अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 610, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५१९ भाष्यप्रकाशः । द्वयोर्विशेष्यमात्रत्वेन, 'समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्य- मीशमस्य महिमानमिति वीतशोकः' इति समनन्तरमन्त्रे च जीवपरमात्मनोरुक्तत्वेनासंदिग्धतया जीवान्तरस्य जडस्य च तत्र द्वितीयकोट्याप्रवेशाज्जीवपरमात्मानौ स्फुटौ प्रतीयेते । अतो न्यायप्रयो- जनाभावादयुक्तमित्यर्थः । नच तत्र परमात्मनोऽनशनस्योक्तत्वाद्, ऋतं पिबन्तावित्यत्र जीवद्वय- मेव युक्तमिति शङ्कम् । पूर्वोक्तयुक्तिभिर्द्वितीयस्य ब्रह्मत्वसिद्धौ जीवान्तरस्य तत्राशक्यवचनत्वेन ब्रह्मणो भोगसिद्धेर्द्वा सुपर्णेति मन्त्रे जीववदशनाभावस्यैवानश्नन्नित्यत्र व्याख्याततया जीवद्वयस्यान्रा- शक्यवचनत्वादिति । एवमत्र हृदयस्थस्य भोगसाधनेन पूर्वाधिकरणसिद्धोऽपि भोगः प्रकरणाैक्या- न्मोक्षापेक्षेहृदयस्थस्यैवेति साधितम् । तथा मन्त्रव्याख्यानेनानन्दमयत्वरूपं वैशिष्ट्यं च बोधितम् । शंकराचार्यास्तु, द्वा सुपर्णेति मन्त्रमुपन्यस्य पैङ्गिरहस्यब्राह्मणे, तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् । अनश्नन्नन्यो अभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः तावेतौ सत्त्वक्षेत्रज्ञाविति व्याख्याय, तदेतत् सत्त्वं येन स्वप्नं पश्यत्यथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्र- रश्मिः । गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति सूत्रार्थं शंकरभाष्योक्तमाहुः अशुत्वेति । दर्शनादिलिङ्गस्य विवृतप्रायत्वाद्विशेषणाञ्चेति सूत्रार्थमनुवदन्ति स्म समाने वृक्षे इति । निमग्नः मसि गतौ भ्वादिः परस्मैपदी सेट् क्तः । अविद्याकामकर्मरागादिभाराक्रान्तो निश्चयेन देहात्मभावं प्राप्तोऽयमेवाहमस्य पुत्रो नप्ता इत्यादिना । न कस्यचित्समर्थोऽहं किं मे जीवितेनेत्यादिदीनभावोनीशा तया शोचति संतप्यते मुह्यमानः । यदा कदाचिच्छुद्धकर्मसु संचितनिमित्तैः जनैकैर्योगमार्गैः कर्मभिश्च जुष्टं सेवितं विभूतिं महिमानं च जगद्रूपमस्यैव परमेश्वरस्येति पश्यति तदा वीतशोको भवतीत्यर्थः । जीवान्तरेति अपर आहेत्यादिशंकरभाष्योक्तस्य तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वस्य जीवस्य अनश्नन् इति ज्ञः परमात्मेत्युक्तस्य परमात्मनो क्षेत्रज्ञत्वेन रूपेण जीवान्तरस्य । जडस्येति अन्तःकरणस्य सत्त्वक्षेत्रज्ञ- शब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वादिति शंकरभाष्यात् । तया च जीवपरमात्मानावित्येव न तु जीवक्षेत्रज्ञौ नाप्यन्तःकरणशारीरौ श्रुत्यनर्थक्यात् । तत्रेति द्वा सुपर्णेत्यत्र । एवेति वेदः परमाण्वक्षर- मात्रमपि अन्यथा न वदतीति जन्माद्यस्य यत इत्यधिकरणभाष्यात् । पिबन्ताविति श्रुतेर्निरपेक्षस्वरूपायाः प्रामाण्यादेवकारः । भोगसिद्धेरिति अतो न पिबन्ताविति निरपेक्षवच्स नापि भाष्यस्य प्रामाण्य- हानिरिति भावः । प्रकरणेति ननु द्वितीयवल्लीसमाप्त्या पूर्वाधिकरणविषयवाक्यस्य मन्त्रप्रकरणत्वं तृतीयवल्यारम्भेऽस्माधिकरणस्य विषयवाक्यं जीवप्रकरणे इति कथं प्रकरणैक्यमिति चेन्न । जीवब्रह्मणो- र्भोगसाधनप्रकरणैक्यस्य प्रसङ्गसंगत्यात्र विवक्षितत्वात् । ननु ब्रह्मणो भोगसिद्धिरुक्ता सा पैङ्गिरहस्यसंम- लास न्यायस्य शंकराचार्यैः द्वा सुपर्णा इत्यत्र संचारात् । पिबन्तावित्यत्र छत्रिनो यान्तीतिवल्लक्षणा न तु जीवब्रह्मणोर्महाभोग इत्याशङ्कायामाहुः शांकरेति । ऋतं पिबन्तौ इति पूर्वोपन्यासेनाधिकरण- रचनायां भोगं दृष्ट्वा भ्रान्ताः एष एव न्यायो द्वा सुपर्णा सयुजा सखायेत्येवमादिषु अतिदेशभाष्ये द्वा सुपर्णेत्यादिः । ताविति सत्त्वपदवाच्यः ज्ञपदवाच्यश्चेतेती । व्याख्यायेति द्वा सुपर्णेति मन्त्रमन्तःकरण- परमात्मपरत्वेन व्याख्याय श्रुत इत्याकाङ्क्षायां श्रुतिं पेठुः तदेतदिति । येनेति अन्तःकरणेन । उपद्रष्टा उप समीपरूपशरीरस्थं द्रष्टा । तावेताविति अन्तःकरणशारीरौ । ननु नेदमतिदेशभाष्यमपि तु ६६ ब्र० सू० २० 519