अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 573, कुल 2600 में से
संदर्भ में पढ़ें४८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८ भाष्यप्रकाशः । धर्माधिकरणविषयवाक्योक्तहिरण्मयपुरुषाकारातिदेशार्थमिदमधिकरणमिति मम प्रतिभाति । यदत्र शैवः, प्रसिद्धोपदेशाधिकरणं द्विसूत्रमङ्गीकृत्य अविनाभावरूपादैतोपगमेन विशिष्टा- द्वैतवादं चानुसृत्य, सर्वं खल्विदं ब्रह्मेति वाक्येक्तोपासनायां ब्रह्मणः सर्वात्मकत्वोपपादनायाऽथ- र्वशिरोवाक्यानि 'अहमेकः प्रथममासं वर्तामि च भविष्यामि च, नान्यः कश्चिन्मत्तो व्यतिरिक्तः' इत्यादीन्युदाहृत्य ब्रह्माहमित्यादिना विश्वरूपत्वमात्मन प्रपञ्चयित्वा विश्वरूपत्वे सोऽन्तरादन्तरं प्राविशदित्यनुप्रवेशमेव हेतुत्वेनाह । तदसङ्गतम् । एको ह वै नारायण आसीन्न ब्रह्मा न ईशान इति रश्मिः । मित्यनन्तमूर्तिता च प्रतिज्ञातेति । शैव इति भगवानिति शेषः । अविनेति 'अहमेकः प्रथममासे' इत्यादिश्रु- तिविचारेण सिद्धमविनाभावरूपादैतं तस्योपगमेन । 'अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः' 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' । इत्यादिश्रुतिषु अचिद्वस्तुचिद्वस्त्वीश्वराणां यथायथं भोग्यत्वभोक्तृत्वनियन्तृत्वैः स्वरूपविवेकात्त्रयोपि भिन्नाः, माया च तमोरूपा । तमः परे देव एकीभवतीत्यविभागापत्तिदशायां विभागव्यपदेशानर्हरूपेण ब्रह्मण एवावस्थानाद् विशिष्टाद्वैतवादं चानुसृ- त्येत्यर्थः । तृतीयाधिकरणे प्रथमपादे रामानुजमतनिरूपण उक्तम् । तथापि शैवस्तु रामानुजमतसैव चौरो माध्वमतस्य क्वचित्क्षुद्रुद्रांशामेव श्रुतिमुदाहरन् भिन्नं प्रस्थानमभिमन्यते इति चतुर्थाधिकरणप्रकाशादे- तन्मतेप्यविरुद्धम् । विरुद्धा वा श्रुतिस्तद्भाष्ये द्रष्टव्या आसमासीदिति क्वचित्पाठः वर्तामीति पदव्य- त्ययश्छान्दसः अत्र धातुत्रयमुत्पत्त्यर्थकमिति प्रहस्ते मध्यमवादे इत्यादीनीति । आदिपदेन इति सोन्तरादन्तरं प्राविशत् दिशोन्तरं प्राविशदिति श्रुतिसंग्रहः । ब्रह्माहमित्यादिनेति । नन्वयं प्रकाशो- शोभनः । अथर्वशिरसि सोहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माब्रह्मेतिश्रुतौ अब्रह्मेतिपदच्छेदादिति चेन्मैवम् । अत्राब्रह्माहमित्यकाराभावो लेखकप्रमादात् अब्रह्माहमित्यादि सोहं नित्यानित्यो व्यक्ता- व्यक्तो ब्रह्मेति तदब्रह्माहमित्यादि । अब्रह्माहमित्यादि यस्य तदब्रह्माहमित्यादि तदब्रह्माहमित्यादि च तदब्रह्माहमित्यादि च तयोः समाहारः तदब्रह्माहमित्यादि तेन तदब्रह्माहमित्यादिना सरूपैक्यशेषः तस्मात् । यद्वा सोहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा अत्र ब्रह्म आ इति च्छेदः अब्रह्मपदार्थस्याभावात् । न च प्रायपाठविरोधः । सावित्र्यहमित्यादौ मिथुनाभावात् न च आ ब्रह्मेति पदच्छेदः 'आब्रह्म- भुवनाल्लोकाः पुनरावर्तिनोर्जुन' इतिवाक्ये तादृशपददर्शनादिति वाच्यम् । तथा सति ब्रह्मव्याप्या- हमित्यर्थो भवति तदर्थस्याङोऽभावेपि प्रत्ययाद्गौरवात् । ब्रह्माहमित्यादिनेति भाष्यप्रकाशाच्च । तथा च सोहं यः प्रवेशकर्ता सोहं नित्यो सोऽपि अनित्यश्च तथा सोऽ व्यक्तः ब्रह्म आ । नित्यः स्वरूपतः अनित्य आविर्भावतिरोभाववान् 'आविर्भावतिरोभावौ शक्ती वै मुरारिणः' इति वाक्यात् व्यक्तो भक्तेच्छया प्रकटागणितानन्दः 'अव्यक्तोक्षर इत्युक्तः' इतिगीतावाक्यात् अक्षरवाचकाव्यक्त- पदसमभिव्याहारात् 'अक्षरादपि चोत्तम' इतिवाक्याच्च अव्यक्तोक्षर उक्तवाक्यात् ब्रह्म आ इति श्रुतिस्मरणे आ तदुक्तं श्रीभागवते 'सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम्' 'इति रसो वै सः' इति श्रुतिश्च । एतद्विश्वरूपत्वपृथक् । 'यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात् संभवतीह विश्वम्' ॥ इति । मुण्डकेऽक्षरस्योर्णनाभिदृष्टान्तैरुक्तरूपत्वात् वक्ष्यते चादृश्यत्वादिगुणको धर्मोक्तेरित्यधिकरणे । ननु सोहमित्यभेदमभ्यन्तरा भूतग्रामवदिति सूत्रविरुद्धसोपादानात् ज्ञानमार्गीयाक्षररतस्य विस्रम्भिस- 482