अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 560, कुल 2600 में से
संदर्भ में पढ़ेंननु हृदये विद्यमानत्वादभिमान्येव जीवो युक्त इति चेत्, तत्राह । स्मृतेश्च ॥ ६ ॥ भाष्यप्रकाशः। अन्यथोक्तश्रुतिविरोधस्य दुःपरिहरत्वात् । एवं सिद्धे तन्मूर्ती लयानियमे हिरण्मयस्य फलतया अपि प्रायिकत्वेन तद्विरोधो दुर्वार इत्युपक्रमस्थ पदवैयर्थ्यापादकतयैकार्थताविघटकत्वेन निर्बलत्वाच्च तदनुरोधादस्य जीववाक्यत्वमित्यर्थः । एवं सिद्धान्तमभिधाय तस्य सौत्रत्वं प्रकटयन्ति अत इत्यादि । छन्दोक्तो विशेषः शब्दविशेषस्तस्मात् । उक्तरीत्या हिरण्मयशब्देनैवाधिकारिकवि- शेषमादाय तत्र लयानियमस्य सूचितत्वात् तथेत्यर्थः । एवं चात्राणुत्वबोधकैर्माक्षादिदृष्टान्तैरन्त- रात्मनि वर्तमानस्य जीवत्वं प्रतीयत इति युक्त्या पूर्वाधिकरणसंगतिमाक्षिप्योपसंहारबलीयस्त्वेन तन्निवार्य पूर्वोक्तं दृढीक्रियत इतीदं पूर्वाधिकरणस्यैव शेषः ॥ ५ ॥ स्मृतेश्च ॥ ६ ॥ इदं सूत्रमवतारयन्ति ननु हृदय इत्यादि । तथाच श्रुतेः संदिग्धत्वेऽपि लिङ्गाज्जीववाक्यत्वं युक्तमित्यर्थः । अभिमान्येव जीव इति अभिमानी जीव एवेति योजना । रश्मिः । यादृशाधिकारप्राप्तप्रकारेणेत्यर्थात् परंपरया पुरुषविशेषणस्याधिकारस्येत्यर्थः । शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वादिति तृतीयाध्याये सूत्राच्छमादिमतः पुरुषस्य क्रतुरपि शमादिकृतप्रकारेण भवति यथा मनोमयः प्राणशरीर इति मननप्रकारो मनोमयत्वं प्राणशरीरत्वं च गार्ग्यस्य स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपासे इति तच्छमादिकृतादित्यत्वेन प्रकारेण ब्रह्ममननमित्यादित्यत्वं प्रकारो दृप्तबालाकिब्राह्मणे । ययाधिकारं सायुज्यादिप्राप्तेस्सत्येतः प्रेत्य भवतीति श्रुत्योक्तेस्तत्क्रतुश्रुतिविरोधाभावात् । श्रुतिविरोधस्य ब्रह्मणः सायुज्यमित्यादिश्रुति- विरोधस्य । तद्विरोध इति हिरण्मयस्य कथमपि जीवपरत्वासंभवेन हिरण्मयपदविरोध इत्यर्थः । पदेति हिरण्मयपदवैयर्थ्यापादकतयेत्यर्थः । तदनुरोधात् उपक्रमानुरोधात् । यद्यपि पक्षे संभवति जीवस्य फलतो हिरण्मयत्वं तथापि यावद्यथाकथंचिदपि ब्रह्मप्रकरणं सिद्ध्यति तावदन्यप्रकरणत्वम- युक्तमिति हिसन्दार्थ इत्यनुगमाधिकरणभाष्याद्ब्रह्मप्रकरणत्वमेव युक्तम् । अत इति मूर्तौ लया- नियमात् । शब्दोक्त इति मध्यमपदलोपी समासः । उक्तमिति भाष्ये हिरण्मय इत्यायुक्तरीत्या हिरण्मयशब्देन हिरण्मयत्वरूपो जीवाद्विशेषोऽभिधीयते । हिरण्मयत्वविशिष्टे हिरण्मये हिरण्मयपदशक्तेः । तेनैव शब्देनैव तात्पर्यवृत्त्याधिकारे विशेषो हिरण्मयप्राप्त्यनुकूलयज्ञवत्त्वं तमादाय तत्र मूर्तौ । तथेति । न हिरण्मयपुरुषो जीवत्वेन प्रकारेण विशिष्टो जीवः । न च तात्पर्यवृत्तौ किं गमकमिति वाच्यम् । यथा क्रतुरितिश्रुतौ यत्प्रकारकः क्रतुरिति क्रतौ प्रकारसामान्यस्यैव गमकत्वात् । हिरण्मयत्व- प्रकारकमननस्य हिरण्मयप्राप्तीच्छोरधिकारकृतत्वात् । अधिकरणयोः शेषशेषिभावमाहुः एवं चेति । पूर्वेति पूर्वाधिकरणसंगतिराक्षेपरूपा तामाक्षिप्य पूर्वाधिकरणे जीवाक्षेपस्य पूर्वपक्षीकृतस्य वारणे- ऽप्यत्रोपक्रमबलीयस्त्वमादाय जीववाक्यत्ववदुपक्रमगतसर्वपदेन जडस्योक्तावपि मनोमयत्वादीनां जीवेष्वसंभवादुपक्रमबलीयस्त्वमादाय जीववाक्यत्वमित्याक्षिप्येत्यर्थः । तं निवार्य आक्षेपं निवार्य । पूर्वोक्तं ब्रह्मवाक्यत्वं दृढीक्रियते । एवं पूर्वाधिकरणेषूपसंहारोक्ताववाक्यनादरोऽयोर्जीवेष्वसंभवात् ब्रह्मवाक्यत्वं दृढीकृतम् । शेष इति तेन प्रसङ्गसंगतिरेवेति भावः ॥ ५ ॥ स्मृतेश्च ॥ ६ ॥ श्रुतेरिति छन्दविशेषेणासंदिग्धेपि निरपेक्षस्वरूपश्रुतेर्ध्वान्तपुस्तपदैः 469