भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 620, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 620

[Header] भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५२९

भानं च । एव इति तमेवाक्षिपुरुषं निर्दिश्य स्थानादि व्यपदिश्यते । न हि प्रतिबिम्बात्मनः स्थानादिव्यपदेशः संभवति । चकारादेतत्तुत्यवाक्यस्याप्ययमे-

भाष्यप्रकाशः । लोकादीनां तदवयवत्वेन च तत्रैव लय इत्यर्थः । एतेन स्थानपदस्योक्तरीत्या लयार्थकत्वमित्यपि व्याख्यातम् । तदा तु तद्गुणसंविज्ञान एव । तथा चैतैः संयद्वामत्वादिभिरसाधारणधर्मैरत्र ब्रह्मैव निश्चीयते । अतः पूर्वसूत्रोक्तो हेतुरपि तस्यैव साधक इत्यर्थः । एतं न्यायं वाक्यान्तरेऽप्यतिदेष्टुं सूत्रे चकार इत्याहुः चकारादित्यादि । तत्स्मारयन्ति इन्द्रेत्यादि । तत्रापि प्रथमे पर्याये, य एषोऽक्षिणीत्यारभ्यैतद् ब्रह्मेत्यन्त एवमेवोपदिष्टत्वात् तदित्यर्थः । ननु तत्र, अथ योऽयमित्या- दिना प्रश्ने प्रजापतिना, एष एवैषु सर्वेष्वन्तेषु परिख्यायते इति प्रतिबिम्बस्यैव निगमनात् कथं तस्यैतदेकवाक्यत्वमिति शङ्कायामाहुः अथेत्यादि । एतदग्रे, उदशराव इत्यादिना इन्द्रविरोचन-

रश्मिः । लोकादीनामिति ब्रह्मपृथिव्यादीनामित्यर्थः । तदवयवत्वेनेति अक्षिपुरुषतदवयवत्वेनाक्षिपुरुष एव संक्षेप इत्यर्थः । एतेनेति कर्मफललय इति भाष्येण उक्तरीत्या ब्रह्मत्वगमकताप्रश्ने कृते उक्ताया ब्रह्मतागमकतारीतिरक्षिपुरुषे लयप्रणाडी तथा कृत्वा । ब्रह्मणि लीयतेऽनेनेति स्थानं लयः करणे प्रत्ययस्तस्याहुर्यार्थकत्वमपीत्यपि व्याख्यातप्रायमित्यर्थः । तद्गुणेति तस्य वर्तिपदार्थस्य गुणा विशेषणानि तेषां संविज्ञानं क्रियान्वयित्वेन यत्र स तद्गुणसंविज्ञानः । एवकारस्तु स्थानस्य क्रियान्व- यित्वेन संविज्ञानादतद्गुणसंविज्ञानव्यवच्छेदकः । संयद्वामेति आदिपदेन वामनीभामन्योर्ग्राह्यौ । ब्रह्मैवेत्यनेकेषां धर्माणामुपासनागमकत्वे 'जन्माद्यस्य यतः' इत्यधिकरणोक्तधर्माणामप्यारोपसंभवेन स्वारसिकब्रह्मसिद्धेर्हानेवानयः स्यादित्यनेकेषामुपासनागमकत्वाभाव इत्येवकारः । असाधारणेति संयद्वामत्वं कर्मफललय इति भाष्येण व्याकृतं वामनीत्वं कर्मफलदानं चेति भाष्येण विवृतं स्थितिरूपं कर्मफलं स्वर्गापवर्गलक्षणं ब्रह्माणं प्रति परान् प्रति च यतो भवति कर्मणा ब्रह्मणो विमोक्षसोक्तेः कर्म- हिरण्यगर्भयोर्मुख्यत्वात् तदुभयमुक्तम् । भामत्वं सर्वलोकेष्विति भाष्येणोक्तमुत्पत्तिरूपम् । लोकसृष्टिद्वारा व्यवहार्यो भविष्यामीति ईक्षतेरित्याधिकरणभाष्योक्तेः । अत इति अनेकेषामुपासनागमकत्वाभावात् । साधक इति अस्तु वादकवलितत्वं परं तु भविद्वदशायां एकस्या अपि श्रुत्यन्तरानुगृहीतायाः अनुरोधोऽपार्थ इति भावः । विषयवाक्यान्तरसमुच्चये चकार इत्याहुः एतमिति । तदिति वाक्यम् । तत्रेति इन्द्रविरोचनयोः प्रजापतेश्च संवादे । अयमेव भाष्यार्थश्छान्दोग्ये दशमप्रपाठकेऽस्ति । पर्याय इति तौ प्रति प्रथमे वाक्यनिर्माणे प्रकारे वा । तदित्यर्थ इति वाक्यमित्यर्थः । अथ योऽयमिति । अथ योयं य एषोऽप्सु परिख्यायते यश्चायमादर्शे कतम इत्येष उ एवैषु एतेषु परिख्यायत इति होवाच' इति श्रुत्या एष उ एवैषु सर्वेषु अन्तेषु परिख्यायते इति पाठान्तरम् । अस्या अर्थः । एष हृदयस्थः उ एव आत्मा सर्वेषु यथोक्तेषु अप्स्विति पाठेऽप्ययमर्थः । अप्स्वादिषु वर्तमानेषु । अन्तेषु मध्येपु । एतेष्विति पाठेऽप्ययमर्थः । परिख्यायते इति ह प्रजापतिरुवाचेति । तस्यैतदिति । य एषोक्षिणि पुरुषो दृश्यत इत्यस्य संदिग्धस्य एतस्य अप्सु य रिख्यायते यश्चायमादर्शे इत्यसंदिग्धस्यैकवाक्यतामित्यर्थः ।

529