अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 582, कुल 2600 में से
संदर्भ में पढ़ेंमुपपद्येत । अलौकिकसामर्थ्याच्च संदेहः । तत्र निषिद्धत्वालौकिकभोजनवन्निरूप्यमाणत्वात् स्थानाज्ञानाच्च कश्चिदु- पासनोपचितालौकिकसामर्थ्यो महादेवादिरेवात्ता भविष्यति । न तु तद्विरुद्धधर्मा भगवान् भवितुमर्हति, अक्लिष्टकर्मत्वादिधर्मवान् । तस्माज्जीव एवोपासनो- पचितमहाप्रभावो वाक्यार्थ इत्येवं प्राप्तेऽभिधीयते । भाष्यप्रकाशः । धात्वस्य वक्तुमशक्यत्वात् कथं संदेह इत्यत आहुः अलौकिकेत्यादि । ननु जीवे कथम- लौकिकसामर्थ्यसंभव इत्याकाङ्क्षायां तत्साधयन्त एव पूर्वपक्षमाहुः तत्रेत्यादि । 'न हिंस्यात् सर्वा भूतानि' इतिश्रुत्या स्वपरप्राणवियोजनरूपाया हिंसाया निषिद्धत्वादत्र च ओदनरूपकेण तस्याः लौकिकतौल्याच्च सूचनात् तथा । महादेवादिरीत्यादिपदेन रुद्रवतोऽग्नेः संग्रहः । महादेवस्य निषि