भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 579, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 579

४८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० १ सू० ९ अत्ता चराचरग्रहणात् ॥ ९ ॥ (१-२-३) कठवल्लीषु पठ्यते । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्यो- भाष्यप्रकाशः। अत्ता चराचरग्रहणात् ॥ ९ ॥ पूर्वाधिकरणे परमात्मनः पुलह्रदप्रवेशवत्स्थित्यवधारणे जीववत् सुखदुःखभोगप्राप्तिमाशङ्क्य समाप्तौ परिहृता । स परिहारस्तदा युज्येत, यदि तस्य भोगः सिद्धः स्यात् । अतस्तत्साधनायोपोद्घातेनेदमधिकरणमारभ्यत इत्याशयेन विषयवाक्यमाहुः कठवल्लीषु पठ्यते इति द्वितीयवल्लीसमाप्तौ पठ्यते । अत्र शंकराचार्यादयोऽस्यामुपनिषद्यग्नि- जीवपरमात्मनां प्रकृतत्वात् त्रिकोटिकं संशयमुपगच्छन्ति । तदयुक्तम् । अग्रेः कोटिपातस्सा- रश्मिः। इति कोशेन पातते योगनिश्चयात् । पतिं विश्वस्यात्मेश्वरं शिवमच्युतमिति श्रुत्युक्तेषु शिवेश्वरत्वयोर्ना- रायणेऽनुपपत्तिः तां चैवं परिजहुः अथर्वशिरसि यत्सर्वान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वर इति श्रुतिः सर्वान् विषयान् त्याजयित्वा देवमुपदिश्य तदर्थशोधनद्वारा विषयवैरस्यमुत्पाद्याधिकारिणं कृत्वा दत्तेनात्मज्ञानेन मनःस्थिरतायै चाष्टाङ्गयोगजन्यैश्वर्येण च भक्तान् महति भूयादिति न्यायो नेदं निर्वचनमिति व्याख्यानं च । अष्टाष्टाङ्गयोगजन्यैश्वर्यवानीश्वरो भक्तान् महति भूयान्नेन्महेश्वरः । ईश ऐश्वर्ये, ईशितुं शीलमस्य लोममासेति वरच् । एवं (निषाद्ध) सिद्धान्तसे- श्वरखण्डनेऽश्वरे प्रवृत्तिनिमित्तमैश्वर्यं परं तु योगजन्यमिति तेन व्यवच्छिद्यते तस्य नारायणे प्रवृत्ति- निमित्तं तु स्वाभाविकमैश्वर्यम् । श्रुतेरमत्स्य निर्बलत्वात् । एवं नारायणविश्वपत्यादिपदानां बहूनामनुग्रहे न्याय्ये शिवपदमपि 'वेदः शिवः शिवो वेदः' इतिवाक्याद्वाचकानां वेदानां नारायणे वाच्यवाचका- भेदोपचाराद्युक्तमिति । एवं 'अनुपपत्तेस्तु न शारीरः' इतिसूत्रार्थस्थङ्क प्रहस्ते किंचिदुक्तम् । कर्मकर्तृसूत्रार्थस्थूङ्क प्रहस्ते किंचिदुच्यते । निरुपाख्यविठेयां गुहां पञ्चकोशेत्यादिभिर्महाम्नारायणोपनिषदि विद्युत्त्वापिष्ठातारमाह तस्या शिखाया मध्ये इत्यनेनेति न शिवनारायणयोर्व्येप्यव्याप्तृभावरूपं दूषणमिति । यद्वा । किंचायं मन्त्रः पूर्वतापनीयप्रथमोपनिषदीत्यादिना परब्रह्मणि शिवशंभुरुद्रादिशब्दानां शक्ति- रुक्ता । तथा च प्रहस्तः । एवं च शिवशंभुरुद्रेशानमहेश्वरादिशब्दा अपि मुख्यवृत्त्या तत्रैव प्रवर्तन्ते । 'नारायणः शिवो विष्णुः शंकरः परमेश्वरः । एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम्' ॥ इतिवाराहेमोपबृंहणाच्चेति । न च नारायणे शिवादिमन्त्राणां शक्तिर्नोक्ता किं तु परब्रह्मणीति शक्यम् । परब्रह्मण इदमित्थतया ज्ञानागोचरत्वेन नारायणे इदमित्थतया पर्यवसानात् । ईश्वरशब्दस्य शक्तेः पृथगपि विचारः कृतः यत्तु ज्ञानघनापरनामा सुदर्शनाचार्य इत्यादिना ॥ ८ ॥ इति द्वितीयाधिकरणम् ॥ २ ॥ अत्ता चराचरग्रहणात् ॥ ९ ॥ संगतिं वक्तुं वृत्तमनुवदन्ति स्म पूर्वाधीति । परि- हृतेति संभोगप्राप्तिसूत्रे परिहृता । सिद्ध इति पूर्वतन्त्रे निषेधस्य प्राप्तिपूर्वकत्वादिति भावः । उपरोद्घातेनेति 'चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं विदुर्बुधाः' इति व्युत्पन्नेन । चिन्तां योग- 488