अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 572, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८१ भोगाभाव एव । अग्रिमाधिकरणविरोधात् । यथेन्द्रियाधिष्ठातृदेवानाम् । तत्त्व- मस्यादिवाक्येन जीवस्यापि तथात्वे तस्यापि तद्द्देव भविष्यति ॥ ८ ॥ इति प्रथमाध्याये द्वितीयपादे द्वितीयं शब्दविशेषाधिकरणम् ॥ २ ॥ भाष्यप्रकाशः । यथेत्यादि । तथाचानुमानमेव मानमिति भोगप्राप्तावपि न जीवतौल्यापत्तिरित्यर्थः । नन्वेवं सति जीवस्य कुत उभयभोग इत्यत आहुः तत्त्वमसीत्यादि । तथाच ब्रह्मभावाभावेन कामकर्मा- दिवशगतत्वाद् बन्धदशायां तथेत्यर्थः । तथाच तदभावायैव साधनानां विधानमिति भावः । तदेतत्रासङ्गिकमुक्तम् । अन्यच्च पूर्वाधिकरणेऽन्तर्हृदयवर्तमानस्यान्तर्यामित्वे निश्चायितेऽपि पुनरस्मिन्नधिकरणे यत्तत्तात्वप्रतिपादनं तत्तदाकारनिश्चायनार्थम् । यथा कौण्डपायिनां सत्रे, मासमग्निहोत्रं जुहोतीत्य- त्राग्निहोत्रशब्देन नित्याग्निहोत्रधर्मा अतिदिश्यन्ते । तथा, हिरण्मयः पुरुष इति शब्दाभ्यामन्तस्त- रश्मिः । इति वाक्यात्तथा च नृसिंहोत्तरतापनीयश्रुतिः आनन्दभुग् इति । बृहदारण्यकेपि 'यद्य- देवास्सृजत तत्तदत्तुमप्रियत सर्वं वा अत्तीतीति नैवेह किंचनाग्र आसीत् मृत्युनैवेदमावृतमासीत्' इत्युपक्रमेऽग्रपदेन 'कालोस्मि लोकक्षयकृत्प्रवृद्धः' इति गीतोक्तकालेऽभावसत्त्वं नासीदित्यनेनोक्तवे- दपदवाच्याश्रयश्चोक्तः । तन्मनोकुरुतेति श्रुतौ त्यदादीनामुत्सर्गत्तः प्रधानपरामर्शकत्वात् 'ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति श्रीगीतातोग्रपदवाच्यकालात्मकं ब्रह्म तत्पदेनोच्यते इह पदवाच्याश्रयो वोच्यते न मृत्युरूपतृण्वार्थग्रहणाच्च । अपेक्षित एवेत्यादीति । इदं न प्रती- कम् । नियम इति । अपेक्षित एवेत्यवधारणे । यथेत्यादीति 'अन्तर्याम्यधिदैवादिषु तद्धर्म- व्यपदेशात्' इति वक्ष्यमाणाधिकरणे इन्द्रियाधिष्ठातृदेवानां भोगो वक्ष्यते । तथा चेति वैशेष्यादिति हेतुप्रकारेण यथेत्यादिभाष्योक्तदृष्टान्तप्रकारेण चेत्यर्थः । प्रकारवचने थाल् तच्छब्दात् । अनुमानं तु ब्रह्म अपेक्षितभोगवत् सर्वरूपादिमत्त्वात् इन्द्रियाधिष्ठातृदेववदित्यत्र पक्षे साक्षाद्धेतुस्साध्ये दृष्टान्ते तु इन्द्रियाधिष्ठातृदेवेषु परंपरयेति विवेकः । एवं सतीति हृदयदेशे वर्तमानत्वे ब्रह्मां- शत्वे च सति उभयसापेक्षितानपेक्षितस्य । व्यतिरेकमुखेन भाष्यं व्याचख्युः तथा चेति । तथेति उभयभोगवत्त्वप्रकारेण । जीवस्यापि तथात्वे ब्रह्मभावे ब्रह्मवदेव भोगो भविष्यतीति भाष्यार्थः । तदभावायेति बन्धदशाभावाय । अधिकरणार्थमुपसंहरन्ति स्म तदेतदिति । अधिकरणम् । वाक्यान्तरेपीदं सूत्रं योज्यम् । यत्पूर्वसूत्रसमासावेवं चाणुत्वबोधकैरित्यादिना सूत्रस्य पूर्वशेषत्वमुक्तं तदन्येषां सूत्राणामुभयाधिकरणशेषत्वमाह नाधिकरणप्रयोजनमाहातस्तदाहुः अन्यच्चेति । पूर्वाधिकरण इत्यन्तस्तद्धर्मोपदेशादित्यधिकरणे । तत्तदेति तस्यान्तर्यामिण आकारनिश्चा- यनार्थम् । कौण्डपायिनामिति अन्तस्तद्धर्माधिकरणविषयवाक्योक्तस्य हिरण्मयपुरुषस्य य आकारस्त- स्यातिदेशार्थम् । एतच्च सप्तमस्य तृतीयपादे पूर्वतन्त्र उक्तम् । 'क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात्' इत्यधिकरणे चिन्तितम् । अग्निहोत्रशब्दो न नामधेयं किं तु प्राथमिकामिहोत्रधर्माणामतिदेशक इति अग्नये होत्रं यस्मिन् कर्मणि तत्कर्माग्निहोत्रम् । अत्राकारसमर्पकं तु पूर्वाधिकरणभाष्यमेव तस्मादानन्दरूपप्राणशरीररूपो वाक्यार्थ इति । अन्तस्तद्धर्मोपदेशादित्यधिकरणभाष्यं च । अनन्त- 481