अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 608, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५१७ विशेषणाच्च ॥ १२ ॥ विशेषणानि पूर्वोक्तानि जीवब्रह्मणोरेव संगतानि । अग्रिमं वा, आत्मानं रथिनं विद्धि, सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदमिति जीवप्राप्यं ब्रह्मह । अत उभयोरेव सर्वव्यावृत्त्या कथनादग्रिमग्रन्थपर्यालोचनयापीदं ब्रह्मवाक्यमेव । द्वौ भाष्यप्रकाशः। विशेषणाच्च ॥ १२ ॥ अनेनापि हेतुना ब्रह्मणः प्रकृतत्वमेव दृढीक्रियते । विशेषणं किमित्यपेक्षायामाहुः विशेषणानीत्यादि । पूर्वोक्तानीति पूर्वस्यां वल्ल्याम्, अणोरणीयानि- त्यादिषु द्रष्टृद्रष्टव्यत्वप्रसन्नप्रसादाईत्ववरणैकलभ्यत्ववरणीयत्वादीनि । ननूक्तमेतत्तदुत्तरशेषत्वमतः पूर्वप्रकरणस्थान्यनुपयुक्तानीत्यत आहुः अग्रिमं वेत्यादि । उभयोरिति जीवब्रह्मणोः । सर्व- व्यावृत्त्येति शरीराद्यात्मकसर्वजड