भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 621, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 621

बार्थः । इन्द्रविरोचनप्रजापतिसंवादे । अथ योऽयं भगवोऽप्सु परिख्यायत इत्या- सुरम् । न तु य एषोऽक्षिणि पुरुषो दृश्यत इत्यादि । तस्मादक्षिपुरुषो ब्रह्मैव ॥ १४ ॥ सुखविशिष्टाभिधानादेव च ॥ १५ ॥ ननु किमिति निर्बन्धेन ब्रह्मवाक्यत्वं संपाद्यते । उपासनापरत्वे को दोष इत्याशङ्कयाह सुखविशिष्टाभिधानात् । एतदमृतमभयमेतद् ब्रह्मेति । यद्यत्रोपा- भाष्यप्रकाशः । योर्बोधं परीक्ष्य ताभ्यां शरीर एवात्मत्वेन ज्ञाते प्रजापतिना, अनुपलभ्यात्मानमित्यादिना तद्दोषकथनात् तस्यैवासुरत्वं बोधितम् । श्रुत्या चोपपादितम् । अतस्तदेवासुरं, न तु ततः पूर्वतनमपीत्यर्थः । नच प्रजापतिनैवं क्लिष्टं किमित्युक्तमिति शङ्क्यम् । अधिकारपरीक्षार्थत्वात् । नच मिथ्याभाषितत्वं प्रतारकत्वं वा । अन्तर्यामिब्राह्मणे तस्य सर्वान्तरत्वश्रावणात् प्रतिबिम्ब अबादौ चात्मनः सत्त्वेन, यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति कथनेन तदुभयाभावादिति ॥ १४ ॥ सुखविशिष्टाभिधानादेव च ॥ १५ ॥ अभिधानं विवृण्वन्ति एतदमृतमित्यादि । रश्मिः । परीक्ष्येति उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथ तन्मे प्रब्रूतमित्यादिना परीक्ष्य एतद- मृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुरिति श्रुत्या । ताभ्यां शरीरे बिम्बभूते द्विवचनान्तं पदम् । ज्ञाते सतीत्यादिनेत्यनुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाचेत्यनया तस्या उपनिषदोऽविचार्य देहपरिचरणकथनात् आसुरत्वरूपदोषकथनात् तस्यैवाथ योयं भगवोऽप्सु परिख्यायते इति वाक्यस्यैवासुरत्वं बोधितं श्रुत्या चासुराणां ह्येषोपनिषदिति श्रुत्या चोपपादितमतः पूर्वोक्तं वाक्यमेवासुरम् । षष्ठप्रपाठकश्रुतिभ्रमं भाष्ये वारयामासुः न त्विति । पूर्वतनं दशमप्रपाठकस्थं न तु षष्ठप्रपाठकस्थम् । श्रुत्यर्थस्तु उदशरावे उदकपूर्णे शरावे आत्मन इति कर्म युवामिन्द्रविरोचनौ न विजानीथः शेषं स्पष्टम् । अनुपलभ्य यथोक्तमात्मानं शास्त्राचार्याभ्यामज्ञात्वाऽननुविद्य स्वप्नप्रत्यक्षतां चाकृत्वा विपरीतनिश्चयौ भूत्वा एताविन्द्रविरोचनौ व्रजतः गच्छेयाताम् । अतः यतरे ये केचन देवा वा असुरा वा एतदुपनिषदः एताभ्यां मिथ्या गृहीता प्रतिबिम्बात्मविद्या सैवोपनिषद्येषां त एत- दुपनिषदः एवंविज्ञाना एतन्निश्चया भविष्यन्ति ते पराभूता भविष्यन्तीत्युक्तं प्रजापतिवाक्यं श्रुत्वा स्वगृहं गच्छन् योसुरराजो विरोचनः स ह शान्तहृदयः एव सन् असुरान् जगाम तेभ्योऽसुरेभ्यः एतां शारीरात्मबुद्धिरूपामुपनिषदं प्रोवाचेति । क्लिष्टमिति देहात्मवाचकं पदमुपदेशान्तरा- द्विहारान्तरात्मव्यञ्जकम् । शेषाभिव्यञ्जकपदमिति क्लिष्टमित्यर्थः । अधीति निवृत्तिप्रवृत्तिमार्गाधिकार- परीक्षार्थम् । देहस्याप्यात्मत्वात् । उभयोः कुत्रात्मन्यधिकार इति न चेति । अक्षिपुरुष ब्रह्मदिदर्शयिषोः प्रजापतेर्मिथ्याभाषितं प्रतारकत्वं चेत्यर्थः । न च भाषितमित्यनेनानन्वयः शङ्क्यः । कर्मादीनामपि सम्बन्धसामान्ये षष्ठ्यभिधानात् । प्रजापतेरिति कर्तरि षष्ठ्यङ्गीकारात् । अबादाविति आदिपदेन देहः । कथनेनेति पराभवरूपफलकथनेन तदुभयस्य मिथ्याभाषितप्रतारकत्वरूपस्याभावादिति । इति सूत्रार्थ- समाप्तौ । तथा चात्मोपनिषदुक्तेषु त्रिष्वात्मसु विरोचनस्य बाह्यात्माधिकारात् न तदुभयमित्यर्थः ॥ १४ ॥ सुखविशिष्टाभिधानादेव च ॥ १५ ॥ अभिधानमिति अक्षिपुरुषं निर्दिश्य