अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 583, कुल 2600 में से
संदर्भ में पढ़ें४९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ३ सू० ९ अत्ता चराचरग्रहणात् ॥ अत्ता भगवान्नेव । कुतः । चराचरग्रहणात् । चरं सर्वप्राणिबधार्थं परिभ्रमन्मृत्युः । अचरं ब्रह्मक्षत्ररूपं कल्याप्यचाल्यम् । तयोरत्ता न जीवो भवितुमर्हति । 'यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात्' इति न्यायात् । असवादि- प्रतिपत्त्यर्थं तु लौकिकवद्वचनं भोक्तृत्वञ्च । प्रलयकर्तृत्वाच्चायुक्तत्वम् । सर्वत्र भाष्यप्रकाशः । मितिच्छिद्रापरिहाराय ब्रह्मक्षत्रपदं चराचरोपलक्षकमिति लाक्षणिकव्याख्यानस्यासंगतत्वबोधनाय चाहुः चरमत्यादि । अचाल्यमिति प्रबाहनित्यत्वादचाल्यम् । श्रुतौ चकारद्वयेन वर्णान्तर- स्यापि संग्रहः । तेषामपि भक्तावधिकारेण मुक्तियोग्यत्वात् । देवोऽसुरो मनुष्यो वेति वाक्यात् एवं सति पूर्वोक्तस्यान जीवो भवितुं नार्हति । असुर्जीवभावे तदाप्तानां मोक्षासंभवात् । ननु मृत्युञ्जयत्वेन संहारकत्वेन ज्ञानदातृत्वेन च तस्य प्रसिद्धत्वान्मृत्य्वविभूतिरूप एव सोऽस्तु, न जीवो, न वा परः। बाधकानाममुक्तत्वादित्याशङ्कायामाहुः यत्रेत्यादि । यथा अमात्यो युवराजो वा राजकार्यं कुर्वन्नप्यन्येभ्योऽतिशयवानपि, न राजभोग्यं भुङ्क्ते तदसाधारणं कार्यं वा करोति । अत उपासनोपचयादिना जातेऽपि सामर्थ्ये न तस्य तादृशमत्तृत्वं युक्तवचनमित्यर्थः । ननु तादृश भोक्तृत्वेऽसत्त्वे बाधकानामुक्तानां का गतिरित्यत आहुः असदादीत्यादि । तुः शङ्कानिरासे । तथाच यथा सदेव सोम्येदमग्र आसीदित्यत्र ब्रह्मणः केवलस्वेऽभिसंहितेऽप्यग्रपदेन कालोपरञ्जन- मसदादिप्रतिपत्त्यर्थं, तथात्र भोजने लौकिकवद्वचनमपि । नचात्र निषिद्धत्वं बाधकम् । निषेधस्य जीवेऽपि देहसंबन्धानन्तरमेव प्रवृत्तेरनुज्ञापरिहारसूत्रे वक्ष्यमाणत्वादशरीरे ब्रह्मणि तदप्रवृत्तेस्तं प्रति निषिद्धत्वाभावात् । अन्यथा प्रलयेऽपि हिंसायास्तौल्यात् तत्कर्तृत्वमप्ययुक्तं स्यात् । तथा सति प्रलय एव न भवेदतस्तन्नेव भोक्तृत्वेऽपि नायुक्तत्वम् । नापि ज्ञानाज्ञानं बाधकमित्याहुः । सर्वत्रे- त्यादि सर्वत्र विद्यमानस्वेऽपि, हन्त तिरोशानीति श्रुतेः सृष्ट्यनन्तरं तिरोधानेनाऽज्ञायमानत्वात् रश्मिः । तत उक्तं वाक्यं विषयं यस्य तत्त्वं तद्विषयत्वम् । इति लाक्षणिकेति शंकराचार्यरामानुजाचा- र्याभ्यां कृतस्य । अचाल्यमविकम्प्यम् । वर्णान्तरेति च पुनः क्षत्रं च वर्णद्वयं वैश्यशूद्ररूपं भोजन इत्यर्थः । एवं सतीति शंकराचार्यभाष्यानुरोधेन वर्णद्वये संगृहीते सति । तदेति तदा प्रलय- कालेप्तानां भक्षितानामभिसंविशन्तीत्युक्तमोक्षासंभवात् । प्रसिद्धेति अमरे श्रीभागवतेऽप्यर्धशि- रसि चेत्यर्थः । स महादेवः । राजभोग्यमिति क्ष्यादीत्यर्थः । तदसाधारणमिति पनेषु निष्क- याकुरादिरूपम् । यत्र महादेवादावतिशयो दृष्टः एतादृशात्तृत्वरूपः सः स्वं शिवादियदं तदर्थः शिवा- दिरूपत्वासानतिलङ्घनात् । अतिलङ्घनमनतिशय्ये दृष्टे भवति शिवायार्थाभावात्परमद्वाधोऽस्त्यतिशयादिति भाष्यार्थः । उक्तानामिति पूर्वपक्षग्रन्थ उक्तानाम् । पूर्वपक्षोक्तनिषिद्धत्वरूपं दूषणं परिहरन्तः प्रलयेत्यादिभाष्यमवतारयन्ति स्म न चात्रेति । अनुज्ञेति । इदं सूत्रं द्वितीयाध्यायतुतीयपादे 'अनुज्ञा- परिहारौ देहसंबन्धाज्ज्योतिरादिवत्' इति । न भवेदिति न च मा भूतप्रलय इति शङ्कम् । स्वाप्य- यादिति पूर्वोक्तसूत्रविरोधात् । नापि रूपकं बाधकं 'आनुमानिकमप्येकेषां शरीररूपकविन्यस्तगृ- हीतेर्दर्शयति च' इति सूत्रे रूपकसानिविद्धकर्तृजीवविषये स्वीकारात् । सर्वत्रेति भाष्यं विवरी- तुमत्तुः नापीति । भवतीति क्रियापदम् । सर्वत्रेति पदः सर्वत्रेति पदस्याहारः कर्तव्यः भवेद्वा इति 492