अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 589, कुल 2600 में से
संदर्भ में पढ़ें४९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ३ सू० १० भाष्यप्रकाशः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हतीति स्वस्य तस्य च भेदेन ज्ञातृज्ञेयभावं च न वदेत् । अत इदं मृत्यादिदेवताव्यतिरिक्तस्य ब्रह्मण एव प्रकरणम् । तथा सत्यासीनादिमन्त्रेषु यथा विरुद्ध- धर्माधारत्वादिरूपं तन्माहात्म्यमवदत्तथात्रोक्तविधातृत्वस्वरूपमपीति तथेत्यर्थः । शेषं स्पष्टम् । रश्मिः। अभावज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनतया तदानीं प्रतियोगिज्ञानाभावेन तत्प्रतीत्यनुदयापत्तेः । न च प्रतियोगिज्ञानस्य घटत्वेन रूपेण सत्त्वात् प्रत्ययो निर्बाध इति वाच्यम् । तथा सतीह घटत्वाव- च्छिन्नप्रागभावः इति तस्या आकारात् प्रागभावस्यापि सामान्यापत्त्या पूर्वकल्पीयदोषापत्तेः । ननु प्रागभावानङ्गीकारे कारणशरीरप्रविष्टस्य पूर्ववर्तित्वस्य कथं ग्रहणम् । तस्य प्रागभावावच्छ