भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 552, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 552

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६१ रश्मिः । इत्यत्र मन्त्रोपासनमेकपद्‌व्याकृतम् । ननु गीताभक्तियोगाध्याये द्वादशे उपासनोक्तेर्वेति चेदित्थम् । श्रीभगवानुवाच । 'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः' ॥ इत्यत्र मनःपूर्विका उपासना उपसमीपे स्थित्वा यथायोग्यकरणरूपा मानसी तृतीयस्कन्ध- सुबोधिन्युक्तराद्धान्तोक्ता सिद्धयति । उपासत इत्यस्य मनो व्यापारं कुरुते इत्यर्थे पुनरुक्तिः । यद्वा मन्मन आवेशं कृत्वा साधनानामसिद्धेवदावृत्तिः कर्तव्येति सुबोधिन्या मन्मन आवेशसाधनतनु- वित्तजसेवे उपासनपदेनोच्येते । चित्तशोधकोपासना तु पूजापदेनोच्यते अत एव मन्त्रोपासनेत्यत्र उपासनं पुरश्चरणपूर्वकसाधनरूपं गृह्यते । यद्वा उपासनया शुद्धचित्ता नित्ययुक्ता भगवदर्थं यतयो