अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 575, कुल 2600 में से
संदर्भ में पढ़ें४८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८ भाष्यप्रकाशः। परमात्मा अन्तरादन्तरं दहरपुण्डरीकं प्राविशदतस्तद्भेददृष्टित्वात् तथेत्यर्थात् । अन्यथा प्रथम- पुरुषादिप्रयोगविरोधापत्तेरिति । किंवाविनाभावरूपाङ्गतोपगमस्य चिदचिदीश्वरभेदसिद्धिसापेक्ष- त्वेन, 'सदेव सौम्येदमग्र आसीत्' इत्यादि श्रुतिविरुद्धत्वस्य प्रागेवोपपादितत्वेन तदादरस्याप्यसंग- तत्त्वमेवेति दिक् । यदप्यनुपपत्तेस्तु न शारीर इत्यादिकं षट्सूत्रमधिकरणान्तरमङ्गीकृत्य बृहन्नारायणोपनिषदो महोपनिषदिति नामान्तरं चाभिधाय, तत्रत्ये 'पतिं विश्वस्यात्मेश्वर ५ शाश्वत ५ शिवमच्युतं नारायणं महाज्ञेयम्' इत्यादिवाक्ये, किं परमेश्वरमूर्त्यात्मा तद्विभूतिर्नारायणो विश्वपतित्वादिल- क्षणकतया प्रतिपाद्यते ? किं वा परमेश्वरः शिवः ? इति संदिह्य सहस्रशीर्षं देवमित्यारभ्य सहस्र- शीर्षादिविशिष्टत्वेन नारायणस्यैवोद्दिष्टतया अभ्यासात्, समुद्रेऽन्तमिति समुद्रशायित्वरूपतल्लिङ्गात् तद्वाचकाच्युतहर्यादिशब्दप्रयोगाच्च नारायण एव विश्वपतित्वादिलक्षणकत्वेन प्रतिपाद्यत इति पूर्वपक्षमभिधाय सिद्धान्तमाह । अत्र नारायणान्तर्यामी परमेश्वर एव प्रतिपाद्यते । कुतः । विश्वपतित्वादीनां परमेश्वरधर्माणां पदार्थान्तरे नारायणेऽनुपपत्तेः । पशूनां पतये वृक्षाणां पतये जगतां पतये नम इत्यादिना शिव एव परमेश्वरे निखिलभुवनाधिपत्यमभ्यस्यते । एको रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशिनीभिरिति रुद्रव्यतिरिक्तस्य जगदीश्वरत्वं निषिध्यते । विश्वाधिको रुद्रो महर्षिरिति विश्वाधिकत्वं तस्यैव श्रूयते । अतो विश्वपतित्वादिल- क्षणो नारायणात्मा परमेश्वर एवेत्याह । अग्रिमसूत्रे च पद्मकोशप्रतीकाशमित्यादिना नारायणहृदय- रश्मिः। स्तथापि भागत्यागलक्षणापत्त्या ब्रह्माभेददृष्टिरैव परामृष्टः। अन्तरा ब्रह्मपुरात् गुह्याद्गुह्यतरं प्राविशत् प्रविष्ट इति प्रहस्ते । तदभेददृष्टित्वात् ब्रह्माभेददृष्टित्वात् । प्रथमेत्यादि प्रथमपुरुषः प्राविशदिति तस्य प्रयोगस्य विरोधापत्तिः। न च स शिवः प्राविशदिति श्रुतिवाक्यमस्त्विति शङ्क्यम् । सोहं नित्यानित्य इत्यस्य शिववाक्यत्वात् तन्मध्यपातिन एतस्य शिववाक्यत्वार्थं सोहं प्राविशदित्यर्थात् । अत्र च प्रथमपुरुष- श्रुतिविरोधापत्तेः स शिवरूपः प्रसिद्धः परमात्मेत्यर्थस्य शोभनत्वात् । आदिपदेन ब्रह्माहमित्यत्र सुवर्णे कुण्डलतावद्ब्रह्मण्यहंताविरोध इत्यस्मत्पदप्रयोगविरोधः संगृह्यते । चिदिति चिच्चाचिच्च ईश्वरश्चैषां समाहारः चिदचिदीश्वरं तस्मिन् । समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यादिति नपुंसकता । प्रागिति । तृतीयाधिकरणे एवं शैवमतस्याप्यसंगतिर्बोध्येत्यादिना । नामान्तरमिति तथा च श्रुतिः एतद्वै महो- पनिषदं देवानां गुह्यमिति । समुद्र इति महानारायणोपनिषदीयम् । अन्तं स्वरूपं 'अन्तः स्वरूपे मनोहरे' इति विश्वात् । समुद्रे तमिति पाठे तु तं श्रीनारायणं प्रसिद्धम् । अत्रेति नारायणस्य अन्तर्यामी परमेश्वर इत्यर्थः । पूर्वं षष्ठीतत्पुरुषं विधाय पश्चात्कर्मधारयः । नारायणान्तर्यामिणः परमेश्वरत्वस्य विधेयत्वात् । एवं च सूत्रस्य शारीरो नारायणो विश्वपतित्वादिगुणको न अनुपपत्तेरित्यर्थः । एक इति । द्वितीया इति सोर्डा द्वितीयः । येति वर्णागमः । इ अ इत्यव्यये । इको यणचि । य इत्यस्मात् सोर्लोपो न य इमामीत्यत्र य इत्यस्य श्रवणात् । तस्थुरिति स्थाणुः । सूर्य आत्मा जगतस्तस्थुषश्च इति श्रुतेः । तस्थौ ईशनीभ्य इति च पाठे स्पष्टोर्थः । इतीति इत्यथर्वशिरःश्रुत्या । नारायणेति षष्ठी- तत्पुरुषः। कर्मकर्तृव्यपदेशाच्चेति सूत्रार्थमाहुः अग्रिम इति । पद्मेति पद्मकोशप्रतीकाशं हृदयं चाप्यधो- मुखमित्यादिना ध्येयं कर्म ध्याता नारायणः कर्ता तयोर्व्यपदेशान्न पद्मकोशेत्यादिश्रुताविति सूत्रार्थः । 484