अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 580, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८९ षसेचनम् । क इत्था वेद यत्र सः' इति । अत्र वाक्ये ब्रह्मक्षत्रयोरदनत्वं वदन् यच्छब्दार्थस्य भोक्तृत्वमाह । तत्र संशयः । किं जीवो, ब्रह्म वेति । सच्चिदानन्द- रूपत्वं सर्वोपास्यत्वं पूर्वाधिकरणद्वयेन सिद्धम् । सर्वभोक्तृत्वं साधयति । भाष्यप्रकाशः । संगतत्वादित्याशयेनाहुः अग्रेत्यादि । ओदनस्य चेतनाभोग्यत्वेन तत्समभिव्याहृतयच्छब्दार्थभूतस्य भोक्तुरचेतनतायातस्तत्समभिव्याहारेणैव निवृत्तेस्तेषामस्तथात्वाज्जीवब्रह्मकोटिक एव संशयो युक्त इत्यर्थः । नन्वेतस्मिन् विचारे का वा संगतिरित्याकाङ्क्षायां तामाहुः सच्चिदेत्यादि । तथाच ब्रह्मजिज्ञासाप्रतिज्ञावाक्ये ब्रह्मण इति संबन्धषष्ठ्या ब्रह्मधर्माणामावश्यकानां संगृहीतत्वादुपासने ज्ञाने चापेक्षितेषु धर्मेषु द्वयोः सिद्धौ तृतीयास्याप्यु