अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 545, कुल 2600 में से
संदर्भ में पढ़ें४५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० २ भाष्यप्रकाशः । यत्तु केचिदपौरुषेयवेदे वक्तुरभावानेच्छाद्यर्थः संभवतीत्यत उपादेयत्वेन फलेन तत्र विवक्षितत्वमुपचर्यते । लोके तथादर्शनात् । वेदेऽपि वाक्यतात्पर्यातात्पर्याभ्यामुपादेयत्वानुपा- देयत्वयोरवगन्तुं शक्यत्वात् सूत्रे विवक्षितपदमौपचारिकमङ्गीकुर्वन्ति तन्न रोचिष्णु । निःश्वसितश्रुत्यनुरोधेन वेदे जीवाजन्यत्वरूपस्यापौरुषेयत्वस्यास्थेयत्वेन सर्वथा वक्त्रभावस्या- संगतत्वात् । शास्त्रयोनित्वसूत्रे स्वयमेव वेदकर्तृत्वाङ्गीकारेण वदतो व्याघाताच्च । नच निःश्वसितस्य सार्वदिकत्वादबुद्धिपूर्वकत्वेन वक्तुरुपगमेऽपीच्छाद्यर्थासंभवाददोष इति वाच्यम् । 'आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किंचनास' इति श्रुतिविरोधेन तत्सार्वदिकत्वा