अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 609, कुल 2600 में से
संदर्भ में पढ़ेंसुपर्णेति निःसंदिग्धम् । चकारः प्रकरणोक्तसर्वोपपत्तिसमुच्चयार्थः ॥ १२ ॥ इति प्रथमाध्याये द्वितीयपादे चतुर्थं गुहां प्रविष्टावित्यधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः । द्वा सुपर्णेति मन्त्रे चाऽयमेव न्याय इति वदन्ति । तद् दूषयितुमाहुः श्वेत्यादि । अनुत्थानभङ्गाभ्यां रश्मिः । जीवब्रह्मप्रतिपादकं तत्तु 'आत्मानं रथिनम्' इत्यादि । अस्यार्थः । आत्मानं ब्रह्मरूपं जीवं रथस्वामिनं जानीहि इत्याहुः श्रुतयः । आत्मानमिति रथोस्यास्तीति रथी तं रथिनं रथिरूपकं जीवात्मनः । 'शरीरं रथमेव तु' शरीरे रथरूपकम् । 'बुद्धिं तु सारथिं विद्धि' बुद्धौ सारथिरूपकम् । 'मनः प्रग्रहमेव च' मनसि रश्मिरूपकम् । 'इन्द्रियाणि हयानाहुः' एकादशेन्द्रियेषु अश्वरूपकम् । 'विषयांस्तेषु गोचरान्' शब्दरूपरसगन्धस्पर्शेषु मार्गरूपकम् । 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' आत्मानो मनोभिः संयुज्यन्ते मनांसि इन्द्रियैरिन्द्रियाणि भोग्यैः शब्दरूपरसगन्धस्पर्शैस्तदा भोक्तेत्याहुः । बुद्धिसारथे- र्विनियोगमाह यस्त्वविज्ञानेति विज्ञानं बुद्धिरत्र 'बुद्धिं तु सारथिं विद्धि' इति विज्ञानसारथिर्यस्तु' इति बुद्धिविज्ञानयोः पर्यायताश्रावणात् । 'यस्त्वविज्ञानवान् भवति अयुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः । न स तत्पद्माप्नोति संसारं चाधिगच्छति ॥ यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः' । सोध्वन इत्यादि । अर्थस्तु स्पष्टः । बुद्ध्या पदार्थान् जानातीति ज्ञाने करणत्वेन बुद्धिसारथेर्विनियोग उक्तः । 'दृश्यते त्वग्र्यया बुद्ध्या' इति श्रुतेः । जीवप्राप्यमिति तया च प्राप्यप्राप्त्योर्द्वौ जीवब्रह्मविशेषणे । नन्वत्र ऋतपातुत्व- मुभयोः कथमिति चेन्न सायुज्यमत्र वाच्यम् । 'सायुज्यं कृष्णदेवेन शीघ्रमेव ध्रुवं फलम्' इति निबन्धात् सायुज्ये तु मुण्डकोपनिषदि । 'यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सौम्य भावाः प्रजायन्ते तत्रैवापियन्ति' ॥ 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी' ॥ इति । 'मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्' । इति गीता । जीवानांमक्षरब्रह्मात्मकत्वेनाक्षरात्परस्य प्राप्यत्वेनोभयोः ऋतपातृत्वम् । एवं जीवप्राप्य ब्रह्महेत्यर्थः । अन्य इति शंकरानन्दा भास्कराचार्याश्च वदन्तीति तथा च शंकरभाष्यम् । एष एव न्यायो द्वा सुपर्णा सयुजा सखायेत्येवमादिष्वपीति । भास्करभाष्यं च द्वा सुपर्णेत्यत्राप्ययमेव न्याय इति । भास्कराचार्यमतेऽन्ये रिति भाष्यभिप्राये द्वा सुपर्णेति मन्त्रे चेतन्न बोध्यम् । द्वा सुपर्णेतिमन्त्रेऽपीत्यर्थः ।