अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 592, कुल 2600 में से
संदर्भ में पढ़ेंयथा मृत्युः कीदृशो मृत्युः अशनायेति अशनायान् छान्दसः प्रत्ययः । अशनयानुमेय इत्यर्थ इति । न त्वशना इच्छारूपा मनोधर्मः 'कामः संकल्पः' इति श्रुतेः । कुतस्तरां तमोरूपमृत्युधर्मोऽशनायेतिपदे- नोच्यते इति चेत्सत्यम् । प्राणिनामन्तःपातितस्य मृत्योः सामानाधिकरण्यसंबन्धेनाशनावत्त्वात् । अशनायया प्राणिषु अशनावान् मृत्युः सामानाधिकरण्यसंबन्धेनानुमीयत इति । अशना इच्छारूपा इहपदोक्ताश्रयधर्मः । 'स ईक्षांचक्रे' इति श्रुत्यन्तरात् । नन्वाश्रयस्याशितुमिच्छा न संभवति । अनश्नन् इति श्रुतेरिति चेन्न कर्मफलस्याशितुमिच्छाया निषेधात् । प्रलये सर्वमशितुमिच्छाया आश्रये सत्त्वात् । तदुक्तं प्रश्नोपनिषदि । संवत्सरो वै प्रजापतिः प्रजाकामो वै प्रजापतिः तस्याशितुमिच्छा स्त्रीप्रत्ययेन ब्रह्मानन्दकं तादृशानन्देन जग्धमन्नं स्वदोषेण मृत्युजनकं