अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 588, कुल 2600 में से
संदर्भ में पढ़ेंरश्मिः । 'एकां रात्रिं विहृत्वैवं ते वीरास्ताश्च योषितः । आमन्त्र्यान्योन्यमालिङ्ग्य ततो जग्मुर्यथागतम्' ॥ इत्यादिकाव्योक्तविहारादीनां विरोधापत्तेः । तच्चाकृतकस्यनिवर्तनेनापि वैय्यर्थ्यापत्तेश्च । न च ध्वंसादिसम्बन्धाभिलापबाधः । कार्यकारणादिसम्बन्धवदेतेषामपि सापेक्षवृत्तिकत्वेनावस्थामपेक्ष्या- भिलापोपपत्तेः । तस्माद् ध्वंसो नावस्थातिरिक्तः । एवं कार्योत्पत्त्यनुकूला कारणावस्था दृश्यत एवेह कपाले घटो नास्तीति प्रत्ययात् न प्रागभावोप्यतिरिक्तः । अत्र प्राञ्चः । उत्पन्नस्य घटादेः पुनरुत्- पत्त्यापत्त्या प्रागभावोतिरिक्तः । तन्न । कालोपाधीनां क्रमिकत्वेन निमित्तसामग्रीप्रविष्टस्य कालोपाधे- स्तदानीमभावात् । जन्यद्रव्यत्वावच्छिन्नं प्रति जनकतया क्लृप्तस्य समवायसंबन्धावच्छिन्नप्रतियोगिताक- द्रव्याभावस्याभावाच्च तदापत्तिः । यदि जन्यद्रव्याभावस्य जन्यद्रव्योत्पत्तिकालिकौत्पत्तिकध्वंसाभावस्य वा हेतुत्वमित्यत्र विनिगमनाविरहात्तादृशद्रव्याभावस्य तादृशाभावानां च कारणताकल्पनापेक्षया लाघवादेक एव प्रागभावो हेतुः कल्प्यते इति विभाव्यते तदापि तत्कालोत्पत्तिकानन्तपदार्थप्रति- योगिकानामनन्तानां प्रागभावानां विनिगमनाविरहेण हेतुत्वकल्पनावश्यकत्वात् प्रागभावरूप- धर्मिकल्पनाधिकेति न प्रागभावो युक्तिसह इत्यपि वदन्ति । केचित्तु स्वानधिकरणतन्तुषु पटोत्पत्ति- वारणाय सर्वेषां तन्तूनां तत्संयोगादीनां च तत्तद्व्यक्तित्वेन हेतुत्वकल्पनं सहस्रतन्तुकपटस्थले आवश्यकमिति तदपेक्षया प्रागभावस्यैव लघुत्वेन हेतुत्वौचित्यात् । न चैवं द्वित्रिचतुर्षु तन्तुषु सहस्रतन्तुकपटोत्पत्तिः स्यादिति वाच्यम् । चरमसंयोगयुक्तेस्तद्व्यक्तित्वेन हेतुत्वोपगमात् । न चैवं स्वानधिकरणतन्तुष्वपि पटोत्पत्तिर्न भविष्यति चरमसंयोगाभावात् तथाच प्रागभावकल्पनमनुचित- मिति शङ्क्यम् । चरमसंयोगस्य यद्धेतुत्वं तच्च समवायघटितसामानाधिकरण्यप्रत्यासत्त्या तथा सति इतरेष्वपि तन्तुषु समवायेन पटोत्पत्तिदर्शनात् तत्र च समवायेन चरमसंयोगाभावेन व्यभिचारादतः कालिकसंबन्धेन तत्पटत्वावच्छिन्नं प्रति कालिकसंबन्धेन चरमोत्पन्नसंयोगव्यक्तेर्हेतुत्व- मावश्यकम् । एवं च कालिकसंबन्धेन स्वानधिकरणतन्तुष्वपि चरमसंयोगस्य सत्त्वेन पटोत्पत्ति- निवृत्त्यर्थं प्रागभावस्य हेतुतौचितेत्याहुः । कश्चित्तु पूर्वोक्तयुक्त्या भवतु प्रागभावोतिरिक्तस्तथापि न तस्य संप्रतियोगित्वं मानाभावादित्याह तदपि न । पूर्वोक्तरीत्या निमित्तसामग्रीप्रविष्टकालोपाधेः स्वान- धिकरणतन्तुषु चरमसंयोगस्य कालिकसंबन्धेन सत्त्वेप्यभावात् । ननु पक्वे घटे स्पर्शरूपरसगन्धानां पाकजानामुत्पत्तिः तत्रोपादानस्य निमित्तसामग्र्याश्च सत्त्वेन विलक्षणस्पर्शरूपादिप्रागभावं विना न निर्वाह इति चेत्तत्तत्परिणामिसत्त्वविशेषाभावादेव सिद्धेः । ननु यत्र पाके स्वभावस्य धर्मत्वेन तत्क- ल्पनेपि प्रागभावापेक्षया लाघवात् । एवमव्याप्यवृत्तिसंयोगाद्यवच्छेदेनोत्पत्तौ स्वभावस्यैव निया- मकत्वं ज्ञेयम् । न चेह कपाले घटो नास्तीति प्रतीतेर्निर्विषयत्वापात इति वाच्यम् । तस्या घटत्वाव- च्छिन्नप्रतियोगिताकाभावविषयतयात्यन्ताभावविषयत्वात् । नापीह कपाले घटप्रागभाव इति प्रतीतिस्तन्नि- बन्धनं तस्या एवाभावात् । तथाग्रहेपि प्रतिपत्ति१र्नादरणीया असार्वजनीनत्वात् । किंचोक्तरीत्या आपा- द्यमानः प्रागभावः किं घटत्वावच्छिन्नप्रतियोगिताक एक उत तत्तद्धटप्रतियोगिकोनेकः । नाद्यः, सर्वेषु घटोपादानेषु तत्सत्त्वात् सर्वेभ्यः कपालेभ्यः सर्वघटोत्पत्त्यापत्त्या नियमभंगापत्तेः । न द्वितीयः । १. अव्यवाये गड्डु । 497