अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 546, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५५ भाष्यप्रकाशः । कारस्यैवासंगतत्वात् । एवं सिद्धे निःश्वसितस्यासार्वदिकत्वे तदुद्गमे इच्छापूर्वकत्वस्याप्यपर्यवस्थेय- त्वात् । प्रपञ्चमात्रं प्रति, बहु स्यामितीच्छाया एव कारणत्वेन वेदात्मकनामप्रपञ्चं प्रत्यपि तस्या अदण्डवारितत्वात् । नच शब्दस्वरूपमात्रोद्गम एवेच्छासंबन्धो, न तु तस्यार्थसाहित्येऽपी- त्यदोष इति वाच्यम् । ईदृशविभागे मानाभावात् । नचैवं पौरुषेयत्वाङ्गीकारे काणादादितौ- ल्यमापातः । ईश्वरवाक्यत्वेनैव तन्निरासात् । नचैवं शब्दार्थसंबन्धानित्यत्वप्रसङ्गः । शब्द इति चेदित्यास्मिन् सूत्रे तन्निरासप्रकारस्यापि वक्ष्यमाणत्वात् । अतो वेदे वक्तुरिच्छासंबन्धस्य सत्त्वेन विवक्षितत्वादेः सत्त्वादुपचाराङ्गीकारो न युक्त इति दिक् । यत् पुनर्मनोमयः प्राणशरीर इत्यस्य सगुणेविषय