अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 593, कुल 2600 में से
संदर्भ में पढ़ेंमित्यर्थः । मृत्युना तमसा ज्ञानावरकेण विस्मरणजनकत्वेन सुख्रत्यन्तविस्मृतिरिति वाक्योक्ते- नावृतमिति श्रीभागवतं मतं पूर्वोक्तान्नातिरिच्यते । कोसोक्तपक्षयोर्देवपक्षे इदं दैवेन सेवितम् । षूङ् संपक्तावित्यस्मात्पूर्वस्य रूपमावृतमिति भज सेवायां संपूर्वः संभक्ताविति । इदं मायाशबलिते- नावृतमित्यपरे । केचित्तु मृत्युनैवेदमिति श्रुतिप्रामाण्यादेव प्रागुत्पत्तेः कार्यकारणसत्तामाहुः तत्तथैव परं जगदाश्रये कार्यकारणांश इति युक्तम् । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदिति गीतातः । नैवेहेति सावधारणश्रुतौ कृष्णाश्रयोक्तेः । किं च मृत्युकामः तमश्च तमु काङ्क्षायां दिवादिकस्य रूपमिति स्वरवर्णानुक्रमहैमधातुपाठे तमु काङ्क्षायां दिवादिरिति धातुपाठे ताम्यति काङ्क्षतीति तमः । असुन् पचायचि तमश्शब्दाकारान्तोपि अमरटीकायां भट्टोजीदीक्षितपुत्रकृतायां तमस्तु