भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 559, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 559

४६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५ प्रतिपादकमेवेदं वाक्यमिति प्राप्ते, उच्यते । शब्दविशेषात् । स हिरण्मयः पुरुषो न जीवस्य फलमपि, तत्प्राप्तेरेव फलत्वात् । नाप्ययं नियमस्तस्यामेव मूर्त्तौ लय इति । अतः शब्देनैव विशेषस्यो- क्तत्वान्न हिरण्मयः पुरुषो जीवः ॥ ५॥ भाष्यप्रकाशः । मयाधिकरणे च तत्प्राप्तेरेव फलत्वमतो जीवस्य फलमपि हिरण्मयो न भवतीति तद्विरो- धाज्जीववाक्यत्वं न शङ्कितुं शक्यमित्यर्थः । ननु पूर्वाधिकरणे तत्क्रतुन्यायस्य सिद्धत्वात् तथो- पासने स्वरूपसारूप्यान्यतरलाभेन भाष्येऽप्यङ्गीकाराच्च कथं न तस्य फलत्वमित्यत आहुः नापीत्यादि । तैत्तिरीये, आदित्यो वा एष एतन्मण्डलं तपतीत्याद्यनुवाकद्वयमध्ये पूर्वस्मिन् हिरण्मयं पुरुषं प्रस्तुत्य, द्वितीये चादित्यो वै तेज ओजो बलमित्यादिना तद्विभूतिभूता देवताश्चोक्त्वाऽन्ते वदति । 'ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतामाप्नोति य एवं वेदेत्युपनिषत्' इति । तथाच यदि तत्क्रतुन्यायो नियतः स्याद्धिरण्मयस्य फलत्वं युज्येतापि । न तु तथा । नचैतद्विरोधः शङ्क्यः । यथा क्रतुरित्यत्र पुरुषविशेषणस्याधिकारस्यापि प्रकारांशे निवेशे तदभावात् । रश्मिः । व्याकर्तव्यं समानपदव्याकोपात् । साधकेति जीवसाधकब्रह्मसाधकयुक्तिसत्त्या । तत्प्राप्तेरिति आनन्दमयमात्मानमुपसंक्रामतीति श्रुतेः । फलत्वस्य श्रौतत्वादेवंकारः । तद्विरोधात् हिरण्मय- पदविरोधात् । चेति चकारेण 'भगवान्नेव हि फलं स यथाविर्भवेद्भुवि' इति निरोधलक्षण- ग्रन्थोक्तस्य वाक्यस्य संग्रहः । तैत्तिरीय इति महानारायणोपनिषदि 'आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचां मण्डलं स ऋचां लोकः, अथ य एष एतस्मिन् मण्डले- र्चिर्दीप्यते तानि सामानि स साम्नां लोकः, अथ य एष एतस्मिन् मण्डलेर्चिषि पुरुषस्तानि यजूंषि स यजुषां मण्डलं स यजुषां लोकः सैषा त्रय्येव विद्या तपति य एषोन्तर्रादित्ये हिरण्मयः पुरुषः आदित्यो वै तेज ओजो बलं यशश्चक्षुः श्रोत्रमात्मा मनो मन्युर्मृत्युः सत्यो मित्रो वायुराकाशः प्राणो लोकपालकः किं कं तत्सत्यमन्नममृतो जीवो विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सरः इति संवत्सरोऽसावादित्यो य एष पुरुष एष भूतानामधिपतिर्ब्रह्मणैतदमृतमेष पुरुष एष भूतानामधिपति- र्ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतामाप्नोति य एवं वेदेत्युपनिषत्' । इत्यनुवाकद्वये । तद्विभूतीति आदित्यविभूतिरूपाः । नन्वादित्यो वै तेज ओजो इत्यादिनाऽभेदसंसर्गस्य भासनात् कथं विभूतिरूपत्वमिति चेन्न आदित्य इत्यत्र ङसः सुः सुपां सुलुगिति सूत्रात् आदित्यस्येत्यर्थात् । अन्त इति द्वितीयानुवाकान्ते । युनक्तीति युक् सह युक् सयुक् सयुजो भावः सायुज्यं युजिर् योगे ऋष गतौ इति हैमधातुपाठः । ऋष्टिः समाना ऋष्टिर्यस्य स सार्ष्टिः तद्भावः । समानस्य सादेशः । समानलोकतामित्यत्र समानपदात् समानैश्वर्यादिगतिस्तामित्यर्थः । नन्विति सार्ष्टितासमानलोकत्तयोरपि प्राक्तिकत्वान्न तु तत्क्रतुन्यायो नियतत्वेन प्रकारेणेत्यर्थः । एतदिति तत्क्रतुन्यायविरोधोत्रेत्यर्थः । प्रकारांश इति थाल् प्रत्ययार्थीभूतो यः प्रकारस्तदंशे । तथा हि यथाक्रतुरिति पुरुषविशेषणम् । यथा येन प्रकारेण क्रतुरस्येत्यत्राधिकारप्राप्तत्वात् प्रकारस्य १. पुष्टिमार्गसम्मतैषा । २. ब्रह्मणः। ३. लोकपालः कः । 468