अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 628, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५३७ पादान्तत्त्वादानन्दमूर्त्तिर्भगवान्वेव । ब्रह्मवादे त्वेषैव मर्यादा । सगुणवादो ब्रह्मवादाज्ञानादिति ॥ १७ ॥ इति प्रथमाध्याये द्वितीयपादे पञ्चममन्तर उपपत्तेरित्यधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः । पाणिपादान्तत्वेन पुरुषत्वस्य प्राकट्यात् स्वल्पमपि स्थानं पर्याप्तं भवतीत्यत उपपद्यत इत्यर्थः । ननु सगुणसोपाधिविशेषपरिच्छिन्नतया तावति स्वल्पे स्थाने स्थितिरुपपद्यत एवेति तद्विहाय सर्वतः पाणिपादान्तत्त्वं किमर्थमाद्रियत इत्यत आहुः ब्रह्मवाद इत्यादि । ब्रह्मैव सर्वमिति वादो ब्रह्मवादः । स च 'बहु स्याम्' इत्यादिश्रुतिसिद्धः । तत्र च सर्वतः पाणिपादान्तत्वं श्रुतौ गीतायां च सिद्धमतस्तथाङ्गीक्रियते । यः पुनः सगुणवादः स तु ब्रह्मभावाज्ञानादेकदेशमादाय जघन्याधिकारिणः प्रति प्रवृत्तोतो ना