अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 561, कुल 2600 में से
संदर्भ में पढ़ें४७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ६ 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति । ननु सर्ववेदानां यन्निः- श्वासत्वं तस्य भगवतो वाक्यं कथं स्मृतिरिति । उच्यते । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुतेः केवलौपनिषद्वेद्यं ब्रह्म, न प्रमाणान्तरवेद्यम् । ततश्चार्जुनस्य शिष्यरूपेण प्रपन्नस्य पुष्टिभक्तत्वाभावाद् भगवद्वाक्ये निर्विचिकित्सविश्वा- साभावाद् रथित्वेनैव स्थाप्यत्वान्न तादृशाय तादृशदेशकालयोरुपनिषदामवक्त- व्यत्वाद् गुरुरूपतादृशरूपं निःश्वसितवेदोद्गमजनकं स्मृत्वा तदर्थमपि स्मृत्वा भगवान् पुरुषोत्तमो वाक्यान्युक्तवान् स्मृतिरूपाणि । भाष्यप्रकाशः । रामानुजादयो भगवन्तं श्रीकृष्णं पुरुषोत्तमत्वेन परब्रह्मत्वेन वदन्तो गीतावाक्यान्येवात्र स्मृति- त्वेनोदाहरन्तोऽप्येतत्स्वरूपं न विचारितवन्त इति तत्स्वरूपं तदुपन्यासादिप्रयोजनं च निर्णतुं विषयवाक्यस्य स्मृतित्वं व्युत्पादयन्ति ननु सर्वेत्यादि । शिष्यरूपेणेति शिष्यणीयरू- पेण । 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्' इति वाक्यात् । निर्विचिकित्सविश्वासाभावादिति अपरं भवतो जन्मेत्यादिरूपात् संशयबोधकवाक्यात् तथेत्यर्थः । रथित्वेनेत्यादि । अग्रिम- कार्यकारणार्थं साहंकारताया आवश्यकत्वाद्रथित्वेनैव स्थाप्यत्वान्न तादृशाय साहंकाराय । तादृशदेशकालयोरिति दारुणे देशे काले चेत्यर्थः । गुरुरूपतादृशरूपमिति यो वै वेदांश्च रश्मिः । र्बहुभिरेकस्य हिरण्मयश्रुतेरकिंचित्करत्वात् संदिग्धत्वेपि लिङ्गादयमात्मन् पुरुष इति पुरुषपदसामर्थ्यात् । अभीति अभिमानोऽविद्या सोस्यास्तीत्यभिमानी । पुरुष इति श्रुतौ पुरि देहे शेत इति व्युत्पत्तेर्जी- वप्रत्यायनादेवकारः । नन्वयोगव्यवच्छेदकत्वेऽनन्वयोगव्यवच्छेदेनैवकारव्याकरणे किं बीजमिति चेन्न अयोगव्यवच्छेदाङ्गीकारे जीवन्मुक्तो व्यावर्ततातो योजना भाष्यसूचितैव । जीवान्यसामान्ये अभिमानित्वयोगव्यवच्छेदो जीवे चाभिमानित्वं प्रतीयते इति । रामानुजेति । आदिपदेन मध्वाचार्यो भगवन्निम्बार्कश्च । एतदिति गीतारूपम् । तदुप्येति आदिपदेन चिन्तनम् । व्युदिति सौत्रत्वाय व्युत्पादयन्ति । स्मेति शेषः । व्युत्पादनस्य भूतनिबन्धनपरोक्षार्थवृत्तित्वात् । लटो वर्तमानकाले विधानात् । भाष्ये । ननु स्मृतिपदेन मन्वादिस्मृत्युपस्थितेः सूत्रे गीतास्मृतीनां कुत उपादानमिति प्रश्न उत्तरमाहुः तं त्विति । तथा च मन्वादिस्मृत्यवेद्यत्वात् तद्वाचकस्मृ- तिपदप्रयोगस्य श्रीव्यासस्यानभिप्रेतत्वेनोपनिषत्तुल्ये स्मृतिपदं प्रयुक्तमिति भावः । स्मरणात्स्मृति- रुच्यते इति स्मृतिपदप्रयोगप्रयोजकस्मरणं व्युत्पादयन्ति स्म ततश्चेति । प्रपन्नस्येति प्रपत्ति- मार्ग प्राप्तस्य । स च 'जगन्नाथे विट्ठलेशे श्रीरङ्गे वेङ्कटे तथा । यत्र पूजाप्रवाहः स्यात्तत्र तिष्ठेत तत्परः' ॥ इति निबन्धोक्तः तिष्ठेदिति प्राप्ते 'प्रकाशनस्थेयाख्यायोश्च' इति सूत्रेणात्मनेपदम् । अर्जुनस्य प्रकाशस्य स्फुटत्वादीदृशपूजाप्रवाहे स्थितत्वान्न प्रपत्तिमार्गनिष्ठत्वमत एव गुरूपसत्त्यादिसाधनपरत्वात् मर्यादाभक्तिनिष्ठत्वान्न पुष्टिभक्तत्वाभावः । प्रकृते । अपरमिति इदं वाक्यं प्रपत्त्या प्रवृत्तस्यार्जु- नस्य । अग्रिमेति युद्धरूपाग्रिमकार्यकारणार्थम् । रथित्वेनेति 'ये यथा मां प्रपद्यन्ते' इति वाक्यात् । तादृशायेति प्रपत्त्या प्रपन्नायापीत्यर्थः । श्रुतौ प्रहिणोति हि गतिबुद्धयोः शादिः परस्मैपदी प्रकर्षेण 470