अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 603, कुल 2600 में से
संदर्भ में पढ़ें५१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ४ सू० ११ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् । गुहा हृदयाकाशस्तत्र सकृदे- कस्मिन् प्रविष्टौ जीवपरमात्मानावेव । अनेन जीवेनात्मनानुप्रविश्येत्युभयोः भाष्यप्रकाशः । श्लक्ष्णम् । जात्यपेक्षयैकवचनस्यापि युक्तत्वात् । परमः परश्चतुर्मुखो यत्र मीयते तादृशं परार्धमुत्तमं सत्यलोक एव । तत्रोभयोः । शतजन्मीनसत्कर्मशुद्धस्य कर्मिणो वेदान्तविज्ञानसुनिश्चितार्थस्य सन्न्यासिनश्च भोगादिति । विद्वद्विद्वतोरिति विच्छन्दान्मतुप् । योग इति संबन्धे । शेषं स्फुटम् । एवं पूर्वपक्षमुक्त्वा समाधानं व्याकुर्वते गुहामित्यादि । एकस्मिन्निति एकदेत्यर्थः । अत्र हेतुर्हिं- शब्देन सूच्यते । तं विवृण्वन्ति अनेनेत्यादि । अनेन जीवेन सहात्मनेत्यर्थः । नच सहार्थे रश्मिः । 'आत्मारामश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः' ॥ इत्यत्र भक्तिपदेन स्मरणसाप्युक्तेः । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्र मननोक्तेश्च युक्तिभिरनुचिन्तनस्य मननपदार्थत्वात् । हृदयाकाशौ वेति पाठः । जीवन्मुक्तस्य लोकस्य च । जातीति भाष्यं विवरांचक्रुः न चेति । गुहे इति द्विवचनम् । एकेति गुहामित्येक- वचनम् । परममिति भाष्यं विवृण्वन्ति स्म परम इति । तत्रोभयोरिति भाष्यं विवरांबभूवुः तत्रोभयोरिति 'शतजन्मभिः पुमान्' इत्यादिवाक्यानि । 'वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे' ॥ इति श्रुतिश्च । एवं पूर्वार्धं व्याख्याय तत्र किंचिदाहुः विद्वदिति मतुबिति । वसुप्रत्यये तु विद्वद्विदुषोर्विद्वोऽविदुषोरिति प्रयोगौ स्याताम् । विच्छन्दान्मतुपि तु विद्वांश्र विद्वांश्च विद्वांसौ तयो- र्विद्वतोः झय इति सूत्रेण मतुपो मस्य वः संप्रसारणं तु वसोर्न मतुपो वस । 'वसोः संप्रसारणम्' इति सूत्रात् । भाष्ये । न वाक्यार्थेति । अन्तःप्रवेशनानुकूलो व्यापारो वाक्यार्थो न मुख्यक्रियात्वा- भावात् । वदन्तीति वद व्यक्तायां वाचि व्यक्तवागनुकूलो व्यापारो वाक्यार्थः । कर्तृकर्मान्वयविशिष्टः । तथाचेन्द्रियमनसोर्गौणक्रियाऽयोगे तद्द्वारा मुख्यक्रियाऽयोगः सेयमसंगतिः । यथा सैन्धवमानयेत्यत्र भोजनकाले आननक्रियायामश्वायोग इति विशेषेण लवणस्य निर्णयः । प्रकरणेनेति द्वितीयव्याख्याः समाप्ता अत्रप्रकरणेतरजीवप्रकरणपाठादित्यर्थः । प्रकृते । एकस्मिन्निति न गुहाविशेषणम् । गुहायाः स्त्रीत्वात् । किं तु कालविशेषणमित्याशयेन व्याचक्रुः एकदेति । हृदयाकाशविशेषणत्वे तु न दोषः । तथाच भाष्यं न ह्येकस्मिन् हृदयाकाशे इति । आत्मनेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति वार्तिकेन तृतीया । आत्माभिन्नास्त्वयार्थेनानुप्रविश्येमास्तिस्रो देवता इत्यर्थः । सेयं देवतैक्षत हन्ताह- मिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति छान्दोग्ये सैवात्र संदिग्धेति यन्नाह तट्टीकायां देवता जगल्लक्षणाः सूर्यविम्बवदनुप्रविष्टात्मना संयूज्य वरेहास्मानीभूत्वा