अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 604, कुल 2600 में से
संदर्भ में पढ़ेंप्रवेशाश्रवणात् । न ह्येकस्मिन् हृदयाकाशे जीवद्वयं प्रवेष्टुमर्हति । अर्थस्त्वेवं संभवति पूर्वाधिकरणे यथाभिलषितभोगो भगवति साधितः । प्रकारान्तरेणापि, भाष्यप्रकाशः। तृतीया चेत् स्यात् तदोक्तं संभवेत् । सैवात्र संदिग्धेति वाच्यम् । 'गुहाहितं गहरेष्ठं पुराणम्' 'यो वेद निहितं गुहायां परमे व्योमन्' इत्यादौ भावितस्य निहितत्वादेः स्वरूपेण प्रवेशं विनानुपपत्त्यात्र तथा निश्चयात् । यद्यपि तत्र परमात्मनः सिद्धवनिर्देशस्तथापि, तत् सृष्ट्वा तदेवानुप्राविशत्, तदनु प्रविश्य सच्च त्यच्चाभवदिति श्रुत्यन्तरात् प्रवेशहेतुक एवेत्यर्थः । नन्वत्र जीवपदात् तयोरेव सोऽस्त्वित्यत आहुः न हीत्यादि । हृदयाकाशे हि जीवस्य प्रवेशो नामादिव्याकरणार्थः । व्याकरणं चैकेनैव संभवति । अत एवैकवचनम् । अन्यथा जीवाभ्यामित्यादि वदेत् । पुराणेष्वपि, 'चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा । विराट् तदैव पुरुषः सलिलादुदतिष्ठत' ॥ इत्यादौ देहोत्थापनायाप्येक एवोक्तः । अतो व्यष्टिदेहेऽप्येक एव मन्तव्यः । अन्यथा करणाधिपौ द्वौ स्याताम् । ततश्च सुकृतदुष्कृतभोगोऽपि श्रुत्यादौ द्वयोरुच्येत । व्यवस्था च भज्येत । अतो जीवद्वयमेकत्र प्रवेष्टुं नार्हतीति कार्यबलात् सहार्थेऽपि सती तृतीया जीवस्य ब्रह्म- साहचर्यमेव गमयतीत्यर्थः । ननु भवत्वेवं तत्र तथापि प्रकृतमन्त्रार्थः कथं संगच्छत इत्यत आहुः अर्थ इत्यादि । यथेति भिन्नं पदं नित्यसंबन्धात् तथापदमध्याहरति । तेनास्मिन्नधिकरणे जीवेन रश्मिः। नामरूपे नाम्ना रूपेण च सूक्ष्मं पिण्डं व्याकरवाणीति । अत्रास्मत्पदार्थः सूर्यो बिम्बं यथातद्रू- पेणानुप्रविश्य तापयति एवं जीवेनात्मना देवताः प्रविश्य नामरूपे व्याकरोत्स्वतः स्वयं सूर्यबिम्बवद- प्रविष्ट इति प्रविश्येत्यत्रानन्वितो जीवेनेत्यत्र स्वस्य जीवसाहित्यं प्रवेशे विघटयन् सहार्थे तृतीयां विघटयति । ननु तर्हि न संदिग्धेति चेन्न गुहां प्रविष्टाविति श्रुतावेव सहप्रवेशज्ञापनादिति । श्रुत्यो- र्विरोधे विकल्पः प्राप्तस्तमसहमाना विकल्पापादकश्रुत्यां सहार्थे तृतीयां साधयामासुः गुहाहितमिति । 'तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' ॥ इति मन्त्रः । अस्यार्थः गुहायां हृदयाकाशे आहितं स्थितम् । गह्वरे अनेकानर्थसंकुले देहे स्थितं पुरातनमनादिपुरुषम् । अध्यात्मयोगः ब्रह्मणि चित्तसमाधानं तेन प्राप्तं यदधिगमो ज्ञानं ज्ञाना- भिन्नभक्तिर्वा तेन तया वा विदित्वेत्यर्थः । व्योमन्निति सप्तम्या लुक् । निहितेति आदिना मत्वे- त्युक्तम् । मननं हर्षशोकत्यागश्च । अत्रेति । अनेन जीवेनात्मनानुप्रविश्येत्यत्र । तथेति सहार्थे तृतीयात्वेन तृतीयानिश्चयात् । तत्रेति गुहां प्रविष्टावित्यत्र गत्यर्थाकर्मकेभ्यः कर्तरि क्तो भूते लुक् विगृह्य प्राविविक्षतामिति प्रविष्टाविति सिद्धवन्निर्देशः कर्तव्यः । तत्सृष्ट्वेति इदं सर्वं सृष्ट्वा सच्च त्यच्चेति सच्चासच्चोक्तं तत्तत्स्रष्टुं नास्ति तत्स्रष्टेत्यादिश्रुतेरर्थः शंकरभाष्ये । तयोरिति प्रतिबिम्बभूत- जीवयोः । नामादीति आदिपदेन रूपमनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति श्रुतेरित्यर्थः । पुराणेष्विति एकपुराणोदाहरणेन गतार्थत्वान्न पुराणान्तराण्युच्यन्ते । इत्यादावित्या- दिपदेन पुराणान्तरवाक्यानि । करणेति करणानि इन्द्रियाणि यथोक्तं श्रीभागवते तृतीयस्कन्धे ।