं तदपि प्राप्तव्यं तादृशं रूपं फलं तदभिप्रायं प्राणशरीरपदं भविष्यतीति नन्वित्यादिभाष्यार्थः । तत्रेति विज्ञानमये । अत्रेति विषयवाक्ये । पुरुषः पुरि शेत इति पुरुषः । पुरा आस पुरुष इति वा । जीवासाधारणलिङ्गं तु इतः प्रेत्येति मरणकथनं ज्ञेयम् । तद्विवेकेन प्राप्ताप्राप्तविवेकेन । युक्तेरिति एष म आत्मा अन्तर्हृदय इत्यस्य ब्रह्मपरत्ववद् द्वा सुपर्णेति श्रुत्या जीवपरत्वस्यापि संभवात् । न च पूर्वपक्षस्योपशान्तत्वात् जीवविचारः कुत इति शङ्क्यम् । पूर्वपक्षे निराकरणीयजीवरूपार्थस्य विवक्षणेनानिराकरणीयजीव- रूपार्थस्य विचारे बाधाभावात् ॥ ३ ॥ 458