अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 587, कुल 2600 में से
संदर्भ में पढ़ें[अ० १ पा० २ अ० ३ सू० १०] ४९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाशः। तामुक्त्वा एतद्ध्येवाक्षरं ब्रह्मेति मन्त्रद्वये सर्वफलदायकत्वादिना तत्प्रशंसामुक्त्वा तत्प्रतिपाद्यस्य ब्रह्मणो माहात्म्यं, न जायत इत्यादिभिरिमैर्मन्त्रैर्वदन्नन्ते तस्यैवात्तृत्वं मृत्युरेवाह । तथाहि यमो देवतारूपो मृत्युर्वाणृत्वेनाभिप्रेतः स्यात् तदा, न जायत इति मन्त्रे तस्य जननमरणाभावं न वदेत् । पुराणादिषूभयोरपि जन्यत्वस्मरणात् । यमो यमी भ्रातृदेव इति, तन्नाऽपानस्ततो मृत्यु- रिति । वेदेऽपि न मृत्युरासीदमृतं न तर्हीति । जन्यत्वं च नश्वरत्वव्याप्तम् । तथा आसीनमन्त्रे,
रश्मिः। चकारार्थत्वात् । तथा च भाष्यम् । 'क इत्था वेद यत्र सः' इति च दुर्विज्ञानत्वं परमात्मलिङ्गमिति । रामानुजभाष्यं प्रकरणं चेदं परस्यैव ब्रह्मणः 'म