अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 553, कुल 2600 में से
संदर्भ में पढ़ेंव्यापारः कर्म तु चित्तशुद्ध्यनुकूलो व्यापार इति भक्तित्वेन ब्रह्मसम्बन्धत्वेन कार्यकारणभावात् 'भक्त्याह- मेकया ग्राह्यः' इतिवाक्यात् । ननु ज्ञानमपि पूर्वोक्तलक्षणद्वयकमेवातो न ज्ञानोपासनयोर्भेद इति चेत्सत्यम् । क्षेत्रक्षेत्रज्ञनिर्देशयोगे त्रयोदशेऽध्याये । 'अमानित्वमदम्भित्वमहिंसाक्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा' ॥ इत्यत्राचार्योपासनत्वात् । कामः संकल्प इत्यत्र धियो मनोवृत्तित्वात् लक्षणद्वयकत्वम् । एवं च मार्गत्रय इत्यत्र त्रित्वसंख्याविरोधः । अतो ज्ञानत्वरूपसामान्येनैक्येपि ह्युपासात्वेन माहात्म्यज्ञानत्वे- नात्मजीवैक्यज्ञानत्वेनानैक्यमेव । ननु गीतोक्तार्थो हि तज्ज्ञो साधनाध्याये वक्तव्यः 'ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः' इत्यनेन ब्रह्मसूत्रपदैः गीतं प्रकाण्डं भवतीति तत्रोक्तं ज्ञानं न प्राप्नोतीति चेन्न 'तत् समासेन मे शृणु' इति समासाङ्गीकारात् । यद्वा अध्यात्मज्ञानं माहात्म्यज्ञानं तत्त्वज्ञानमात्मजीवैक्य- ज्ञानम् । तत्त्वमनारोपितरूपमिति माहात्म्यज्ञानमपि तज्ज्ञाने भवत्येव । अध्यात्मज्ञानं प्राणो व्यानोऽपान उदानः समानः चक्षुः श्रोत्रं मनो वाक् त्वक् चर्म मांसं स्नावास्थि मज्जा एतदधिविधाय ऋषिरवोचदिति शिक्षाश्रुतेरेतज्ज्ञानम् । अतो भक्तः पुरुषो नोपासक इति सिद्धम् । 'द्वयोः सारूप्यात्तद् भ्रमहत्तिकृते' भक्तिहंसे स्फुटमन्यत् । एवं च भक्तो यत्प्रकारकक्रतुमान् तेन प्रकारेण सायुज्यालौकिकसामर्थ्यभगव- त्सेवोपयोगिदेहपशुपुत्रसालोक्यादिमानितः प्रेत्य भवति । ननु क्रतुरग्रे ब्रह्ममननात्मा वक्ष्यते कथं सेवायां मननमिति चेदत्रोच्यते सिद्धान्तमुक्तावल्यां ब्रह्मबोधनमिति निष्प्रकारकज्ञानरूपब्रह्मबोधात् शोधनपदं विहाय मननपदं सिद्धान्तमुक्तावल्याम् । 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत्' ॥ इतिभावनाविधानात् भावितं च भावनायां भावुकैः श्रीहरिरायचरणैः । ननु स्मरणं भवतु मीमांसया परब्रह्मणो विषयत्वादानन्दरूपप्राणशरीरभजनस्य किं प्रयोजनम् । मैवम् । 'यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया । मदर्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः' ॥ इत्येकादशस्कन्धे विंशेऽध्याये मीमांसाप्येवमेव स्मरणमन्यनिषेधात् । यद्यपि 'अथातो ब्रह्मजिज्ञासा' इत्यधिकरणे 'यदेव विद्यया करोति श्रद्धयोपनिषदा' इति छान्दोग्येन कर्मरूपोपासना- शेषत्वमुपनिषज्ज्ञानस्य तदपि सुबोधिन्यां व्यवस्थापितम् । भगवत्सेवां कुर्वाणस्य कामनायां जातायां