अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 581, कुल 2600 में से
संदर्भ में पढ़ेंब्रह्मक्षत्रयोरशक्यभक्ष्ययोः सर्वमारकस्य च मृत्योर्भक्षयिता जीवो न भवत्येवेति कथं संदेह इति चेदुच्यते । ओदनोपसेचनरूपकत्वाज्जीवधर्मत्वम् । स्थानाज्ञानाच्च .न हि सर्वगतस्य स्वहृदयेऽपि प्रतिभासमानस्य, क इत्था वेद यत्र स इत्यज्ञान-
भाष्यप्रकाशः। सर्वं खल्विद१त्र सद्रूपतायाः, सत्यसङ्कल्पादिपदैश्चिद्रूपताया, अनादरत्वेनानन्दरूपतायाश्च बोधनेन तत्सिद्धेरिति । एवं द्वितीयाधिकरणे विषयवाक्येऽप्यन्तरात्मन्नित्यधिकरणनिर्देशात् तस्य च स्थानस्य सर्वसाधारण्यात् सर्वोपास्यत्वसिद्धिः स्फुटेवेति न कोऽपि शङ्कालेशः । तस्यैवान्तिमे सूत्रे भोगस्य स्मरणात् तस्यालौकिकत्वनिश्चायनायैतदधिकरणमित्युपोद्घातोऽपि संगतिरित्यापि बोधि- तम् । अधिकरणवैयर्थ्यमाशङ्क्य समादधते ब्रह्मक्षत्रेत्यादि । स्थानाज्ञानादिति विवृण्वन्ति नहीत्यादि । तथाच पूर्वाधिकरणद्वये सर्वगतत्वादिरूपेण सिद्धौ स्थानाज्ञानस्य वक्तुमशक्यत्वाद- ज्ञातस्थानकत्वं जीवधर्म एवेत्यर्थः । नन्वेवं ब्रह्मवाक्यत्वसाधकपदार्थानां रूपकाज्ञानाभ्यामन्य-
रश्मिः। स्मिन् पादे मुख्यवृत्तिस्फोरणेनार्थसंदेहवारणस्यावश्यकत्वादित्यपि लिङ्गं बोध्यम् । सद्रूपेति । नन्विदं परिदृश्यमानं सद्ब्रह्मेति वचनव्यक्तेः कथं ब्रह्मणः सद्रूपताया बोधनेन तत्सिद्धिरिति चेन्न । मृत् संदित्यप्रयोगः सद्घट इत्यप्रयोगवत् । तस्मात्सदिदं ब्रह्मेत्युक्तावपि ब्रह्मणः सद्रू- पता मन्तव्येत्याशयात् । सत्येति आदिपदेन भारूपादि । स्पष्टम् । अनादरेति न विद्यते आदरः संभ्रमो यस्येत्यनादरस्तत्त्वेनेत्यर्थः । आप्तकात्वात् सर्वानपेक्षत्वेनेति यावत् । सर्वस्यानन्दापे- क्षित्वेनानन्दस्य सर्वानपेक्षितत्वम् । अन्यापेक्षानन्देपि अन्यस्यानन्दानतिरेकात् सर्वानपेक्षितत्वम् । स- च्चिदेपेक्षितत्वेपि जीवानामन्यापेक्षितत्वं नानन्दस्य द्वैताभावात् । तत्सिद्धेरिति सच्चिदानन्दरूपत्वसिद्धेः । एवं द्वितीयेति शब्दविशेषादित्यधिकरणे । सर्वेति हृदये ब्रह्मोपासकानां सर्वेषामुपास्यत्वसिद्धिः । श्लोक्ताया उपोद्घातसंगतेः भाष्यसूचितत्वमाहुः तस्यैवेति । द्वितीयाधिकरणस्यैव । एवकारेण प्रथमाधिकरणव्युदासः । भोगस्य भोगेऽपेक्षितत्वस्य भाष्ये स्मरणात् । अपेक्षितभोगस्यालौकिकत्व इत्यर्थः । न चापेक्षितपदार्थो रश्मौ तत्रैव विवृत इति स एतद्विरोधीति शङ्क्यम् । प्रपञ्चवद्भक्तिमार्ग- स्यापि स्वप्राप्तये सृष्टत्वेन भक्तिमार्गापेक्षितालौकिकभोगस्य रश्मौ विवृतत्वात् प्रपञ्चरूपापेक्षितालौकि- कत्वाविवरणात् । उपोद्घातस्तु उक्तलक्षणकः । अधीति विषये संशयस्याधिकरणसार्थक्ये प्रयोजक- त्वासदभावेनाधिकरणवैयर्थ्यमाशङ्क्य । भाष्ये । ओदनेति । रूपकमभेदरूपकम् । ब्रह्मक्षत्रं च ओदन इति ब्रह्मक्षत्रयोरोदनाभेदोक्तेः अयं हि धूर्जटिः साक्षादित्यत्राभेदरूपकम् । अयमपरः शंभुरित्यादौ ताद्रूप्यरूपकम् । रूपकस्याभेदरूपकताद्रूप्यरूपकभेदेन द्वैविध्यात् । जीवधर्मत्वम् निषिद्ध- कर्तृजीवधर्मत्वम् । 'काव्यादीनामसत्यत्वान्नोपयोगः कथंचन' इति निबन्धे एषामनुपयोगकथनात् । तथा चौदनं चोपसेचनं चौदनोपसेचने तयो रूपकमभेदः स एषां ब्रह्मक्षत्रमृत्यूनां ते ओदनोपचनरूप- कास्तेषां भावः ओदनोपसेचनरूपकत्वं तत्त्वात् । तेषाम् ब्रह्मक्षत्रमृत्यूनामत्तृत्वस्य निषिद्धात्तृत्वस्य ब्रह्मण्यभावात् जीवधर्मत्वं जीवधर्मवृत्तान्तं श्रुतिर्वक्तीति भाष्यार्थः । स्थानाज्ञानादितीति श्लोक्त- मित्यर्थः । सर्वगतस्येति । सर्वं खल्विदं ब्रह्मेति सर्वगतत्वमाकाशस्येव घटादौ । आदिपदेनान्त- रात्मन्निति श्रुत्युक्तं स्वहृदयेन्यहृदये च प्रतिभासमानत्वम् । ब्रह्मवाक्येति अपरब्रह्मसूत्ररूपं
१. इदमिति ।