अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 566, कुल 2600 में से
संदर्भ में पढ़ेंउपक्रमबलीयस्त्वमाशङ्क्य परिहरति । अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ ननु व्यापकस्येश्वरस्य हृदयदेशस्थितिरयुक्ता, व्रीह्यादिरूपत्वं च । अतोऽ- र्भकमल्पकमोको हृदयस्थानं यस्य तत्त्वाद् व्रीह्यादितुल्यत्वान्न परमात्मा वाक्यार्थ इति चेन्न । निचाय्यत्वात् । पूर्वं प्रथमदूषणं परिहरति । हृदये ज्ञातुं शक्यत इति तदायतनत्वेन प्रतिपाद्यते । निदिध्यासनानन्तरं हि साक्षात्कारस्तदन्तःकरण एवेति निचाय्यत्वम् । अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ इदं सूत्रमवतारयन्ति उपक्रमेत्यादि । असंजातविरोधत्वेन तथाऽऽशङ्क्येत्यर्थः । सूत्रं व्याकुर्वन्त आशङ्कांशं व्युत्पादयन्ति नन्वित्यादि । तथाचेश्वरधर्मविरुद्धस्य जीवधर्मस्य बोधनात् स्मृतिरयोग्यत्वादोषदुष्टेति न सा निर्णायिकेत्यर्थः । समाधानांशं व्याकुर्वन्ति पूर्वमित्यादि । तदिति हृदयम् । तथाच वृत्तिलाभस्थानत्वादायतनत्वव्यपदेशः । अत्रान्ये दृष्टान्तमपि वदन्ति । यथा, सर्वलोकपतिरप्ययोध्यापतिरिति । कथं वृत्तिलाभस्थानत्वमित्यत आहुः निदिध्यास- नेत्यादि । हिर्हेतौ । तदन्तःकरण इति जीवान्तःकरणे । तथाच 'मनसैवानुद्रष्टव्यः' इति- अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ तथेति प्रथमाया 'अव्ययादाप्सुपः' इति सूत्रेण लुक्, उपक्रमबलीयस्त्वम् । स्मृतिरिति 'ईश्वरः सर्वभूतानाम्' इत्यादिः । योग्यतेति अर्थावबोधे योग्यता सा दोषस्तेन दुष्टा । भाष्ये । व्रीह्या- दीति व्रीह्यादिभिर्विशेषेणापहीनं तौल्यमीश्वराय दिश्यते दीयते इति तद्व्यपदेशस्तत्तौल्यं तस्मात् व्रीह्यादिजडतौल्यं चेतनतौल्यादीनम् । दिश अतिसर्जनेऽतिसर्जनं दानं छन्दोवत्सूत्राणि भव- न्तीत्यतिदेशादेवं व्याख्यानम् । अन्यत्र व्यपदेशः कथनं 'उपसर्गेण धात्वर्थः' इति सिद्धान्तकौमुद्या तिङन्तस । प्रकृते । तदिति तदित्यस्य हृदयमित्यर्थ इत्यर्थः । तथा चेति ईश्वरस्य वृत्तिर्वर्तनम् तस्या लाभस्य स्थानं तत्त्वात् । अन्य इति शंकराचार्या एव । निदिध्यासनेति 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्र श्रुतौ पाठक्रममनादृत्य निदिध्यासनानन्तरमित्यादिः । हिरिति शब्दानुकरणत्वान्न विभक्तेर्लुक् । प्रतिपाद्यत इति पूर्वोक्तप्रतिपादने हेतुः । जीवेति । निदिध्यासनं तैलधारावदविच्छिन्नं ध्यानं परेषामस्माकं तु ह्यसंप्रज्ञातसमाधिरिति पादोपारम्भे उक्तम् । अतस्तन्निदिध्यासनं जीवान्तःकरण इत्यर्थः । न तच्छब्दार्थो जीवः । तत्रैव मनसेवेत्यर्थः । निचा- य्यत्वम् । अत्र 'पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु' इति पाणिनीयसूत्रात् ण्यत् छन्दोवत्सूत्राणि भवन्तीति महाभाष्यात् आयादेशः धात्वादेः कुत्वाभावो वैयासकसूत्रेण क्रियते निचाय्यो जगन्निवासो भगवान् निधीयतेऽस्मिन्जगदिति व्युत्पत्तेस्तस्य भावः तत्तन्मावश्यके ण्यः इति ण्यै- त्वायादेशो दुर्लभः सौत्रो वा इति पाणिनीयम् । अतो द्रष्टव्यत्वम् । व्यापकरूपं नितरां चाय्यमवयवैः संयोज्यं मनस्येव 'स मानसीन आत्मा जनानाम्' इति श्रुतेः । बुद्धेभ्यो विचिनोति फलनीलम्