अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 551, कुल 2600 में से
संदर्भ में पढ़ें४६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० ४ प्राप्यत्वेन च व्यपदिशति । कर्तृत्वेन च शारीरं व्यपदिशति । नच भजनीय- भाष्यप्रकाशः । तद्वैषम्येनाप्रवृत्तेः । अत इदं ब्रह्मवाक्यमेवेत्यर्थः । सौत्रस्य चकारस्यार्थमाहुः नचेत्यादि । यथा क्रतुरित्यादिना भजनीयप्राप्तव्ययोरैकरूप्योक्तत्वात् तादृशरूपस्याप्राप्तत्वे फलवाक्यस्याबोध- रश्मिः । इतिवाक्यात् तद्वैषम्यं न्यायवैषम्यमुक्तमेव । अत इति ध्यात्रापेक्षया प्राधान्येन ब्रह्मण एव प्रक्रान्तत्वादित्यर्थः । अर्थमिति समुच्चयम् । भजनीयेति क्रतुर्यज्ञो मननात्मेत्युक्तम्, यज्ञश्च यजेर्नङि रूपं यजिश्च द्वितीयस्कन्धे 'ब्रह्मवर्चस' इत्यत्र भजत्यर्थः भजसेवायां भज्यत इज्यते यज्ञः क्रतुरिति फलितम् । 'यज्ञो वै विष्णुः' इतिश्रुतौ कर्मणि नङ् रूढो वा सेवावाची यज्ञशब्दः यथा क्रतुरितिपदद्वयम् सेवात्वमनुवृत्तिचित्त्वम् । यद्वा येन प्रकारेण क्रतुरस स यथा क्रतुर्भक्तविशेषणम् । क्रतुमय इत्यत्र 'द्व्यचश्छन्दसि' इतिविकारे मयटोऽबाधादप्यत्र प्रकरणे प्राचुर्ये मयट् पुरुषस्य क्रतुविकारत्वाभावात् यज्ञप्रचुरः पुरुषः पुरि शेते इति व्युत्पत्तेः । तत्र प्रचुरेषु क्रतुषु प्रकारभेदेन यत्प्रकारकः क्रतुस्तद्वांस्तेन प्रकारेण तं प्रेत्य भवतीति योजना । ननु.......न ज्ञानत्वेन क्रतुस्तद्वान् प्रेत्य ज्ञानत्वेन प्रकारेण ज्ञानं तदात्मको भवतु नामसेवा द्वितीयप्रकारेण क्रतुस्तद्वान् कथं सेवात्वेन प्रकारेण भवत्विति चेन्न भगवत्सेवोपयोगिदेहो वैकुण्ठादिष्विति सेवाफलान्वयोक्तेः भृशं सेवावानपि सेवारूप इति तत्कारोपपत्तेः । कर्ममार्गे त्वावृत्तिः । ननु द्वितीयपुरुषो भक्त इत्येवं व्याकृतमन्यैः उपासक इत्येवमुभयोः किं प्रमाणपदवीमधिरोढुमर्हतीति चेन्न । 'मार्गास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया । ज्ञानं कर्म च भक्तिश्च नान्योपायोऽस्ति कर्हिचित्' ॥ इति त्रिषु मार्गेषूक्तेषु पूर्ववाक्येनोपासनाप्राप्त्या चित्तशोधकत्वेनोपयोगो भाष्ये कृतः कर्ममार्गस्य कथमथपदव्यवच्छिन्नद्वितीयवाक्ये उपासनानुवृत्तिः । ननु 'ब्रह्मविदाप्नोति परम्' 'आत्मेत्येवोपासीत' इत्येवंविधेषु वाक्येषु वेदनोपासनपदानां सामानाधिकरण्यं शंकराचार्यमते, रामानुजाचार्यमते च वेदनं स्मृत्यात्मकभक्तिरूपं भवन्मते माहात्म्यज्ञानमात्रजीवैक्यज्ञानं च भक्तिव्यापारकम् । हीति कथ- मत्रोपासनाव्यवच्छेदः । इत्थम् षडङ्गेषु व्याकरणस्याप्यभिनिवेशादुपासनोपसमीपे स्थित्वा यथायोग्य- करणं करणे ल्युट् । मनोव्यापारविशेषो वा मनसो ब्रह्मसमीपे स्थाप्यत्वात् । तत्रोपासना मनस उपदेशो यदा तदा मानसी माहात्म्यज्ञानाद्यनु तनुवित्तजसेवे अनुभवति च । भाष्यप्रकाशे तु यथायोग्यकरणार्थं उप समीपे स्थितिरुपासनेति भावे ल्युटमङ्गीकृत्य प्रपञ्चिता भक्तिः फलाध्याय- समाप्तौ । भाष्ये त्वन्तःकरणशोधकत्वेनोररीकृतोपासना ते इमे उपासने भिन्ने श्रौतवाक्येषु शुशुभेते । तासु प्रथमलक्षणलक्ष्या भाष्येन्तःकरणशोधकत्वोक्त्याहृता । 'भक्तियोगं स लभते एवं यः पूजयेत माम्' इत्येकादशस्कन्धात् । अत्र कर्मकाण्डसंक्षेपादन्तःकरणशोधकत्वं पूजायाः । पूजनोपासनाकर्मपदानां पर्यायत्वात् । सुबोधिन्यामुपासनाकाण्डं मन्त्रशास्त्रं पञ्चरात्रं चेतिकथनात् कर्मकाण्डज्ञाने पञ्चरात्रोप- योगस्य शास्त्रप्रसिद्धत्वात् । एवं चोपासनाया एतादृश्या व्यवच्छेदोथशब्देन सुकरः । अत एव 'मन्त्रोपासनवैदिकतान्त्रिकदीक्षार्चनादिविधिभिर्यः । अस्पृष्टो रमते निजभक्तेषु स मेस्तु सर्वस्वम्' ॥ 460