अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 622, कुल 2600 में से
संदर्भ में पढ़ेंसना विधीयेत, एष आत्मेति । तदा अमृतादिवचनं व्यर्थं स्यात् । तद्धर्माणां पूर्वमेव प्राप्तत्वात् । तस्मादमृतमानन्दः, अभयं चित्, ब्रह्म सत्, सच्चिदा- नन्दरूप आत्मेत्युक्तं भवति । अतः, एष इत्यक्षिपुरुषं निर्दिश्य सुखविशिष्टम- भिधीयते । सच्चितोर्न ब्रह्मविख्यापकत्वमिति सुखमेव निर्दिष्टम् । अतः सुख- भाष्यप्रकाशः । अयमर्थः । अत्र ह्येतद्विशेषणत्रयं पूर्वमभिधायाग्रे संयद्वामत्वादय उच्यन्ते । तेनैतत्त्रयस्य स्वरूपबोधकत्वमिति ज्ञायते । तच्च सच्चिदानन्दात्मकमतोऽत्राऽमृतपदमानन्दवाचकमिति सनत्कुमारेण सुखरूपं भूमानं प्रस्तुत्य, यो वै भूमा तदमृतमिति छान्दोग्ये श्रावणाज्ज्ञेयम् । अभयपदं चिद्वाचकमिति त्वभयं ह वै जनक प्राप्तोऽसीति ज्ञानोपदेशोत्तरमभयपदेनोपसंहारात् । ब्रह्मपदं सद्वाचकमिति च सत्यं