अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 619, कुल 2600 में से
संदर्भ में पढ़ेंएतं संयद्वाम इत्याचक्षते । एत५ हि सर्वाणि वामान्यभिसंयन्ति । एष उ एव वामनीरेष हि सर्वाणि वामानि नयति । एष उ एव भामनीरेष हि सर्वेषु लोकेषु भातीति । वामानि कर्मफलानि । तेषामेव मनोहरत्वेन तदर्थं कर्मकरणात् । कर्म- फललयः कर्मफलदानं च यत इति स्वर्गापवर्गफलदातृत्वमुक्तम् । सर्वलोकेषु
भाष्यप्रकाशः।
नियतं स्यात् । तदेव तु न । अन्येषामपि प्रतिबिम्बात् । अतो विषयवशेन दर्शनश्रुतिसंकोचस्तव मतेऽपि तुल्यः । प्रकरणविरोधाद्बाधिक इति न प्रतिपुरुषस्योपासनाविधायकमिदं, किंतु ब्रह्म- वाक्यमेवेत्यर्थः ॥ १३ ॥ स्थानादिव्यपदेशाच्च ॥ १४ ॥ पूर्वसूत्रोक्तस्य हेतोर्वादकवलितत्वात् सूत्रान्तरं पठती- त्याशयेन सूत्रं पठित्वा व्याचक्षते एतमित्यादि । तथाचान्तरपदेन पूर्वसूत्रादेव स्थानप्राप्तेरस्मिन् सूत्रे स्थानादीत्यत्रातद्गुणसंविज्ञान इत्यर्थः । ए