भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 568, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 568

यहाँ दी गई पृष्ठ-छवि का शुद्ध देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । \hfill ४७७ पूर्वपक्षसिद्धान्तयोश्चकारद्वयमेतादृशवाक्यान्तरे पूर्वपक्षसिद्धान्तयोराधि- क्येोपपत्तिसमुच्चयार्थम् । तेन, अत एव प्राण इतिवदधिकरणान्तरमपि सूचि- तमिति ॥ ७ ॥ भाष्यप्रकाशः। न परिमाणविरोधोऽपीत्यर्थः । एवं समाधानांशं व्याकृत्य चकारप्रयोजनमाहुः पूर्वपक्षे- त्यादि । तथाचाधिक्यं पूर्वाधिकरणापेक्षया वैलक्षण्यं तत्र या उपपत्तिस्तयोरुक्तयोः स्फोरणा- र्थमित्यर्थः । तत्सूचितमर्थमाहुः तेनेत्यादि । तत्रेदमूदाह्रियते । तैत्तिरीये महानारायणोपनि- षद्याम्नायते । 'आदित्यो वा एष एतन्मण्डलं तपति । तत्र ता ऋचस्तदृचां मण्डलं स ऋचां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ य एष एत- स्मिन् मण्डलेऽर्चिषि पुरुषस्तानि यजूंषि स यजुषां लोकः सैषा त्रय्येव विद्या तपति य एषो- ऽन्तरादित्ये हिरण्मयः पुरुषः' इति । अत्र संशयः—हिरण्मयः पुरुषः किं जीवो ब्रह्म वेति । तद्बीजं तु विधेयत्वानिर्देशः । तत्रादित्यो वेत्युपक्रम आदित्यस्य मण्डलतप्ताकत्वमुक्त्वोपसं- हारे तत्तापकत्वं त्रय्यामुपसंहृतम् । तेनादित्यह्यधीश्वरः सिद्धः । शरीरस्य चान्तस्तदभिमा- न्येव युक्तः । मण्डलस्य हृदयापेक्षया महत्त्वेऽपि परममहत्परिमाणापेक्षयाल्पत्वेन तत्र जीव- रश्मिः । चकारेति चकारयोः प्रयोजनम् । पूर्वपक्षेत्यादीति चकारद्वयं पुनरग्रे प्राथम्यार्थकं तत् स्वल्पाक्षर- मिति सूत्रलक्षणविरुद्धमतश्चकारद्वयं व्यर्थं सत्किञ्चिज्ज्ञापयति एतादृशवाक्यान्तरे पूर्वपक्षसिद्धान्तयो- राधिक्ये वैलक्षण्ये या उपपत्तिस्तस्याः समुच्चयं ज्ञापकसिद्धं फलम् । ॰॰॰॰॰भाष्यम् । पूर्वाधिकरणेति अन्तस्तद्धर्मोपदेशाधिकरणापेक्षया न तु प्रकृताधिकरणापेक्षया एतदधिकरणापेक्षयेति संस्कृतात्पतेः । तत्रेति वैलक्षण्य इत्यर्थः । न तु पूर्वाधिकरण इत्यर्थः । त्यदादीनामव्यवहितपूर्वपरामर्शित्वात् । तयोरुपपत्तिवैलक्षण्ययोः । अत्र भाष्ये पूर्वपक्षसिद्धान्तयोरिति प्रयोगस्तत्र यद्यपि पूर्वं सिद्धान्तपदमपेक्षितं 'अल्पाच्तरं पूर्वम्' इति पाणिनिसूत्रात् तथापि राजदन्तादेराकृतिगणत्वात् 'राजदन्तादिषु परम्' इति सूत्रेण पूर्वप्रयोगार्हस्य परनिपातः । तत्सूचितमिति पूर्वाधिकरणापेक्षया उपपत्तिवैलक्षण्ययोः स्फोरणात् सूचितम् । तेनेत्यादीति उपपत्तिवैलक्षण्ययोः स्फोरणेन । यथा 'अत एव प्राणः' इत्य- धिकरणे सत्यपि 'प्राणस्तथानुगमात्' इत्यधिकरणान्तरम् । पूर्वोक्तस्य सर्वस्याप्यर्थस्य निगमनान्नात्र व्यासघातम् । तद्वत् सप्तम्यन्ताद्धेतिः । 'अन्तस्तद्धर्मोपदेशात्' इत्यधिकरणे सत्यपि शब्दविशेषात् इत्यधिकरणान्तरमपीति सूचितमित्यर्थः । तत्रेदमिति तत्र किमेतादृशवाक्यान्तरं की पूर्वपक्षसिद्धान्तौ किमाधिक्यं कोपपत्तिरित्याकाङ्क्षायामिदं वक्ष्यमाणमुदाह्रियते इत्यर्थः । विधेयत्वेति ब्रह्मजीव- योर्विधेयत्वानिर्देशः । 'हिरण्मयः पुरुष' इत्यत्र पदद्वयमपि ब्रह्मजीवसाधारणमिति भावः । त्रय्या- मिति 'त्रय्येव विद्या तपति' इत्येवकारेणादित्यव्यवच्छेदात् । तेनेति उपक्रमोपसंहाराभ्यामेकार्थ- प्रतिपादननियमेन त्रय्यादित्ययोश्च सामानाधिकरण्यनियमेन च सिद्ध इति । यद्यपि त्रयी वेदः स चात्मा प्रातिशाख्ये उक्तस्तथाप्यत्र विद्वांस्तां प्रतिपाद्यप्रतिपादकभावसत्त्वात्सामानाधिकरण्यासम्भवः तथा- चेदमुपक्रमोपसंहारयोरेकार्थपरत्वमिति भावः । स्मृतेश्चेति सूत्रम् । ननु न्वादिले विद्यमानत्वाद्रादित्या- भिमानो युक्त इत्याहुः स्मृतेश्चेत्यवतार्य 'ज्योतिषां रविरंशुमान्' इति स्मृतेरित्यर्थमित्वा रवावादित्ये द्वातस्य विद्यमानत्वमवेत्यनेनादित्ये स्थितिरित्यादित्ये विद्यमानत्वं नाभिमानिप्रयोजकमित्येवं सह्यार्थ- कास्तदन्तास्तस्यात्कर्मलोकस्तदङ्गत्वेनार्थनाम्। शरीरस्येतिहृदयेति आदिपदेन भगः । मनुष्याणामिति मनु \hfill 477 \hfill