अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 616, कुल 2600 में से
संदर्भ में पढ़ेंअङ्गेति । तद् यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छतीत्यादि श्रूयते । तत्र संशयः । प्रतिबिम्बपुरुषस्य ब्रह्मत्वेनोपासनापरमिदं वाक्यं ब्रह्मवाक्यमेवेति वा । विरुद्धार्थवाचकत्वात् संदेहः । तत्र दृश्यत इति वचनात् प्रतिबिम्ब एवायम् । ब्रह्मप्रकरणस्य च समाप्त- त्वादेषा सोम्य तेऽस्मद्विद्या आत्मविद्या चेत्युपसंहारदर्शनात् तत्सिद्धयर्थमुपास- नापरतैव वाक्यस्य युक्ता । भाष्यप्रकाशः एवमेवंविदि पापं कर्म न श्लिष्यते इति फलम् । तत्र निदर्शनं स आह तद् यद्यपीत्यादि । तत् तत्र इदं निदर्शनम् । यद्यप्यस्मिन् अक्षिपुरुषस्थानभूते अक्षिणि, सर्पिर्वा उदकं वा सिञ्चति धारया क्षरतः पातयंति, वर्त्मनी अक्ष्यावरणदिभूते पक्ष्मणी एव गच्छति प्राप्नोति । ते एवार्द्रे स्निग्धे च भवतो, न त्वक्षि । तथाच यत्स्थानस्येदृशं माहात्म्यं तस्य ज्ञाने सति पाप