अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 590, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९९ भाष्यप्रकाशः। अत्र चात्तृत्वस्य ब्रह्मणि निधानात् प्रलयकर्तृत्वनिर्वाहक सामर्थ्यमवसरसंगत्योक्त्वा तदसंभवो निवारितः । सर्वे वेदाः, एतद्ध्येवाक्षरमित्युपक्रमात् सर्वरूपत्वात्मकं वैशेष्यमपि जीवतुल्यभोगा- भावार्थं सूचितं ज्ञेयम् । माध्वास्तु, स यद्यदेवाऽसृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति सर्वमदितेरदिति- त्वमिति बृहदारण्यकीयाग्निब्राह्मणस्थश्रुतिं विषयवाक्यत्वेनोदाहरन्ति । विज्ञानभिक्षुस्तु, 'य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य ततो न विजुगुप्सते' ।। इति कठवल्लीस्थाम् । अत्तृत्वरूपस्य विषयस्य तत्र स्फुटत्वात् । अत्तृत्वं च प्रलयकर्तृत्वमेव सर्वे व्याकुर्वन्ति । रश्मिः। इत्याहुः अत्र चेति । अवसरेति जन्मादिसूत्रे जगज्जन्मादिकर्तृत्ववचनसमये स्फुरितोपि प्रल- यकर्तृत्वरूपोऽसंभावितोर्थोऽविचारित एव स्थितः। जगज्जन्मादिकर्तृत्वं निमित्तमुत समवायित्वं ब्रह्मणि शब्दरूपप्रमाणसंचारः कथं सदसतः परस्मिन्निति जिज्ञासायाः प्रतिबन्धकीभूतायाः सत्त्वात् । तन्नि- वृत्तौ प्रथमपादेन सत्यां द्वितीयपादेन 'जन्माद्यस्य यतः शास्त्रयोनित्वात्' इत्यधिकरणविषयवाक्ये यच्छब्दार्थो मुख्यवृत्त्यानन्दप्राणशरीररूपो वाक्यार्थ इति भाष्यान्मनोमयप्राणशरीरभारूपादिविशेषण- प्रतिपाद्यं ब्रह्मेति भवत्यवधृतिः । शब्दविशेषादित्यधिकरणेन पञ्चाधिकरणानन्तरमन्तस्तद्धर्मोपदेशादित्य- धिकरणोक्तस्य 'स्मृतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् । एतैः सर्वैरादित्यमण्डलं विभासते' इत्यारणश्रुतेः प्रसङ्गाद्धिरण्यपदस्य स्मृत्यादिसिद्धान्तसिद्धे हिरण्मयेर्थे यथा ब्रीहिर्वा यवो वेतिश्रुत्युक्ते मुख्यवृत्तिरि- त्युच्यते । एवमन्याधिकरणेषु आकाशादिमुख्यवृत्तिः सिद्धैवेति प्रलयकर्तृपदस्य मुख्यवृत्तिः कथे- मित्याकाङ्क्षायामवश्यवक्तव्यप्रलयकर्तृत्वनिर्वाहक सामर्थ्यमवसरसंगत्योक्त्वा तदसंभवः प्रलयकर्तृत्वा- संभवो निवारित इत्यर्थः । अत्तृत्वं मोक्षदातृत्वम् । इदमेव गलाधःसंयोगानुकूलव्यापारवत्त्वं तदन्य- मतानुक्तमुपपादयितुं माध्वादिमतान्याहुः माध्वास्त्विति । सर्वमदितेरिति तददितेरदितित्वमिति पाठः । कठेति चतुर्थवल्लीस्थाम् । श्रुत्यर्थस्तु मध्वदं कर्मफलभुखानं यद्यपि तथापि प्रलयानुपयोगान्मधु- ब्राह्मणस्थाः पृथ्व्यादयः पदार्थाः मधूनि तान्यत्तीति मध्वदः कर्मण्यण् । तं वेद, जीवम् । 'जीवो जीव- मजीवयत्' इतिवाक्यात् । विजुगुप्सत इति रक्षितुमिच्छति अभयस्य प्राप्तत्वादात्मानं देहं न रक्षितुमिच्छतीति । सर्व इति शंकराचार्यप्रभृतयः । स्वसिद्धान्तोपयोगित्वेन पूर्वं ब्रह्मक्षत्रमोक्षदातृत्व- रूपमत्तृत्वं संपन्नि स्म अत्र तदिति । कठवल्ल्यां प्रलयकर्तृत्वप्रसङ्गादर्शनात् । तच्चिन्त्यम् । प्रथमवल्ल्यां तावत् त्रयाणामग्निजीवब्रह्मणां प्रश्ना उत्तराणि च तत्र द्वयोः प्रश्नोत्तराणि ब्रह्मप्रश्नोत्तरे तु द्वितीयवल्ल्यां तत्र समाप्तौ यस्य ब्रह्म च क्षत्रं चेति श्रुतिः । अत्र मोक्षोपदेश उचितो न प्रलयस्य । तृतीयवल्ल्याम् ऋतं पिबन्ताविति प्रक्रम्यात्मानं रथिनं विद्धीति मोक्षोपायनिरूपणात् । यत्तु रामानुजाचार्याः न केवलं कर्मनिमित्तं भोक्तृत्वमपि तु जगज्जन्मस्थितिलयहेतुभूतस्य ब्रह्मणो विष्णोः संहर्तृत्वं 'सोऽध्व