अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 576, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८५ भाष्यप्रकाशः । मेवोच्यत इत्यङ्गीकृत्य शिवनारायणयोर्ध्येयध्यातृभावमाह। शब्दविशेषसूत्रे च, नारायणपरं ब्रह्मेति मन्त्रे नारायणात् परमिति समासमङ्गीचकार । स्मृतेश्चेति सूत्रे, 'एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम्' ॥ इति गीतावाक्यम्, 'अहं यथावदाराध्यः कृष्णेनाकृष्टकर्मणा । तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते' ॥ इति भारतीयमश्वत्थामानं प्रति शिववचनं च स्मृतित्वेनोदाजहार । तत्सर्वमसङ्गतमेव । द्वापरादिस्थलोकव्यामोहनाय पाद्मवाराहादिप्रसिद्धस्य, त्वामाराध्य तथा शंभो ग्रहीष्यामि वरं सदेत्यादिवरदानस्य यथावत्पदेनात्र बोधनात् कृष्णाराध्यत्वेऽपि शिवस्य परमभक्तवासिद्ध्या, गीतोक्तरूपस्याप्यनुगीतोत्तरमुत्तङ्गोपाख्याने । 'ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः । शाश्वतं वैष्णवं धीमान् ददृशे यद्धनञ्जय' ॥ इत्यारभ्य, 'तद् दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् । विस्मयं च ययौ विप्रस्तत् दृष्ट्वा रूपमैश्वरम्' ॥ इति पूर्वं अर्जुनेनेदानीमुत्तङ्केन च दृष्टस्य रूपस्य वैशम्पायनेन कण्ठत एव वैष्णवत्व- प्रतिपादनादुत्तङ्केनापि, विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशमिति निगमनाच्चोपपादन- मन्तरेणैव वैष्णवत्वसिद्ध्याऽनुगीतायामपि विष्णोरेवेश्वरत्वसिद्ध्या शैवमतानुपष्टम्भकत्वात् । रश्मिः । अङ्गीचकारेति तथा च शब्दविशेषो नारायणपरं तस्मादिति सूत्रार्थः । अहमिति शिवः । अकृष्टेत्यत्र कृष विलेखनेनिङ् । प्रातिलोम्येन दूषणान्याहुः द्वापरेति । 'द्वापरादौ युगे भूत्वा कलया मानुषादिषु' इति शिवं प्रति केशववाक्यात् । अतथ्यानि वितथ्यानि मोहशास्त्राणि कारय इतिवाक्यात् तत्स्रलोकानां व्यामोहाय । एवं पाद्मप्रसिद्धिरुक्ता । वाराहादिप्रसिद्धिरपि द्रष्टव्या । यथावदिति यथेत्यव्ययाद् द्वितीयाया लुक् यं प्रकारमर्हामि यथावत् तदर्हमिति सूत्रेण वतिः प्रकारश्च पूर्वोक्तवरदानं वरदातृत्वरूपं लघूपात्तं तसिलादयः प्राक्पाशपः इत्यव्ययत्वे सोर्लुक् अव्ययादाप् सुप इति सूत्रात् । तत्पदे- नेत्यर्थः । अतिदेशकं पदमुक्तम् । मासमग्निहोत्रं जुहोतीत्यत्राग्निहोत्रपदवत् । अत्रेति भारतीये । ननु त्वामाराध्य तथेति पदैः अहं यथावदाराध्य इत्याराधनस्य कुतो न बोधनं पुराणे इति चेन्न 'अष्टादशपुराणानां कर्ता सत्यवतीसुतः' 'चक्रे भारतमाख्यानं वेदार्थैरुपबृंहितम्' इतिवाक्यात्पुराणोत्तरं भागताख्यानेन पुराणे भारतीयाराधनसम्प्राप्तेः । तत इति वैशंपायनवाक्यम् । स भगवान् तस्मा उत्तङ्गाय । विष्णोरिदं वैष्णवं विराड्रूपम् । ऐश्वरं ईश्वर उपसंहारतः प्रधानत्वेन गृह्यते यत्र तदैश्वरम् । शैषिकप्रत्ययः । विश्वकर्मन्निति निरुक्तौ देवपत्नीनामसु पठितम् । वैष्णवत्व्वेति ईश्वरप्रधानविराडूपत्व- सिद्धा । विष्णोरेवेति यद्यपि मूलरूपे सर्वे शब्दा वाचकतां भजन्ते तथापि प्रकृते व्यवहारमनुरुध्य प्राप्तितमत्रानूदितम् । तथा चामरः 'ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः' इति । न चेश्वरस्य विष्णुत्वम- 485